धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 225

  1. [मन्दपाल] युष्माकं परिरक्षार्थं विज्ञप्तॊ जवलनॊ मया अग्निना च तथेत्य एवं पूर्वम एव परतिश्रुतम ॥ 1 ॥

  2. अग्नेर वचनम आज्ञाय मातुर धर्मज्ञतां च वः युष्माकं च परं वीर्यं नाहं पूर्वम इहागतः ॥ 2 ॥

  3. न संतापॊ हि वः कार्यः पुत्रका मरणं परति ऋषीन वेद हुताशॊ ऽपि बरह्म तद विदितं च वः ॥ 3 ॥

  4. [वै] एवम आश्वास्य पुत्रान स भर्यां चादाय भारत मन्दपालस ततॊ देशाद अन्यं देशं जगाम ह ॥ 4 ॥

  5. मघवान अपि तिग्मांशुः समिद्धं खाण्डवं वनम ददाह सह कृष्णाभ्यां जनयञ जगतॊ ऽभयम ॥ 5 ॥

  6. वसा मेदॊ वहाः कुल्यास तत्र पीत्वा च पावकः अगच्छत परमां तृप्तिं दर्शयाम आस चार्जुनम ॥ 6 ॥

  7. ततॊ ऽनतरिक्षाद भगवान अवतीर्य सुरेश्वरः मरुद्गणवृतः पार्थं माधवं चाब्रवीद इदम ॥ 7 ॥

  8. कृतं युवाभ्यां कर्मेदम अमरैर अपि दुष्करम वरान वृणीतं तुष्टॊ ऽसमि दुर्लभान अप्य अमानुषान ॥ 8 ॥

  9. पार्थस तु वरयाम आस शक्राद अस्त्राणि सर्वशः गरहीतुं तच च शक्रॊ ऽसय तदा कालं चकार ह ॥ 9 ॥

  10. यदा परसन्नॊ भगवान महादेवॊ भविष्यति तुभ्यं तदा परदास्यामि पाण्डवास्त्राणि सर्वशः ॥ 10 ॥

  11. अहम एव च तं कालं वेत्स्यामि कुरुनन्दन तपसा महता चापि दास्यामि तव तान्य अहम ॥ 11 ॥

  12. आग्नेयानि च सर्वाणि वायव्यानि तथैव च मदीयानि च सर्वाणि गरहीष्यसि धनंजय ॥ 12 ॥

  13. वासुदेवॊ ऽपि जग्राह परीतिं पार्थेन शाश्वतीम ददौ च तस्मै देवेन्द्रस तं वरं परीतिमांस तदा ॥ 13 ॥

  14. दत्त्वा ताभ्यां वरं परीतः सह देवैर मरुत्पतिः हुताशनम अनुज्ञाप्य जगाम तरिदिवं पुनः ॥ 14 ॥

  15. पावकश चापि तं दावं दग्ध्वा समृगपक्षिणम अहानि पञ्च चैकं च विरराम सुतर्पितः ॥ 15 ॥

  16. जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च युक्तः परमया परीत्या ताव उवाच विशां पते ॥ 16 ॥

  17. युवाभ्यां पुरुषाग्र्याभ्यां तर्पितॊ ऽसमि यथासुखम अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम ॥ 17 ॥

  18. एवं तौ समनुज्ञातौ पावकेन महात्मना अर्जुनॊ वासुदेवश च दानवश च मयस तथा ॥ 18 ॥

  19. परिक्रम्य ततः सर्वे तरयॊ ऽपि भरतर्षभ रमणीये नदीकूले सहिताः समुपाविशन ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 1

Previous: अध्याय 224