[जरिता] अस्माद बिलान निष्पतितं शयेन आखुं जहार तम कषुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः ॥ 1 ॥
[षार्न्गकाह] न हृतं तं वयं विद्मः शयेनेनाखुं कथं चन अन्ये ऽपि भवितारॊ ऽतर तेभ्यॊ ऽपि भयम एव नः ॥ 2 ॥
संशयॊ हय अग्निर आगच्छेद दृष्टं वायॊर निवर्तनम मृत्युर नॊ बिलवासिभ्यॊ भवेन मातर असंशयम ॥ 3 ॥
निःसंशयात संशयितॊ मृत्युर मातर विशिष्यते चर खे तवं यथान्यायं पुत्रान वेत्स्यसि शॊभनान ॥ 4 ॥
[जरिता] अहं वै शयेनम आयान्तम अद्राक्षं बिलम अन्तिकात संचरन्तं समादाय जहाराखुं बिलाद बली ॥ 5 ॥
तं पतन्तम अखं शयेनं तवरिता पृष्ठतॊ ऽनवगाम आशिषॊ ऽसय परयुञ्जाना हरतॊ मूषकं बिलात ॥ 6 ॥
यॊ नॊ दवेष्टारम आदाय शयेनराजप्रधावसि भव तवं दिवम आस्थाय निरमित्रॊ हिरण्मयः ॥ 7 ॥
यदा स भक्षितस तेन कषुधितेन पतत्रिणा तदाहं तम अनुज्ञाप्य परत्युपायां गृहान परति ॥ 8 ॥
परविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वॊ भयम शयेनेन मम पश्यन्त्या हृत आखुर न संशयः ॥ 9 ॥
[षार्न्गकाह] न विद्म वै वयं मातर हृतम आखुम इतः पुरा अविज्ञाय न शक्ष्यामॊ बिलम आविशतुं वयम ॥ 10 ॥
[जरिता] अहं हि तं परजानामि हृतं शयेनेन मूषकम अत एव भयं नास्ति करियतां वचनं मम ॥ 11 ॥
[षार्न्गकाह] न तवं मिथ्यॊपचारेण मॊक्षयेथा भयं महत समाकुलेषु जञानेषु न बुद्धिकृतम एव तत ॥ 12 ॥
न चॊपकृतम अस्माभिर न चास्मान वेत्थ ये वयम पीड्यमाना भरस्य अस्मान का सती के वयं तव ॥ 13 ॥
तरुणी दर्शनीयासि समर्था भर्तुर एषणे अनुगच्छ सवभर्तारं पुत्रान आप्स्यसि शॊभनान ॥ 14 ॥
वयम अप्य अग्निम आविश्य लॊकान पराप्स्यामहे शुभान अथास्मान न दहेद अग्निर आयास तवं पुनर एव नः ॥ 15 ॥
[वै] एवम उक्ता ततः शार्ङ्गी पुत्रान उत्सृज्य खाण्डवे जगाम तवरिता देशं कषेमम अग्नेर अनाश्रयम ॥ 16 ॥
ततस तीक्ष्णार्चिर अभ्यागाज जवलितॊ हव्यवाहनः यत्र शार्ङ्गा बभूवुस ते मन्दपालस्य पुत्रकाः ॥ 17 ॥
ते शार्ङ्गा जवलनं दृष्ट्वा जवलितं सवेन तेजसा जरितारिस ततॊ वाचं शरावयाम आस पावकम ॥ 18 ॥
आदिपर्व · Adi Parva
अध्याय 222
Reach this point to mark the section finished.
Continue to अध्याय 223