[वै] ततः परज्वलिते शुक्रे शार्ङ्गकास ते सुदुःखिताः वयथिताः परमॊद्विग्ना नाधिजग्मुः परायणम ॥ 1 ॥
निशाम्य पुत्रकान बालान माता तेषां तपस्विनी जरिता दुःखसंतप्ता विललाप नरेश्वर ॥ 2 ॥
अयम अग्निर दहन कक्षम इत आयाति भीषणः जगत संदीपयन भीमॊ मम दुःखविवर्धनः ॥ 3 ॥
इमे च मां कर्षयन्ति शिशवॊ मन्दचेतसः अबर्हाश चरणैर हीनाः पूर्वेषां नः परायणम तरासयंश चायम आयाति लेलिहानॊ महीरुहान ॥ 4 ॥
अशक्तिमत्त्वाच च सुता न शक्ताः सरणे मम आदाय च न शक्तास्मि पुत्रान सरितुम अन्यतः ॥ 5 ॥
न च तयक्तुम अहं शक्ता हृदयं दूयतीव मे कं नु जह्याम अहं पुत्रं कम आदाय वरजाम्य अहम ॥ 6 ॥
किं नु मे सयात कृतं कृत्वा मन्यध्वं पुत्रकाः कथम चिन्तयाना विमॊक्षं वॊ नाधिगच्छामि किं चन छादयित्वा च वॊ गात्रैः करिष्ये मरणं सह ॥ 7 ॥
जरितारौ कुलं हीदं जयेष्ठत्वेन परतिष्ठितम सारिसृक्वः परजायेत पितॄणां कुलवर्धनः ॥ 8 ॥
सतम्ब मित्रस तपः कुर्याद दरॊणॊ बरह्मविद उत्तमः इत्य एवम उक्त्वा परययौ पिता वॊ निर्घृणः पुरा ॥ 9 ॥
कम उपादाय शक्येत गन्तुं कस्यापद उत्तमा किं नु कृत्वा कृतं कार्यं भवेद इति च विह्वला ॥ 10 ॥
नापश्यत सवधिया मॊक्षं सवसुतानां तदानलात एवं बरुवन्तीं शार्ङ्गास ते परत्यूचुर अथ मातरम ॥ 11 ॥
सनेहम उत्सृज्य मातस तवं पत यत्र न हव्यवाट अस्मासु हि विनष्टेषु भवितारः सुतास तव तवयि मातर विनष्टायां न नः सयात कुलसंततिः ॥ 12 ॥
अन्ववैक्ष्यैतद उभयं कषमं सयाद यत कुलस्य नः तद वै कर्तुं परः कालॊ मातर एष भवेत तव ॥ 13 ॥
मा वै कुलविनाशाय सनेहं कार्षीः सुतेषु नः न हीदं कर्म मॊघं सयाल लॊककामस्य नः पितुः ॥ 14 ॥
[जरिता] इदम आखॊर बिलं भूमौ वृक्षस्यास्य समीपतः तद आविशध्वं तवरिता वह्नेर अत्र न वॊ भयम ॥ 15 ॥
ततॊ ऽहं पांसुना छिद्रम अपिधास्यामि पुत्रकाः एवं परतिकृतं मन्ये जवलतः कृष्णवर्त्मनः ॥ 16 ॥
तत एष्याम्य अतीते ऽगनौ विहर्तुं पांसुसंचयम रॊचताम एष वॊपायॊ विमॊक्षाय हुताशनात ॥ 17 ॥
[षार्न्गकाह] अबर्हान मांसभूतान नः करव्यादाखुर विनाशयेत पश्यमाना भयम इदं न शक्ष्यामॊ निषेवितुम ॥ 18 ॥
कथम अग्निर न नॊ दह्यात कथम आखुर न भक्षयेत कथं न सयात पिता मॊघः कथं माता धरियेत नः ॥ 19 ॥
बिल आखॊर विनाशः सयाद अग्नेर आकाशचारिणाम अन्ववेक्ष्यैतद उभयं शरेयान दाहॊ न भक्षणम ॥ 20 ॥
गर्हितं मरणं नः सयाद आखुना खादता बिले शिष्टाद इष्टः परित्यागः शरीरस्य हुताशनात ॥ 21 ॥
आदिपर्व · Adi Parva
अध्याय 221
Reach this point to mark the section finished.
Continue to अध्याय 222