धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 219

  1. [वै] तथा शैलनिपातेन भीषिताः खाण्डवालयाः दानवा राक्षसा नागास तरक्ष्वृक्षवनौकसः दविपाः परभिन्नाः शार्दूलाः सिंहाः केसरिणस तथा ॥ 1 ॥

  2. मृगाश च महिषाश चैव शतशः पक्षिणस तथा समुद्विग्ना विससृपुस तथान्या भूतजातयः ॥ 2 ॥

  3. तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ उत्पातनाद अशब्देन संत्रासित इवाभवन ॥ 3 ॥

  4. सवतेजॊ भास्वरं चक्रम उत्ससर्ज जनार्दनः तेन ता जातयः कषुद्राः सदानव निशाचराः निकृत्ताः शतशः सर्वा निपेतुर अनलं कषणात ॥ 4 ॥

  5. अदृश्यन राक्षसास तत्र कृष्ण चक्रविदारिताः वसा रुधिरसंपृक्ताः संध्यायाम इव तॊयदाः ॥ 5 ॥

  6. पिशाचान पक्षिणॊ नागान पशूंश चापि सहस्रशः निघ्नंश चरति वार्ष्णेयः कालवत तत्र भारत ॥ 6 ॥

  7. कषिप्तं कषिप्तं हि तच चक्रं कृष्णस्यामित्र घातिनः हत्वानेकानि सत्त्वानि पाणिम एति पुनः पुनः ॥ 7 ॥

  8. तथा तु निघ्नतस तस्य सर्वसत्त्वानि भारत बभूव रूपम अत्युग्रं सर्वभूतात्मनस तदा ॥ 8 ॥

  9. समेतानां च देवानां दानवानां च सर्वशः विजेता नाभवत कश चित कृष्ण पाण्डवयॊर मृधे ॥ 9 ॥

  10. तयॊर बलात परित्रातुं तं दावं तु यदा सुराः नाशक्नुवञ शमयितुं तदाभूवन पराङ्मुखाः ॥ 10 ॥

  11. शतक्रतुश च संप्रेक्ष्य विमुखान देवता गणान बभूवावस्थितः परीतः परशंसन कृष्ण पाण्डवौ ॥ 11 ॥

  12. निवृत्तेषु तु देवेषु वाग उवाचाशरीरिणी शतक्रतुम अभिप्रेक्ष्य महागम्भीर निःस्वना ॥ 12 ॥

  13. न ते सखा संनिहितस तक्षकः पन्नगॊत्तमः दाहकाले खाण्डवस्य कुरुक्षेत्रं गतॊ हय असौ ॥ 13 ॥

  14. न च शक्यॊ तवया जेतुं युद्धे ऽसमिन समवस्थितौ वासुदेवार्जुनौ शक्र निबॊधेदं वचॊ मम ॥ 14 ॥

  15. नरनारायणौ देवौ ताव एतौ विश्रुतौ दिवि भवान अप्य अभिजानाति यद वीर्यौ यत पराक्रमौ ॥ 15 ॥

  16. नैतौ शक्यौ दुराधर्षौ विजेतुम अजितौ युधि अपि सर्वेषु लॊकेषु पुराणाव ऋषिसत्तमौ ॥ 16 ॥

  17. पूजनीयतमाव एताव अपि सर्वैः सुरासुरैः सयक्षरक्षॊगन्धर्वनरकिंनर पन्नगैः ॥ 17 ॥

  18. तस्माद इतः सुरैः सार्धं गन्तुम अर्हसि वासव दिष्टं चाप्य अनुपश्यैतत खाण्डवस्य विनाशनम ॥ 18 ॥

  19. इति वाचम अभिश्रुत्य तथ्यम इत्य अमरेश्वरः कॊपामर्षौ समुत्सृज्य संप्रतस्थे दिवं तदा ॥ 19 ॥

  20. तं परस्थितं महात्मानं समवेक्ष्य दिवौकसः तवरिताः सहिता राजन्न अनुजग्मुः शतक्रतुम ॥ 20 ॥

  21. देवराजं तदा यान्तं सह देवैर उदीक्ष्य तु वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ॥ 21 ॥

  22. देवराजे गते राजन परहृष्टौ कृष्ण पाण्डवौ निर्विशङ्कं पुनर दावं दाहयाम आसतुस तदा ॥ 22 ॥

  23. स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान वयधमच छरसंपातैः पराणिनः खाण्डवालयान ॥ 23 ॥

  24. न च सम किं चिच छक्नॊति भूतं निश्चरितं ततः संछिद्यमानम इषुभिर अस्यता सव्यसाचिना ॥ 24 ॥

  25. नाशकंस तत्र भूतानि महान्त्य अपि रणे ऽरजुनम निरीक्षितुम अमॊघेषुं करिष्यन्ति कुतॊ रणम ॥ 25 ॥

  26. शतेनैकं च विव्याध शतं चैकेन पत्त्रिणा वयसवस ते ऽपतन्न अग्नौ साक्षात कालहता इव ॥ 26 ॥

  27. न चालभन्त ते शर्म रॊधःसु विषमेषु च पितृदेव निवासेषु संतापश चाप्य अजायत ॥ 27 ॥

  28. भूतसंघ सहस्राश च दीनाश चक्रुर महास्वनम रुरुवुर वारणाश चैव तथैव मृगपक्षिणः तेन शब्देन वित्रेसुर गङ्गॊदधि चरा झषाः ॥ 28 ॥

  29. न हय अर्जुनं महाबाहुं नापि कृष्णं महाबलम निरीक्षितुं वै शक्नॊति कश चिद यॊद्धुं कुतः पुनः ॥ 29 ॥

  30. एकायनगता ये ऽपि निष्पतन्त्य अत्र के चन राक्षसान दानवान नागाञ जघ्ने चक्रेण तान हरिः ॥ 30 ॥

  31. ते विभिन्नशिरॊ देहाश चक्रवेगाद गतासवः पेतुर आस्ये महाकाया दीप्तस्य वसुरेतसः ॥ 31 ॥

  32. स मांसरुधिरौघैश च मेदौघैश च समीरितः उपर्य आकाशगॊ वह्निर विधूमः समदृश्यत ॥ 32 ॥

  33. दीप्ताक्षॊ दीप्तजिह्वश च दीप्तव्यात्त महाननः दीप्तॊर्ध्व केशः पिङ्गाक्षः पिबन पराणभृतां वसाम ॥ 33 ॥

  34. तां स कृष्णार्जुन कृतां सुधां पराप्य हुताशनः बभूव मुदितस तृप्तः परां निर्वृतिम आगतः ॥ 34 ॥

  35. अथासुरं मयं नाम तक्षकस्य निवेशनात विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ॥ 35 ॥

  36. तम अग्निः परार्थयाम आस दिधक्षुर वातसारथिः देहवान वै जटी भूत्वा नदंश च जलदॊ यथा जिघांसुर वासुदेवश च चक्रम उद्यम्य विष्ठितः ॥ 36 ॥

  37. सचक्रम उद्यतं दृष्ट्वा दिधक्षुं च हुताशनम अभिधावार्जुनेत्य एवं मयश चुक्रॊश भारत ॥ 37 ॥

  38. तस्य भीतस्वनं शरुत्वा मा भैर इति धनंजयः परत्युवाच मयं पार्थॊ जीवयन्न इव भारत ॥ 38 ॥

  39. तं पार्थेनाभये दत्ते नमुचेर भरातरं मयम न हन्तुम ऐच्छद दाशार्हः पावकॊ न ददाह च ॥ 39 ॥

  40. तस्मिन वने दह्यमाने षड अग्निर न ददाह च अश्वसेनं मयं चापि चतुरः शार्ङ्गकान इति ॥ 40 ॥

Reach this point to mark the section finished.

Continue to अध्याय 220

Previous: अध्याय 218