धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 218

  1. [वै] तस्याभिवर्षतॊ वारि पाण्डवः परत्यवारयत शरवर्षेण बीभत्सुर उत्तमास्त्राणि दर्शयन ॥ 1 ॥

  2. शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः छादयाम आस तद वर्षम अपकृष्य ततॊ वनात ॥ 2 ॥

  3. न च सम किं चिच छक्नॊति भूतं निश्चरितं ततः संछाद्यमाने खगमैर अस्यता सव्यसाचिना ॥ 3 ॥

  4. तक्षकस तु न तत्रासीत सर्पराजॊ महाबलः दह्यमाने वने तस्मिन कुरुक्षेत्रे ऽभवत तदा ॥ 4 ॥

  5. अश्वसेनस तु तत्रासीत तक्षकस्य सुतॊ बली स यत्नम अकरॊत तीव्रं मॊक्षार्थं हव्यवाहनात ॥ 5 ॥

  6. न शशाक विनिर्गन्तुं कौन्तेय शरपीडितः मॊक्षयाम आस तं माता निगीर्य भुजगात्मजा ॥ 6 ॥

  7. तस्य पूर्वं शिरॊ गरस्तं पुच्छम अस्य निगीर्यते ऊर्ध्वम आचक्रमे सा तु पन्नगी पुत्रगृद्धिनी ॥ 7 ॥

  8. तस्यास तीक्ष्णेन भल्लेन पृथु धारेण पाण्डवः शिरश चिच्छेद गच्छन्त्यास ताम अपश्यत सुरेश्वरः ॥ 8 ॥

  9. तं मुमॊचयिषुर वज्री वातवर्षेण पाण्डवम मॊहयाम आस तत कालम अश्वसेनस तवम उच्यते ॥ 9 ॥

  10. तां च मायां तदा दृष्ट्वा घॊरां नागेन वञ्चितः दविधा तरिधा च चिच्छेद खगतान एव भारत ॥ 10 ॥

  11. शशाप तं च संक्रुद्धॊ बीभत्सुर जिह्मगामिनम पावकॊ वासुदेवश च अप्रतिष्ठॊ भवेद इति ॥ 11 ॥

  12. ततॊ जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः यॊधयाम आस संक्रुद्धॊ वञ्चनां ताम अनुस्मरन ॥ 12 ॥

  13. देवराड अपि तं दृष्ट्वा संरब्धम इव फल्गुनम सवम अस्त्रम असृजद दीप्तं यत ततानाखिलं नभः ॥ 13 ॥

  14. ततॊ वायुर महाघॊषः कषॊभयन सर्वसागरान वियत्स्थॊ ऽजनयन मेघाञ जलधारा मुच आकुलान ॥ 14 ॥

  15. तद विघातार्थम असृजद अर्जुनॊ ऽपय अस्त्रम उत्तमम वायव्यम एवाभिमन्त्र्य परतिपत्तिविशारदः ॥ 15 ॥

  16. तेनेन्द्राशनि मेघानां वीर्यौजस तद्विनाशितम जलधाराश च ताः शेषं जग्मुर नेशुश च विद्युतः ॥ 16 ॥

  17. कषणेन चाभवद वयॊम संप्रशान्त रजस तमः सुखशीतानिल गुणं परकृतिस्थार्क मण्डलम ॥ 17 ॥

  18. निष्प्रतीकार हृष्टश च हुतभुग विविधाकृतिः परजज्वालातुलार्चिष्मान सवनादैः पूरयञ जगत ॥ 18 ॥

  19. कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावम अहं कृताः समुत्पेतुर अथाकाशं सुपर्णाद्याः पतत्रिणः ॥ 19 ॥

  20. गरुडा वज्रसदृशैः पक्षतुण्ड नखैस तथा परहर्तुकामाः संपेतुर आकाशात कृष्ण पाण्डवौ ॥ 20 ॥

  21. तथैवॊरग संघाताः पाण्डवस्य समीपतः उत्सृजन्तॊ विषं घॊरं निश्चेरुर जवलिताननाः ॥ 21 ॥

  22. तांश चकर्त शरैः पार्थः सरॊषान दृश्यखे चरान विवशाश चापतन दीप्तं देहाभावाय पावकम ॥ 22 ॥

  23. ततः सुराः सगन्धर्वा यक्षराक्षस पन्नगाः उत्पेतुर नादम अतुलम उत्सृजन्तॊ रणार्थिणः ॥ 23 ॥

  24. अयः कणप चक्राश्म भुशुण्ड्य उद्यतबाहवः कृष्ण पार्थौ जिघांसन्तः करॊधसंमूर्च्छितौजसः ॥ 24 ॥

  25. तेषाम अभिव्याहरतां शस्त्रवर्षणं च मुञ्चताम परममाथॊत्तमाङ्गानि बीभत्सुर निशितैः शरैः ॥ 25 ॥

  26. कृष्णश च सुमहातेजाश चक्रेणारि निहा तदा दैत्यदानव संघानां चकार कदनं महत ॥ 26 ॥

  27. अथापरे शरैर विद्धाश चक्रवेगेरितास तदा वेलाम इव समासाद्य वयातिष्ठन्त महौजसः ॥ 27 ॥

  28. ततः शक्रॊ ऽभिसंक्रुद्धस तरिदशानां महेश्वरः पाण्डुरं गजम आस्थाय ताव उभौ समभिद्रवत ॥ 28 ॥

  29. अशनिं गृह्य तरसा वज्रम अस्त्रम अवासृजत हताव एताव इति पराह सुरान असुरसूदनः ॥ 29 ॥

  30. ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम जगृहुः सर्वशस्त्राणि सवानि सवानि सुरास तदा ॥ 30 ॥

  31. कालदण्डं यमॊ राजा शिबिकां च धनेश्वरः पाशं च वरुणस तत्र विचक्रं च तथा शिवः ॥ 31 ॥

  32. ओषधीर दीप्यमानाश च जगृहाते ऽशविनाव अपि जगृहे च धनुर धाता मुसलं च जयस तथा ॥ 32 ॥

  33. पर्वतं चापि जग्राह करुद्धस तवष्टा महाबलः अंशस तु शक्तिं जग्राह मृत्युर देवः परश्वधम ॥ 33 ॥

  34. परगृह्य परिघं घॊरं विचचारार्यमा अपि मित्रश च कषुर पर्यन्तं चक्रं गृह्य वयतिष्ठत ॥ 34 ॥

  35. पूषा भगश च संक्रुद्धः सविता च विशां पते आत्तकार्मुकनिस्त्रिंशाः कृष्ण पार्थाव अभिद्रुताः ॥ 35 ॥

  36. रुद्राश च वसवश चैव मरुतश च महाबलाः विश्वे देवास तथा साध्या दीप्यमानाः सवतेजसा ॥ 36 ॥

  37. एते चान्ये च बहवॊ देवास तौ पुरुषॊत्तमौ कृष्ण पार्थौ जिघांसन्तः परतीयुर विविधायुधाः ॥ 37 ॥

  38. तत्राद्भुतान्य अदृश्यन्त निमित्तानि महाहवे युगान्तसमरूपाणि भूतॊत्सादाय भारत ॥ 38 ॥

  39. तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ॥ 39 ॥

  40. आगतांश चैव तान दृष्ट्वा देवान एकैकशस ततः नयवारयेतां संक्रुद्धौ बाणैर वर्जॊपमैस तदा ॥ 40 ॥

  41. असकृद भग्नसंकल्पाः सुराश च बहुशः कृताः भयाद रणं परित्यज्य शक्रम एवाभिशिश्रियुः ॥ 41 ॥

  42. दृष्ट्वा निवारितान देवान माधवेनार्जुनेन च आश्चर्यम अगमस तत्र मुनयॊ दिवि विष्ठिताः ॥ 42 ॥

  43. शक्रश चापि तयॊर वीर्यम उपलभ्यासकृद रणे बभूव परमप्रीतॊ भूयश चैताव अयॊधयत ॥ 43 ॥

  44. ततॊ ऽशमवर्षं सुमहद वयसृजत पाकशासनः भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः तच छरैर अर्जुनॊ वर्षं परतिजघ्ने ऽतयमर्षणः ॥ 44 ॥

  45. विफलं करियमाणं तत संप्रेक्ष्य च शतक्रतुः भूयः संवर्धयाम आस तद वर्षं देवराड अथ ॥ 45 ॥

  46. सॊ ऽशमवर्षं महावेगैर इषुभिः पाकशासनिः विलयं गमयाम आस हर्षयन पितरं तदा ॥ 46 ॥

  47. समुत्पाट्य तु पाणिभ्यां मन्दराच छिखरं महत सद्रुमं वयसृजच छक्रॊ जिघांसुः पाण्डुनन्दनम ॥ 47 ॥

  48. ततॊ ऽरजुनॊ वेगवद्भिर जवलिताग्रैर अजिह्मगैः बाणैर विध्वंसयाम आस गिरेः शृङ्गं सहस्रधा ॥ 48 ॥

  49. गिरेर विशीर्यमाणस्य तस्य रूपं तदा बभौ सार्कचन्द्र गरहस्येव नभसः परविशीर्यतः ॥ 49 ॥

  50. तेनावाक पतता दावे शैलेन महता भृशम भूय एव हतास तत्र पराणिनः खाण्डवालयाः ॥ 50 ॥

Reach this point to mark the section finished.

Continue to अध्याय 219

Previous: अध्याय 217