धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 217

  1. [वै] तौ रथाभ्यां नरव्याघ्रौ दावस्यॊभयतः सथितौ दिक्षु सर्वासु भूतानां चक्राते कदनं महत ॥ 1 ॥

  2. यत्र यत्र हि दृश्यन्ते पराणिनः खाण्डवालयाः पलायन्तस तत्र तत्र तौ वीरौ पर्यधावताम ॥ 2 ॥

  3. छिद्रं हि न परपश्यन्ति रथयॊर आशु विक्रमात आविद्धाव इव दृश्येते रथिनौ तौ रथॊत्तमौ ॥ 3 ॥

  4. खाण्डवे दह्यमाने तु भूतान्य अथ सहस्रशः उत्पेतुर भैरवान नादान विनदन्तॊ दिशॊ दश ॥ 4 ॥

  5. दग्धैक देशा बहवॊ निष्टप्ताश च तथापरे सफुटिताक्षा विशीर्णाश च विप्लुताश च विचेतसः ॥ 5 ॥

  6. समालिङ्ग्य सुतान अन्ये पितॄन मातॄंस तथापरे तयक्तुं न शेकुः सनेहेन तथैव निधनं गताः ॥ 6 ॥

  7. विकृतैर दर्शनैर अन्ये समुपेतुः सहस्रशः तत्र तत्र विघूर्णन्तः पुनर अग्नौ परपेदिरे ॥ 7 ॥

  8. दग्धपक्षाक्षि चरणा विचेष्टन्तॊ महीतले तत्र तत्र सम दृश्यन्ते विनश्यन्तः शरीरिणः ॥ 8 ॥

  9. जलस्थानेषु सर्वेषु कवाथ्यमानेषु भारत गतसत्त्वाः सम दृश्यन्ते कूर्ममत्स्याः सहस्रशः ॥ 9 ॥

  10. शरीरैः संप्रदीप्तैश च देहवन्त इवाग्नयः अदृश्यन्त वने तस्मिन पराणिनः पराणसंक्षये ॥ 10 ॥

  11. तांस तथॊत्पततः पार्थः शरैः संछिद्य खण्डशः दीप्यमाने ततः परास्यत परहसन कृष्णवर्त्मनि ॥ 11 ॥

  12. ते शराचित सर्वाङ्गा विनदन्तॊ महारवान ऊर्ध्वम उत्पत्य वेगेन निपेतुः पावके पुनः ॥ 12 ॥

  13. शरैर अभ्याहतानां च दह्यतां च वनौकसाम विरावः शरूयते ह सम समुद्रस्येव मथ्यतः ॥ 13 ॥

  14. वह्नेश चापि परहृष्टस्य खम उत्पेतुर महार्चिषः जनयाम आसुर उद्वेगं सुमहान्तं दिवौकसाम ॥ 14 ॥

  15. ततॊ जग्मुर महात्मानः सर्व एव दिवौकसः शरणं देवराजानं सहस्राक्षं पुरंदरम ॥ 15 ॥

  16. [देवाह] किं नव इमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना कच चिन न संक्षयः पराप्तॊ लॊकानाम अमरेश्वर ॥ 16 ॥

  17. [वै] तच छरुत्वा वृत्रहा तेभ्यः सवयम एवान्ववेक्ष्य च खाण्डवस्य विमॊक्षार्थं परययौ हरिवाहनः ॥ 17 ॥

  18. महता मेघजालेन नानारूपेण वज्रभृत आकाशं समवस्तीर्य परववर्ष सुरेश्वरः ॥ 18 ॥

  19. ततॊ ऽकषमात्रा विसृजन धाराः शतसहस्रशः अभ्यवर्षत सहस्राक्षः पावकं खाण्डवं परति ॥ 19 ॥

  20. असंप्राप्तास तु ता धारास तेजसा जातवेदसः ख एव समशुष्यन्त न काश चित पावकं गताः ॥ 20 ॥

  21. ततॊ नमुचिहा करुद्धॊ भृशम अर्चिष्मतस तदा पुनर एवाभ्यवर्षत तम अम्भः परविसृजन बहु ॥ 21 ॥

  22. अर्चिर धाराभिसंबद्धं धूमविद्युत समाकुलम बभूव तद वनं घॊरं सतनयित्नुसघॊषवत ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 218

Previous: अध्याय 216