धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 216

  1. [वै] एवम उक्तस तु भगवान धूमकेतुर हुताशनः चिन्तयाम आस वरुणं लॊकपालं दिदृक्षया आदित्यम उदके देवं निवसन्तं जलेश्वरम ॥ 1 ॥

  2. स च तच चिन्तितं जञात्वा दर्शयाम आस पावकम तम अब्रवीद धूमकेतुः परतिपूज्य जलेश्वरम चतुर्थं लॊकपालानां रक्षितारं महेश्वरम ॥ 2 ॥

  3. सॊमेन राज्ञा यद दत्तं धनुश चैवेषुधी च ते तत परयच्छॊभयं शीघ्रं रथं च कपिलक्षणम ॥ 3 ॥

  4. कार्यं हि सुमहत पार्थॊ गाण्डीवेन करिष्यति चक्रेण वासुदेवश च तन मदर्थे परदीयताम ददानीत्य एव वरुणः पावकं परत्यभाषत ॥ 4 ॥

  5. ततॊ ऽदभुतं महावीर्यं यशः कीर्तिविवर्धनम सर्वशस्त्रैर अनाधृष्यं सर्वशस्त्रप्रमाथि च सर्वायुधमहामात्रं परसेना परधर्षणम ॥ 5 ॥

  6. एकं शतसहस्रेण संमितं राष्ट्रवर्धनम चित्रम उच्चावचैर वर्णैः शॊभितं शलक्ष्णम अव्रणम ॥ 6 ॥

  7. देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः परादाद वै धनु रत्नं तद अक्षय्यौ च महेषुधी ॥ 7 ॥

  8. रथं च दिव्याश्वयुजं कपिप्रवर केतनम उपेतं राजतैर अश्वैर गान्धर्वैर हेममालिभिः पाण्डुराभ्रप्रतीकाशैर मनॊ वायुसमैर जवे ॥ 8 ॥

  9. सर्वॊपकरणैर युक्तम अजय्यं देवदानवैः भानुमन्तं महाघॊषं सर्वभूतमनॊहरम ॥ 9 ॥

  10. ससर्ज यत सवतपसा भौवनॊ भुवन परभुः परजापतिर अनिर्देश्यं यस्य रूपं रवेर इव ॥ 10 ॥

  11. यं सम सॊमः समारुह्य दानवान अजयत परभुः नगमेघप्रतीकाशं जवलन्तम इव च शरिया ॥ 11 ॥

  12. आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा तापनीया सुरुचिरा धवजयष्टिर अनुत्तमा ॥ 12 ॥

  13. तस्यां तु वानरॊ दिव्यः सिंहशार्दूललक्षणः विनर्दन्न इव तत्रस्थः संस्थितॊ मूर्ध्न्य अशॊभत ॥ 13 ॥

  14. धवजे भूतानि तत्रासन विविधानि महान्ति च नादेन रिपुसैन्यानां येषां संज्ञा परणश्यति ॥ 14 ॥

  15. स तं नानापताकाभिः शॊभितं रथम उत्तमम परदक्षिणम उपावृत्य दैवतेभ्यः परणम्य च ॥ 15 ॥

  16. संनद्धः कवची खड्गी बद्धगॊधाङ्गुलि तरवान आरुरॊह रथं पार्थॊ विमानं सुकृती यथा ॥ 16 ॥

  17. तच च दिव्यं धनुःश्रेष्ठं बरह्मणा निर्मितं पुरा गाण्डीवम उपसंगृह्य बभूव मुदितॊ ऽरजुनः ॥ 17 ॥

  18. हुताशनं नमस्कृत्य ततस तद अपि वीर्यवान जग्राह बलम आस्थाय जयया च युयुजे धनुः ॥ 18 ॥

  19. मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह ये ऽशृण्वन कूजितं तत्र तेषां वै वयथितं मनः ॥ 19 ॥

  20. लब्ध्वा रथं धनुश चैव तथाक्षय्यौ महेषुधी बभूव कल्यः कौन्तेयः परहृष्टः साह्यकर्मणि ॥ 20 ॥

  21. वज्रनाभं ततश चक्रं ददौ कृष्णाय पावकः आग्नेयम अस्त्रं दयितं स च कल्यॊ ऽभवत तदा ॥ 21 ॥

  22. अब्रवीत पावकैश चैनम एतेन मधुसूदन अमानुषान अपि रणे विजेष्यसि न संशयः ॥ 22 ॥

  23. अनेन तवं मनुष्याणां देवानाम अपि चाहवे रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा भविष्यसि न संदेहः परवरारि निबर्हणे ॥ 23 ॥

  24. कषिप्तं कषिप्तं रणे चैतत तवया माधव शत्रुषु हत्वाप्रतिहतं संख्ये पाणिम एष्यति ते पुनः ॥ 24 ॥

  25. वरुणश च ददौ तस्मै गदाम अशनिनिःस्वनाम दैत्यान्त करणीं घॊरां नाम्ना कौमॊदकीं हरेः ॥ 25 ॥

  26. ततः पावकम अब्रूतां परहृष्टौ कृष्ण पाण्डवौ कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ धवजिनाव अपि ॥ 26 ॥

  27. कल्यौ सवॊ भगवन यॊद्धुम अपि सर्वैः सुरासुरैः किं पुनर वज्रिणैकेन पन्नगार्थे युयुत्सुना ॥ 27 ॥

  28. [आर्ज] चक्रम अस्त्रं च वार्ष्णेयॊ विसृजन युधि वीर्यवान तरिषु लॊकेषु तन नास्ति यन न जीयाज जनार्दनः ॥ 28 ॥

  29. गाण्डीवं धनुर आदाय तथाक्षय्यौ महेषुधी अहम अप्य उत्सहे लॊकान विजेतुं युधि पावक ॥ 29 ॥

  30. सर्वतः परिवार्यैनं दावेन महता परभॊ कामं संप्रज्वलाद्यैव कल्यौ सवः साह्यकर्मणि ॥ 30 ॥

  31. [वै] एवम उक्तः स भगवान दाशार्हेणार्जुनेन च तैजसं रूपम आस्थाय दावं दग्धुं परचक्रमे ॥ 31 ॥

  32. सर्वतः परिवार्याथ सप्तार्चिर जवलनस तदा ददाह खाण्डवं करुद्धॊ युगान्तम इव दर्शयन ॥ 32 ॥

  33. परिगृह्य समाविष्टस तद वनं भरतर्षभ मेघस्तनित निर्घॊषं सर्वभूतानि निर्दहन ॥ 33 ॥

  34. दह्यतस तस्य विबभौ रूपं दावस्य भारत मेरॊर इव नगेन्द्रस्य काञ्चनस्य महाद्युतेः ॥ 34 ॥

Reach this point to mark the section finished.

Continue to अध्याय 217

Previous: अध्याय 215