धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 215

  1. [वै] सॊ ऽबरवीद अर्जुनं चैव वासुदेवं च सात्वतम लॊकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः ॥ 1 ॥

  2. बराह्मणॊ बहु भॊक्तास्मि भुञ्जे ऽपरिमितं सदा भिक्षे वार्ष्णेय पार्थौ वाम एकां तृप्तिं परयच्छताम ॥ 2 ॥

  3. एवम उक्तौ तम अब्रूतां ततस तौ कृष्ण पाण्डवौ केनान्नेन भवांस तृप्येत तस्यान्नस्य यतावहे ॥ 3 ॥

  4. एवम उक्तः स भगवान अब्रवीत ताव उभौ ततः भाषमाणौ तदा वीरौ किम अन्नं करियताम इति ॥ 4 ॥

  5. नाहम अन्नं बुभुक्षे वै पावकं मां निबॊधतम यदन्नम अनुरूपं मे तद युवां संप्रयच्छतम ॥ 5 ॥

  6. इदम इन्द्रः सदा दावं खाण्डवं परिरक्षति तं न शक्नॊम्य अहं दग्धुं रक्ष्यमाणं महात्मना ॥ 6 ॥

  7. वसत्य अत्र सखा तस्य तक्षकः पन्नगः सदा सगणस तत कृते दावं परिरक्षति वज्रभृत ॥ 7 ॥

  8. तत्र भूतान्य अनेकानि रक्ष्यन्ते सम परसङ्गतः तं दिधक्षुर न शक्नॊमि दग्धुं शक्रस्य तेजसा ॥ 8 ॥

  9. स मां परज्वलितं दृष्ट्वा मेघाम्भॊभिः परवर्षति ततॊ दग्धुं न शक्नॊमि दिधक्षुर दावम ईप्सितम ॥ 9 ॥

  10. स युवाभ्यां सहायाभ्याम अस्त्रविद्भ्यां समागतः दहेयं खाण्डवं दावम एतद अन्नं वृतं मया ॥ 10 ॥

  11. युवां हय उदकधारास ता भूतानि च समन्ततः उत्तमास्त्रविदॊ सम्यक सर्वतॊ वारयिष्यथः ॥ 11 ॥

  12. एवम उक्ते परत्युवाच बीभत्सुर जातवेददम दिधक्षुं खाण्डवं दावम अकामस्य शतक्रतॊः ॥ 12 ॥

  13. उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च यैर अहं शक्नुयां यॊद्धुम अपि वज्रधरान बहून ॥ 13 ॥

  14. धनुर मे नास्ति भगवन बाहुवीर्येण संमितम कुर्वतः समरे यत्नं वेगं यद विषहेत मे ॥ 14 ॥

  15. शरैश च मे ऽरथॊ बहुभिर अक्षयैः कषिप्रम अस्यतः न हि वॊढुं रथः शक्तः शरान मम यथेप्सितान ॥ 15 ॥

  16. अश्वांश च दिव्यान इच्छेयं पाण्डुरान वातरंहसः रथं च मेघनिर्घॊषं सूर्यप्रतिम तेजसम ॥ 16 ॥

  17. तथा कृष्णस्य वीर्येण नायुधं विद्यते समम येन नागान पिशामांश च निहन्यान माधवॊ रणे ॥ 17 ॥

  18. उपायं कर्मणः सिद्धौ भगवन वक्तुम अर्हसि निवारयेयं येनेन्द्रं वर्षमाणं महावने ॥ 18 ॥

  19. पौरुषेण तु यत कार्यं तत कर्तारौ सवपावक करणानि समर्थानि भगवन दातुम अर्हसि ॥ 19 ॥

Reach this point to mark the section finished.

Continue to अध्याय 216

Previous: अध्याय 214