धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 214

  1. [वै] इन्द्रप्रस्थे वसन्तस ते जघ्नुर अन्यान नराधिपान शासनाद धृतराष्ट्रस्य राज्ञः शांतनवस्य च ॥ 1 ॥

  2. आश्रित्य धर्मराजानं सर्वलॊकॊ ऽवसत सुखम पुण्यलक्षणकर्माणं सवदेहम इव देहिनः ॥ 2 ॥

  3. स समं धर्मकामार्थान सिषेवे भरतर्षभः तरीन इवात्मसमान बन्धून बन्धुमान इव मानयन ॥ 3 ॥

  4. तेषां समभिभक्तानां कषितौ देहवताम इव बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥ 4 ॥

  5. अध्येतारं परं वेदाः परयॊक्तारं महाध्वराः रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम ॥ 5 ॥

  6. अधिष्ठानवती लक्ष्मीः परायणवती मतिः बन्धुमान अखिलॊ धर्मस तेनासीत पृथिवीक्षिता ॥ 6 ॥

  7. भरातृभिः सहितॊ राजा चतुर्भिर अधिकं बभौ परयुज्यमानैर विततॊ वेदैर इव महाध्वरः ॥ 7 ॥

  8. तं तु धौम्यादयॊ विप्राः परिवार्यॊपतस्थिरे बृहस्पतिसमा मुख्याः परजापतिम इवामराः ॥ 8 ॥

  9. धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले परजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ॥ 9 ॥

  10. न तु केवलदैवेन परजा भावेन रेमिरे यद बभूव मनःकान्तं कर्मणा स चकार तत ॥ 10 ॥

  11. न हय अयुक्तं न चासत्यं नानृतं न च विप्रियम भाषितं चारु भाषस्य जज्ञे पार्थस्य धीमतः ॥ 11 ॥

  12. स हि सर्वस्य लॊकस्य हितम आत्मन एव च चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः ॥ 12 ॥

  13. तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः अवसन पृथिवीपालांस तरासयन्तः सवतेजसा ॥ 13 ॥

  14. ततः कतिपयाहस्य बीभत्सुः कृष्णम अब्रवीत उष्णानि कृष्ण वर्तन्ते गच्छामॊ यमुनां परति ॥ 14 ॥

  15. सुहृज्जनवृतास तत्र विहृत्य मधुसूदन सायाह्ने पुनर एष्यामॊ रॊचतां ते जनार्दन ॥ 15 ॥

  16. [वासु] कुन्ती मातर ममाप्य एतद रॊचते यद वयं जले सुहृज्जनवृताः पार्थ विहरेम यथासुखम ॥ 16 ॥

  17. [वै] आमन्त्र्य धर्मराजानम अनुज्ञाप्य च भारत जग्मतुः पार्थ गॊविन्दौ सुहृज्जनवृतौ ततः ॥ 17 ॥

  18. विहारदेशं संप्राप्य नानाद्रुमवद उत्तमम गृहैर उच्चावचैर युक्तं पुरंदर गृहॊपमम ॥ 18 ॥

  19. भक्ष्यैर भॊज्यैश च पेयैश च रसवद्भिर महाधनैः माल्यैश च विविधैर युक्तं युक्तं वार्ष्णेय पार्थयॊः ॥ 19 ॥

  20. आविवेशतुर आपूर्णं रत्नैर उच्चावचैः शुभैः यथॊपजॊषं सर्वश च जनश चिक्रीड भारत ॥ 20 ॥

  21. वने काश चिज जले काश चित काश चिद वेश्मसु चाङ्गनाः यथा देशं यथा परीतिचिक्रीडुः कृष्ण पार्थयॊः ॥ 21 ॥

  22. दरौपदी च सुभद्रा च वासांस्य आभरणानि च परयच्छेतां महार्हाणि सत्रीणां ते सम मदॊत्कटे ॥ 22 ॥

  23. काश चित परहृष्टा ननृतुश चुक्रुशुश च तथापराः जहसुश चापरा नार्यः पपुश चान्या वरासवम ॥ 23 ॥

  24. रुरुदुश चापरास तत्र परजघ्नुश च परस्परम मन्त्रयाम आसुर अन्याश च रहस्यानि परस्परम ॥ 24 ॥

  25. वेणुवीणा मृदङ्गानां मनॊज्ञानां च सर्वशः शब्देनापूर्यते ह सम तद वनं सुसमृद्धिमत ॥ 25 ॥

  26. तस्मिंस तथा वर्तमाने कुरु दाशार्हनन्दनौ समीपे जग्मतुः कं चिद उद्देशं सुमनॊहरम ॥ 26 ॥

  27. तत्र गत्वा महात्मानौ कृष्णौ परपुरंजयौ महार्हासनयॊ राजंस ततस तौ संनिषीदतुः ॥ 27 ॥

  28. तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च बहूनि कथयित्वा तौ रेमाते पार्थ माधवौ ॥ 28 ॥

  29. तत्रॊपविष्टौ मुदितौ नाकपृष्ठे ऽशविनाव इव अभ्यगच्छत तदा विप्रॊ वासुदेवधनंजयौ ॥ 29 ॥

  30. बृहच छाल परतीकाशः परतप्तकनकप्रभः हरि पिङ्गॊ हरि शमश्रुः परमाणायामतः समः ॥ 30 ॥

  31. तरुणादित्यसंकाशः कृष्ण वासा जटाधरः पद्मपत्राननः पिङ्गस तेजसा परज्वलन्न इव ॥ 31 ॥

  32. उपसृष्टं तु तं कृष्णौ भराजमानं दविजॊत्तमम अर्जुनॊ वासुदेवश च तूर्णम उत्पत्य तस्थतुः ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 215

Previous: अध्याय 213