धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 213

  1. [वै] उक्तवन्तॊ यदा वाक्यम असकृत सर्ववृष्णयः ततॊ ऽबरवीद वासुदेवॊ वाक्यं धर्मार्थसंहितम ॥ 1 ॥

  2. नावमानं कुलस्यास्य गुडा केशः परयुक्तवान संमानॊ ऽभयधिकस तेन परयुक्तॊ ऽयम असंशयम ॥ 2 ॥

  3. अर्थलुब्धान न वः पार्थॊ मन्यते सात्वतान सदा सवयंवरम अनाधृष्यं मन्यते चापि पाण्डवः ॥ 3 ॥

  4. परदानम अपि कन्यायाः पशुवत कॊ ऽनुमंस्यते विक्रमं चाप्य अपत्यस्य कः कुर्यात पुरुषॊ भुवि ॥ 4 ॥

  5. एतान दॊषांश च कौन्तेयॊ दृष्टवान इति मे मतिः अतः परसह्य हृतवान कन्यां धर्मेण पाण्डवः ॥ 5 ॥

  6. उचितश चैव संबन्धः सुभद्रा च यशस्विनी एष चापीदृशः पार्थः परसह्य हृतवान इति ॥ 6 ॥

  7. भरतस्यान्वये जातं शंतनॊश च महात्मनः कुन्तिभॊजात्मजा पुत्रं कॊ बुभूषेत नार्जुनम ॥ 7 ॥

  8. न च पश्यामि यः पार्थं विक्रमेण पराजयेत अपि सर्वेषु लॊकेषु सैन्द्र रुद्रेषु मारिष ॥ 8 ॥

  9. स च नाम रथस तादृङ मदीयास ते च वाजिनः यॊद्धा पार्थश च शीघ्रास्त्राः कॊ नु तेन समॊ भवेत ॥ 9 ॥

  10. तम अनुद्रुत्य सान्त्वेन परमेण धनंजयम निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ॥ 10 ॥

  11. यदि निर्जित्य वः पार्थॊ बलाद गच्छेत सवकं पुरम परणश्येद वॊ यशः सद्यॊ न तु सान्त्वे पराजयः ॥ 11 ॥

  12. तच छरुत्वा वासुदेवस्य तथा चक्रुर जनाधिप निवृत्तश चार्जुनस तत्र विवाहं कृतवांस ततः ॥ 12 ॥

  13. उषित्वा तत्र कौन्तेयः संवत्सरपराः कषपाः पुष्करेषु ततः शिष्टं कालं वर्तितवान परभुः पूर्णे तु दवादशे वर्षे खाण्डव परस्थम आविशत ॥ 13 ॥

  14. अभिगम्य स राजानं विनयेन समाहितः अभ्यर्च्य बराह्मणान पार्थॊ दरौपदीम अभिजग्मिवान ॥ 14 ॥

  15. तं दरौपदी परत्युवाच परणयात कुरुनन्दनम तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा सुबद्धस्यापि भारस्य पूर्वबन्धः शलथायते ॥ 15 ॥

  16. तथा बहुविधं कृष्णां विलपन्तीं धनंजयः सान्त्वयाम आस भूयश च कषमयाम आस चासकृत ॥ 16 ॥

  17. सुभद्रां तवरमाणश च रक्तकौशेय वाससम पार्थः परस्थापयाम आस कृत्वा गॊपालिका वपुः ॥ 17 ॥

  18. साधिकं तेन रूपेण शॊभमाना यशस्विनी भवनं शरेष्ठम आसाद्य वीर पत्नी वराङ्गना ववन्दे पृथु ताम्राक्षी पृथां भद्रा यशस्विनी ॥ 18 ॥

  19. ततॊ ऽभिगम्य तवरिता पूर्णेन्दुसदृशानना ववन्दे दरौपदीं भद्रा परेष्याहम इति चाब्रवीत ॥ 19 ॥

  20. परत्युत्थाय च तां कृष्णा सवसारं माधवस्य ताम सस्वजे चावदत परीता निःसपत्नॊ ऽसतु ते पतिः तथैव मुदिता भद्रा ताम उवाचैवम अस्त्व इति ॥ 20 ॥

  21. ततस ते हृष्टमनसः पाण्डवेया महारथाः कुन्ती च परमप्रीता बभूव जनमेजय ॥ 21 ॥

  22. शरुत्वा तु पुण्डरीकाक्षः संप्राप्तं सवपुरॊत्तमम अर्जुनं पाण्डवश्रेष्ठम इन्द्रप्रस्थगतं तदा ॥ 22 ॥

  23. आजगाम विशुद्धात्मा सह रामेण केशवः वृष्ण्यन्धकमहामात्रैः सह वीरैर महारथैः ॥ 23 ॥

  24. भरातृभिश च कुमारैश च यॊधैश च शतशॊ वृतः सैन्येन महता शौरिर अभिगुप्तः परंतपः ॥ 24 ॥

  25. तत्र दानपतिर धीमान आजगाम महायशाः अक्रूरॊ वृष्णिवीराणां सेनापतिर अरिंदमः ॥ 25 ॥

  26. अनाधृष्टिर महातेजा उद्धवश च महायशाः साक्षाद बृहस्पतेः शिष्यॊ महाबुद्धिर महायशाः ॥ 26 ॥

  27. सत्यकः सात्यकिश चैव कृतवर्मा च सात्वतः परद्युम्नश चैव साम्बश च निशठः शङ्कुर एव च ॥ 27 ॥

  28. चारुदेष्णश च विक्रान्तॊ झिल्ली विपृथुर एव च सारणश च महाबाहुर गदश च विदुषां वरः ॥ 28 ॥

  29. एते चान्ये च बहवॊ वृष्णिभॊजान्धकास तथा आजग्मुः खाण्डव परस्थम आदाय हरणं बहु ॥ 29 ॥

  30. ततॊ युधिष्ठिरॊ राजा शरुत्वा माधवम आगतम परतिग्रहार्थं कृष्णस्य यमौ परास्थापयत तदा ॥ 30 ॥

  31. ताभ्यां परतिगृहीतं तद वृष्णिचक्रं समृद्धिमत विवेश खाण्डव परस्थं पताकाध्वजशॊभितम ॥ 31 ॥

  32. सिक्तसंमृष्टपन्थानं पुष्पप्रकर शॊभितम चन्दनस्य रसैः शीतैः पुण्यगन्धैर निषेवितम ॥ 32 ॥

  33. दह्यतागुरुणा चैव देशे देशे सुगन्धिना सुसंमृष्ट जनाकीर्णं वणिग्भिर उपशॊभितम ॥ 33 ॥

  34. परतिपेदे महाबाहुः सह रामेण केशवः वृष्ण्यन्धकमहाभॊजैः संवृतः पुरुषॊत्तमः ॥ 34 ॥

  35. संपूज्यमानः पौरैश च बराह्मणैश च सहस्रशः विवेश भवनं राज्ञः पुरंदर गृहॊपमम ॥ 35 ॥

  36. युधिष्ठिरस तु रामेण समागच्छद यथाविधि मूर्ध्नि केशवम आघ्राय पर्यष्वजत बाहुना ॥ 36 ॥

  37. तं परीयमाणं कृष्णस तु विनयेनाभ्यपूजयत भीमं च पुरुषव्याघ्रं विधिवत परत्यपूजयत ॥ 37 ॥

  38. तांश च वृष्ण्यन्धकश्रेष्ठान धर्मराजॊ युधिष्ठिरः परतिजग्राह सत्कारैर यथाविधि यथॊपगम ॥ 38 ॥

  39. गुरुवत पूजयाम आस कांश चित कांश चिद वयस्यवत कांश चिद अभ्यवदत परेम्णा कैश चिद अप्य अभिवादितः ॥ 39 ॥

  40. ततॊ ददौ वासुदेवॊ जन्यार्थे धनम उत्तमम हरणं वै सुभद्राया जञातिदेयं महायशाः ॥ 40 ॥

  41. रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम चतुर्युजाम उपेतानां सूतैः कुशलसंमतैः सहस्रं परददौ कृष्णॊ गवाम अयुतम एव च ॥ 41 ॥

  42. शरीमान माथुरदेश्यानां दॊग्ध्रीणां पुण्यवर्चसाम वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम ददौ जनार्दनः परीत्या सहस्रं हेमभूषणम ॥ 42 ॥

  43. तथैवाश्वतरीणां च दान्तानां वातरंहसाम शतान्य अञ्जन केशीनां शवेतानां पञ्च पञ्च च ॥ 43 ॥

  44. सनपनॊत्सादने चैव सुयुक्तं वयसान्वितम सत्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम ॥ 44 ॥

  45. सुवर्णशतकण्ठीनाम अरॊगाणां सुवाससाम परिचर्यासु दक्षाणां परददौ पुष्करेक्षणः ॥ 45 ॥

  46. कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः मनुष्यभारान दाशार्हॊ ददौ दश जनार्दनः ॥ 46 ॥

  47. गजानां तु परभिन्नानां तरिधा परस्रवतां मदम गिरिकूट निकाशानां समरेष्व अनिवर्तिनाम ॥ 47 ॥

  48. कॢप्तानां पटु घण्टानां वराणां हेममालिनाम हस्त्यारॊहैर उपेतानां सहस्रं साहस परियः ॥ 48 ॥

  49. रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली परीयमाणॊ हलधरः संबन्ध परीतिम आवहन ॥ 49 ॥

  50. स महाधनरत्नौघॊ वस्त्रकम्बल फेनवान महागजमहाग्राहः पताका शैवलाकुलः ॥ 50 ॥

  51. पाण्डुसागरम आविद्धः परविवेश महानदः पूर्णम आपूरयंस तेषां दविषच छॊकावहॊ ऽभवत ॥ 51 ॥

  52. परतिजग्राह तत सर्वं धर्मराजॊ युधिष्ठिरः पूजयाम आस तांश चैव वृष्ण्यन्धकमहारथान ॥ 52 ॥

  53. ते समेता महात्मानः कुरु वृष्ण्यन्धकॊत्तमाः विजह्रुर अमरावासे नराः सुकृतिनॊ यथा ॥ 53 ॥

  54. तत्र तत्र महापानैर उत्कृष्टतलनादितैः यथायॊगं यथा परीतिविजह्रुः कुरु वृष्णयः ॥ 54 ॥

  55. एवम उत्तमवीर्यास ते विहृत्य दिवसान बहून पूजिताः कुरुभिर जग्मुः पुनर दवारवतीं पुरीम ॥ 55 ॥

  56. रामं पुरस्कृत्य ययुर वृष्ण्यन्धकमहारथाः रत्नान्य आदाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥ 56 ॥

  57. वासुदेवस तु पार्थेन तत्रैव सह भारत उवास नगरे रम्ये शक्र परस्थे महामनाः वयचरद यमुना कूले पार्थेन सह भारत ॥ 57 ॥

  58. ततः सुभद्रा सौभद्रं केशवस्य परिया सवसा जयन्तम इव पौलॊमी दयुतिमन्तम अजीजनत ॥ 58 ॥

  59. दीर्घबाहुं महासत्त्वम ऋषभाक्षम अरिंदमम सुभद्रा सुषुवे वीरम अभिमन्युं नरर्षभम ॥ 59 ॥

  60. अभीश च मन्युमांश चैव ततस तम अरिमर्दनम अभिमन्युम इति पराहुर आर्जुनिं पुरुषर्षभम ॥ 60 ॥

  61. स सात्वत्याम अतिरथः संबभूव धनंजयात मखे निर्मथ्यमानाद वा शमी गर्भाद धुताशनः ॥ 61 ॥

  62. यस्मिञ जाते महाबाहुः कुन्तीपुत्रॊ युधिष्ठिरः अयुतं गा दविजातिभ्यः परादान निष्कांश च तावतः ॥ 62 ॥

  63. दयितॊ वासुदेवस्य बाल्यात परभृति चाभवत पितॄणां चैव सर्वेषां परजानाम इव चन्द्रमाः ॥ 63 ॥

  64. जन्मप्रभृति कृष्णश च चक्रे तस्य करियाः शुभाः स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥ 64 ॥

  65. चतुष्पादं दशविधं धनुर्वेदम अरिंदमः अर्जुनाद वेद वेदज्ञात सकलं दिव्यमानुषम ॥ 65 ॥

  66. विज्ञानेष्व अपि चास्त्राणां सौष्ठवे च महाबलः करियास्व अपि च सर्वासु विशेषान अभ्यशिक्षयत ॥ 66 ॥

  67. आगमे च परयॊगे च चक्रे तुल्यम इवात्मनः तुतॊष पुत्रं सौभद्रं परेक्षमाणॊ धनंजयः ॥ 67 ॥

  68. सर्वसंहननॊपेतं सर्वलक्षणलक्षितम दुर्धर्षम ऋषभस्कन्धं वयात्ताननम इवॊरगम ॥ 68 ॥

  69. सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम मेघदुन्दुभि निर्घॊषं पूर्णचन्द्रनिभाननम ॥ 69 ॥

  70. कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ ददर्श पुत्रं बीभत्सुर मघवान इव तं यथा ॥ 70 ॥

  71. पाञ्चाल्य अपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा लेभे पञ्च सुतान वीराञ शुभान पञ्चाचलान इव ॥ 71 ॥

  72. युधिष्ठिरात परतिविन्ध्यं सुत सॊमं वृकॊदरात अर्जुनाच छरुत कर्माणं शतानीकं च नाकुलिम ॥ 72 ॥

  73. सहदेवाच छरुत सेनम एतान पञ्च महारथान पाञ्चाली सुषुवे वीरान आदित्यान अदितिर यथा ॥ 73 ॥

  74. शास्त्रतः परतिविन्ध्यं तम ऊचुर विप्रा युधिष्ठिरम परप्रहरण जञाने परतिविन्ध्यॊ भवत्व अयम ॥ 74 ॥

  75. सुते सॊमसहस्रे तु सॊमार्क समतेजसम सुत सॊमं महेष्वासं सुषुवे भीमसेनतः ॥ 75 ॥

  76. शरुतं कर्म महत कृत्वा निवृत्तेन किरीटिना जातः पुत्रस तवेत्य एवं शरुतकर्मा ततॊ ऽभवत ॥ 76 ॥

  77. शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम ॥ 77 ॥

  78. ततस तव अजीजनत कृष्णा नक्षत्रे वह्नि दैवते सहदेवात सुतं तस्माच छरुत सेनेति तं विदुः ॥ 78 ॥

  79. एकवर्षान्तरास तव एव दरौपदेया यशस्विनः अन्वजायन्त राजेन्द्र परस्परहिते रताः ॥ 79 ॥

  80. जातकर्माण्य आनुपूर्व्याच चूडॊपनयनानि च चकार विधिवद धौम्यस तेषां भरतसत्तम ॥ 80 ॥

  81. कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः जगृहुः सर्वम इष्वस्त्रम अर्जुनाद दिव्यमानुषम ॥ 81 ॥

  82. देवगर्भॊपमैः पुत्रैर वयूढॊरस्कैर महाबलैः अन्विता राजशार्दूल पाण्डवा मुदम आप्नुवन ॥ 82 ॥

Reach this point to mark the section finished.

Continue to अध्याय 214

Previous: अध्याय 212