[वै] ततः संवादिते तस्मिन्न अनुज्ञातॊ धनंजयः गतां रैवतके कन्यां विदित्वा जनमेजय वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम ॥ 1 ॥
कृष्णस्य मतम आज्ञाय परययौ भरतर्षभः ॥ 2 ॥
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि सैन्यसुग्रीव युक्तेन किङ्किणीजालमालिना ॥ 3 ॥
सर्वशस्त्रॊपपन्नेन जीमूतरवनादिना जवलिताग्निप्रकाशेन दविषतां हर्षघातिना ॥ 4 ॥
संनद्धः कवची खड्गी बद्धगॊधाङ्गुलित्रवान मृगया वयपदेशेन यौगपद्येन भारत ॥ 5 ॥
सुभद्रा तव अथ शैलेन्द्रम अभ्यर्च्य सह रैवतम दैवतानि च सर्वाणि बराह्मणान सवस्ति वाच्य च ॥ 6 ॥
परदक्षिणं गिरिं कृत्वा परययौ दवारकां परति ताम अभिद्रुत्य कौन्तेयः परसह्यारॊपयद रथम ॥ 7 ॥
ततः स पुरुषव्याघ्रस ताम आदाय शुचिस्मिताम रथेनाकाशगेनैव परययौ सवपुरं परति ॥ 8 ॥
हरियमाणां तु तां दृष्ट्वा सुभद्रां सैनिकॊ जनः विक्रॊशन पराद्रवत सर्वॊ दवारकाम अभितः पुरीम ॥ 9 ॥
ते समासाद्य सहिताः सुधर्माम अभितः सभाम सभा पालस्य तत सर्वम आचख्युः पार्थ विक्रमम ॥ 10 ॥
तेषां शरुत्वा सभा पालॊ भेरीं साम्नाहिकीं ततः समाजघ्ने महाघॊषां जाम्बूनदपरिष्कृताम ॥ 11 ॥
कषुब्धास तेनाथ शब्देन भॊजवृष्ण्यन्धकास तदा अन्नपानम अपास्याथ समापेतुः सभां ततः ॥ 12 ॥
ततॊ जाम्बूनदाङ्गानि सपर्ध्यास्तरणवन्ति च मणिविद्रुम चित्राणि जवलिताग्निप्रभाणि च ॥ 13 ॥
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः सिंहासनानि शतशॊ धिष्ण्यानीव हुताशनाः ॥ 14 ॥
तेषां समुपविष्टानां देवानाम इव संनये आचख्यौ चेष्टितं जिष्णॊः सभा पालः सहानुगः ॥ 15 ॥
तच छरुत्वा वृष्णिवीरास ते मदरक्तान्त लॊचनाः अमृष्यमाणाः पार्थस्य समुत्पेतुर अहं कृताः ॥ 16 ॥
यॊजयध्वं रथान आशु परासान आहरतेति च धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥ 17 ॥
सूतान उच्चुक्रुशुः केच चिद रथान यॊजयतेति च सवयं च तुरगान के चिन निन्युर हेमविभूषितान ॥ 18 ॥
रथेष्व आनीयमानेषु कवचेषु धवजेषु च अभिक्रन्दे नृवीराणां तदासीत संकुलं महत ॥ 19 ॥
वनमाली ततः कषीबः कैलासशिखरॊपमः नीलवासा मदॊत्सिक्त इदं वचनम अब्रवीत ॥ 20 ॥
किम इदं कुरुथाप्रज्ञास तूष्णींभूते जनार्दने अस्य भावम अविज्ञाय संक्रुद्धा मॊघगर्जिताः ॥ 21 ॥
एष तावद अभिप्रायम आख्यातु सवं महामतिः यद अस्य रुचितं कर्तुं तत कुरुध्वम अतन्द्रिताः ॥ 22 ॥
ततस ते तद वचः शरुत्वा गराह्य रूपं हलायुधात तूष्णींभूतास ततः सर्वे साधु साध्व इति चाब्रुवन ॥ 23 ॥
समं वचॊ निशम्येति बलदेवस्य धीमतः पुनर एव सभामध्ये सर्वे तु समुपाविशन ॥ 24 ॥
ततॊ ऽबरवीत कामपालॊ वासुदेवं परंतपम किम अवाग उपविष्टॊ ऽसि परेक्षमाणॊ जनार्दन ॥ 25 ॥
सत्कृतस तवत्कृते पार्तः सर्वैर अस्माभिर अच्युत न च सॊ ऽरहति तां पूजां दुर्बुद्धिः कुलपांसनः ॥ 26 ॥
कॊ हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुम अर्हति मन्यमानः कुले जातम आत्मानं पुरुषः कव चित ॥ 27 ॥
ईप्समानश च संबन्धं कृप पूर्वं च मानयन कॊ हि नाम भवेनार्थी साहसेन समाचरेत ॥ 28 ॥
सॊ ऽवमन्य च नामास्मान अनादृत्य च केशवम परसह्य हृतवान अद्य सुभद्रां मृत्युम आत्मनः ॥ 29 ॥
कथं हि शिरसॊ मध्ये पदं तेन कृतं मम मर्षयिष्यामि गॊविन्द पादस्पर्शम इवॊरगः ॥ 30 ॥
अद्य निष्कौरवाम एकः करिष्यामि वसुंधराम न हि मे मर्षणीयॊ ऽयम अर्जुनस्य वयतिक्रमः ॥ 31 ॥
तं तथा गर्जमानं तु मेघदुन्दुभि निःस्वनम अन्वपद्यन्त ते सर्वे भॊजवृष्ण्यन्धकास तदा ॥ 32 ॥
आदिपर्व · Adi Parva
अध्याय 212
Reach this point to mark the section finished.
Continue to अध्याय 213