[वै] ततः कतिपयाहस्य तस्मिन रैवतके गिरौ वृष्ण्यन्धकानाम अभवत सुमहान उत्सवॊ नृप ॥ 1 ॥
तत्र दानं ददुर वीरा बराह्मणानां सहस्रशः भॊजवृष्ण्यन्धकाश चैव महे तस्य गिरेस तदा ॥ 2 ॥
परसादै रत्नचित्रैश च गिरेस तस्य समन्ततः स देशः शॊभितॊ राजन दीपवृक्षैश च सर्वशः ॥ 3 ॥
वादित्राणि च तत्र सम वादकाः समवादयन ननृतुर नर्तकाश चैव जगुर गानानि गायनाः ॥ 4 ॥
अलंकृताः कुमाराश च वृष्णीनां सुमहौजसः यानैर हाटकचित्राङ्गैश चञ्चूर्यन्ते सम सर्वशः ॥ 5 ॥
पौराश च पादचारेण यानैर उच्चावचैस तथा सदाराः सानुयात्राश च शतशॊ ऽथ सहस्रशः ॥ 6 ॥
ततॊ हलधरः कषीबॊ रेवती सहितः परभुः अनुगम्यमानॊ गन्धर्वैर अचरत तत्र भारत ॥ 7 ॥
तथैव राजा वृष्णीनाम उग्रसेनः परतापवान उपगीयमानॊ गन्धर्वैः सत्रीसहस्रसहायवान ॥ 8 ॥
रौक्मिणेयश च साम्बश च कषीबौ समरदुर्मदौ दिव्यमाल्याम्बरधरौ विजह्राते ऽमराव इव ॥ 9 ॥
अक्रूरः सारणश चैव गदॊ भानुर विडूरथः निशठश चारु देष्णश च पृथुर विपृथुर एव च ॥ 10 ॥
सत्यकः सात्यकिश चैव भङ्गकारसहाचरौ हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः ॥ 11 ॥
एते परिवृताः सत्रीभिर गन्धर्वैश च पृथक पृथक तम उत्सवं रैवतके शॊभयां चक्रिरे तदा ॥ 12 ॥
तदा कॊलाहले तस्मिन वर्तमाने महाशुभे वासुदेवश च पार्थश च सहितौ परिजग्मतुः ॥ 13 ॥
तत्र चङ्क्रम्यमाणौ तौ वासुदेव सुतां शुभाम अलंकृतां सखीमध्ये भद्रां ददृशतुस तदा ॥ 14 ॥
दृष्ट्वैव ताम अर्जुनस्य कन्दर्पः समजायत तं तथैकाग्र मनसं कृष्णः पार्थम अलक्षयत ॥ 15 ॥
अथाब्रवीत पुष्कराक्षः परहसन्न इव भारत वनेचरस्य किम इदं कामेनालॊड्यते मनः ॥ 16 ॥
ममैषा भगिनी पार्थ सारणस्य सहॊदरा यदि ते वर्तते बुद्धिर वक्ष्यामि पितरं सवयम ॥ 17 ॥
[आर्ज] दुहिता वसुदेवस्य वसुदेवस्य च सवसा रूपेण चैव संपन्ना कम इवैषा न मॊहयेत ॥ 18 ॥
कृतम एव तु कल्याणं सर्वं मम भवेद धरुवम यदि सयान मम वार्ष्णेयी महिषीयं सवसा तव ॥ 19 ॥
पराप्तौ तु क उपायः सयात तद बरवीहि जनार्दन आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत ॥ 20 ॥
[वासु] सवयंवरः कषत्रियाणां विवाहः पुरुषर्षभ स च संशयितः पार्थ सवभावस्यानिमित्ततः ॥ 21 ॥
परसह्य हरणं चापि कषत्रियाणां परशस्यते विवाह हेतॊः शूराणाम इति धर्मविदॊ विदुः ॥ 22 ॥
स तवम अर्जुन कल्याणीं परसह्य भगिनीं मम हर सवयंवरे हय अस्याः कॊ वै वेद चिकीर्षितम ॥ 23 ॥
[वै] ततॊ ऽरजुनश च कृष्णश च विनिश्चित्येतिकृत्यताम शीघ्रगान पुरुषान राज्ञ परेषयाम आसतुस तदा ॥ 24 ॥
धर्मराजाय तत सर्वम इन्द्रप्रस्थगताय वै शरुत्वैव च महाबाहुर अनुजज्ञे स पाण्डवः ॥ 25 ॥
आदिपर्व · Adi Parva
अध्याय 211
Reach this point to mark the section finished.
Continue to अध्याय 212