धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 210

  1. [वै] सॊ ऽपरान्तेषु तीर्थानि पुण्यान्य आयतनानि च सर्वाण्य एवानुपूर्व्येण जगामामित विक्रमः ॥ 1 ॥

  2. समुद्रे पश्चिमे यानि तीर्थान्य आयतनानि च तानि सर्वाणि गत्वा स परभासम उपजग्मिवान ॥ 2 ॥

  3. परभास देशं संप्राप्तं बीभत्सुम अपराजितम तीर्थान्य अनुचरन्तं च शुश्राव मधुसूदनः ॥ 3 ॥

  4. ततॊ ऽभयगच्छत कौन्तेयम अज्ञातॊ नाम माधवः ददृशाते तदान्यॊन्यं परभासे कृष्ण पाण्डवौ ॥ 4 ॥

  5. ताव अन्यॊन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने आस्तां परियसखायौ तौ नरनारायणाव ऋषी ॥ 5 ॥

  6. ततॊ ऽरजुनं वासुदेवस तां चर्यां पर्यपृच्छत किमर्थं पाण्डवेमानि तीर्थान्य अनुचरस्य उत ॥ 6 ॥

  7. ततॊ ऽरजुनॊ यथावृत्तं सर्वम आख्यातवांस तदा शरुत्वॊवाच च वार्षेण्य एवम एतद इति परभुः ॥ 7 ॥

  8. तौ विहृत्य यथाकामं परभासे कृष्ण पाण्डवौ महीधरं रैवतकं वासायैवाभिजग्मतुः ॥ 8 ॥

  9. पूर्वम एव तु कृष्णस्य वचनात तं महीधरम पुरुषाः समलंचक्रुर उपजह्रुश च भॊजनम ॥ 9 ॥

  10. परतिगृह्यार्जुनः सर्वम उपभुज्य च पाण्डवः सहैव वासुदेवेन दृष्टवान नटनर्तकान ॥ 10 ॥

  11. अभ्यनुज्ञाप्य तान सर्वान अर्चयित्वा च पाण्डवः सत्कृतं शयनं दिव्यम अभ्यगच्छन महाद्युतिः ॥ 11 ॥

  12. तीर्थानां दर्शनं चैव पर्वतानां च भारत आपगानां वनानां च कथयाम आस सात्वते ॥ 12 ॥

  13. स कथाः कथयन्न एव निद्रया जनमेजय कौन्तेयॊ ऽपहृतस तस्मिञ शयने सवर्गसंमिते ॥ 13 ॥

  14. मधुरेण स गीतेन वीणा शब्देन चानघ परबॊध्यमानॊ बुबुधे सतुतिभिर मङ्गलैस तथा ॥ 14 ॥

  15. स कृत्वावश्य कार्याणि वार्ष्णेयेनाभिनन्दितः रथेन काञ्चनाङ्गेन दवारकाम अभिजग्मिवान ॥ 15 ॥

  16. अलंकृता दवारका तु बभूव जनमेजय कुन्तीसुतस्य पूजार्थम अपि निष्कुटकेष्व अपि ॥ 16 ॥

  17. दिदृक्षवश च कौन्तेयं दवारकावासिनॊ जनाः नरेन्द्रमार्गम आजग्मुस तूर्णं शतसहस्रशः ॥ 17 ॥

  18. अवलॊकेषु नारीणां सहस्राणि शतानि च भॊजवृष्ण्यन्धकानां च समवायॊ महान अभूत ॥ 18 ॥

  19. स तथा सत्कृतः सर्वैर भॊजवृष्ण्यन्धकात्मजैः अभिवाद्याभिवाद्यांश च सूर्यैश च परतिनन्दितः ॥ 19 ॥

  20. कुमारैः सर्वशॊ वीरः सत्करेणाभिवादितः समानवयसः सर्वान आश्लिष्य स पुनः पुनः ॥ 20 ॥

  21. कृष्णस्य भवने रम्ये रत्नभॊज्य समावृते उवास सह कृष्णेन बहुलास तत्र शर्वरीः ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 211

Previous: अध्याय 209