[वर्ग] ततॊ वयं परव्यथिताः सर्वा भरतसत्तम आयाम शरणं विप्रं तं तपॊधनम अच्युतम ॥ 1 ॥
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः अयुक्तं कृतवत्यः सम कषन्तुम अर्हसि नॊ दविज ॥ 2 ॥
एष एव वधॊ ऽसमाकं सुपर्याप्तस तपॊधन यद वयं संशितात्मानं परलॊब्धुं तवाम इहागताः ॥ 3 ॥
अवध्यास तु सत्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः तस्माद धर्मेण धर्मज्ञ नास्मान हिंसितुम अर्हसि ॥ 4 ॥
सर्वभूतेषु धर्मज्ञ मैत्रॊ बराह्मण उच्यते सत्यॊ भवतु कल्याण एष वादॊ मनीषिणाम ॥ 5 ॥
शरणं च परपन्नानां शिष्टाः कुर्वन्ति पालनम शरणं तवां परपन्नाः सम तस्मात तवं कषन्तुम अर्हसि ॥ 6 ॥
[वै] एवम उक्तस तु धर्मात्मा बराह्मणः शुभकर्मकृत परसादं कृतवान वीर रविसॊमसमप्रभः ॥ 7 ॥
[बराह्मण] शतं सहस्रं विश्वं च सर्वम अक्षय वाचकम परिमाणं शतं तव एतन नैतद अक्षय वाचकम ॥ 8 ॥
यदा च वॊ गराहभूता गृह्णन्तीः पुरुषाञ जले उत्कर्षति जलात कश चित सथलं पुरुषसत्तमः ॥ 9 ॥
तदा यूयं पुनः सर्वाः सवरूपं परतिपत्स्यथ अनृतं नॊक्तपूर्वं मे हसतापि कदा चन ॥ 10 ॥
तानि सर्वाणि तीर्थानि इतः परभृति चैव ह नारी तीर्थानि नाम्नेह खयातिं यास्यन्ति सर्वशः पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम ॥ 11 ॥
[वर्ग] ततॊ ऽभिवाद्य तं विप्रं कृत्वा चैव परदक्षिणम अचिन्तयामॊपसृत्य तस्माद देशात सुदुःखिताः ॥ 12 ॥
कव नु नाम वयं सर्वाः कालेनाल्पेन तं नरम समागच्छेम यॊ नस तद रूपम आपादयेत पुनः ॥ 13 ॥
ता वयं चिन्तयित्वैवं मुहूर्ताद इव भारत दृष्टवत्यॊ महाभागं देवर्षिम उत नारदम ॥ 14 ॥
सर्वा हृष्टाः सम तं दृष्ट्वा देवर्षिम अमितद्युतिम अभिवाद्य च तं पार्थ सथिताः सम वयथिताननाः ॥ 15 ॥
स नॊ ऽपृच्छद दुःखमूलम उक्तवत्यॊ वयं च तत शरुत्वा तच च यथावृत्तम इदं वचनम अब्रवीत ॥ 16 ॥
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै पुण्यानि रमणीयानि तानि गच्छत माचिरम ॥ 17 ॥
तत्राशु पुरुषव्याघ्रः पाण्डवॊ वॊ धनंजयः मॊक्षयिष्यति शुद्धात्मा दुःखाद अस्मान न संशयः ॥ 18 ॥
तस्य सर्वा वयं वीर शरुत्वा वाक्यम इहागताः तद इदं सत्यम एवाद्य मॊक्षिताहं तवयानघ ॥ 19 ॥
एतास तु मम वै सख्यश चतस्रॊ ऽनया जले सथिताः कुरु कर्म शुभं वीर एताः सर्वा विमॊक्षय ॥ 20 ॥
[वै] ततस ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते तस्माच छापाद अदीनात्मा मॊक्षयाम आस वीर्यवान ॥ 21 ॥
उत्थाय च जलात तस्मात परतिलभ्य वपुः सवकम तास तदाप्सरसॊ राजन्न अदृश्यन्त यथा पुरा ॥ 22 ॥
तीर्थानि शॊधयित्वा तु तथानुज्ञाय ताः परभुः चित्राङ्गदां पुनर दरष्टुं मणलूर पुरं ययौ ॥ 23 ॥
तस्याम अजनयत पुत्रं राजानं बभ्रु वाहनम तं दृष्ट्वा पाण्डवॊ राजन गॊकर्णम अभितॊ ऽगमत ॥ 24 ॥
आदिपर्व · Adi Parva
अध्याय 209
Reach this point to mark the section finished.
Continue to अध्याय 210