[वै] तं परयान्तं महाबाहुं कौरवाणां यशः करम अनुजग्मुर महात्मानॊ बराह्मणा वेदपारगाः ॥ 1 ॥
वेदवेदाङ्गविद्वांसस तथैवाध्यात्म चिन्तकाः चौक्षाश च भगवद भक्ताः सूताः पौराणिकाश च ये ॥ 2 ॥
कथकाश चापरे राजञ शरमणाश च वनौकसः दिव्याख्यानानि ये चापि पठन्ति मधुरं दविजाः ॥ 3 ॥
एतैश चान्यैश च बहुभिः सहायैः पाण्डुनन्दनः वृतः शलक्ष्णकथैः परायान मरुद्भिर इव वासवः ॥ 4 ॥
रमणीयानि चित्राणि वनानि च सरांसि च सरितः सागरांश चैव देशान अपि च भारत ॥ 5 ॥
पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ स गङ्गा दवारम आसाद्य निवेशम अकरॊत परभुः ॥ 6 ॥
तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय कृतवान यद विशुद्धात्मा पाण्डूनां परवरॊ रथी ॥ 7 ॥
निविष्टे तत्र कौन्तेये बराह्मणेषु च भारत अग्निहॊत्राणि विप्रास ते परादुश्चक्रुर अनेकशः ॥ 8 ॥
तेषु परबॊध्यमानेषु जवलितेषु हुतेषु च कृतपुष्पॊपहारेषु तीरान्तर गतेषु च ॥ 9 ॥
कृताभिषेकैर विद्वद्भिर नियतैः सत्पथि सथितैः शुशुभे ऽतीव तद राजन गङ्गा दवारं महात्मभिः ॥ 10 ॥
तथा पर्याकुले तस्मिन निवेशे पाण्डुनन्दनः अभिषेकाय कौन्तेयॊ गङ्गाम अवततार ह ॥ 11 ॥
तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान उत्तितीर्षुर जलाद राजन्न अग्निकार्यचिकीर्षया ॥ 12 ॥
अपकृष्टॊ महाबाहुर नागराजस्य कन्यया अन्तर्जले महाराज उलूप्या कामयानया ॥ 13 ॥
ददर्श पाण्डवस तत्र पावकं सुसमाहितम कौरव्यस्याथ नागस्य भवने परमार्चिते ॥ 14 ॥
तत्राग्निकार्यं कृतवान कुन्तीपुत्रॊ धनंजयः अशङ्कमानेन हुतस तेनातुष्यद धुताशनः ॥ 15 ॥
अग्निकार्यं स कृत्वा तु नागराजसुतां तदा परहसन्न इव कौन्तेय इदं वचनम अब्रवीत ॥ 16 ॥
किम इदं साहसं भीरु कृतवत्य असि भामिनि कश चायं सुभगॊ देशः का च तवं कस्य चात्मजा ॥ 17 ॥
[ऊलूपी] ऐरावत कुले जातः कौरव्यॊ नाम पन्नगः तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी ॥ 18 ॥
साहं तवाम अभिषेकार्थम अवतीर्णं समुद्रगाम दृष्टवत्य एव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता ॥ 19 ॥
तां माम अनङ्ग मथितां तवत्कृते कुरुनन्दन अनन्यां नन्दयस्वाद्य परदानेनात्मनॊ रहः ॥ 20 ॥
[आर्ज] बरह्मचर्यम इदं भद्रे मम दवादश वार्षिकम धर्मराजेन चादिष्टं नाहम अस्मि सवयं वशः ॥ 21 ॥
तव चापि परियं कर्तुम इच्छामि जलचारिणि अनृतं नॊक्तपूर्वं च मया किं चन कर्हि चित ॥ 22 ॥
कथं च नानृतं तत सयात तव चापि परियं भवेत न च पीड्येत मे धर्मस तथा कुर्यां भुजंगमे ॥ 23 ॥
[ऊलूपी] जानाम्य अहं पाण्डवेय यथा चरसि मेदिनीम यथा च ते बरह्मचर्यम इदम आदिष्टवान गुरुः ॥ 24 ॥
परस्परं वर्तमानान दरुपदस्यात्मजां परति यॊ नॊ ऽनुप्रविशेन मॊहात स नॊ दवादश वार्षिकम वनेचरेद बरह्मचर्यम इति वः समयः कृतः ॥ 25 ॥
तद इदं दरौपदीहेतॊर अन्यॊन्यस्य परवासनम कृतं वस तत्र धर्मार्थम अत्र धर्मॊ न दुष्यति ॥ 26 ॥
परित्राणं च कर्तव्यम आर्तानां पृथुलॊचन कृत्वा मम परित्राणं तव धर्मॊ न लुप्यते ॥ 27 ॥
यदि वाप्य अस्य धर्मस्य सूक्ष्मॊ ऽपि सयाद वयतिक्रमः स च ते धर्म एव सयाद दात्त्वा पराणान ममार्जुन ॥ 28 ॥
भक्तां भजस्य मां पार्थ सताम एतन मतं परभॊ न करिष्यसि चेद एवं मृतां माम उपधारय ॥ 29 ॥
पराणदानान महाबाहॊ चर धर्मम अनुत्तमम शरणं च परपन्नास्मि तवाम अद्य पुरुषॊत्तम ॥ 30 ॥
दीनान अनाथान कौन्तेय परिरक्षसि नित्यशः साहं शरणम अभ्येमि रॊरवीमि च दुःखिता ॥ 31 ॥
याचे तवाम अभिकामाहं तस्मात कुरु मम परियम स तवम आत्मप्रदानेन सकामां कर्तुम अर्हसि ॥ 32 ॥
[वै] एवम उक्तस तु कौन्तेयः पन्नगेश्वर कन्यया कृतवांस तत तथा सर्वं धर्मम उद्दिश्य कारणम ॥ 33 ॥
स नागभवने रात्रिं ताम उषित्वा परतापवान उदिते ऽभयुत्थितः सूर्ये कौरव्यस्य निवेशनात ॥ 34 ॥
आदिपर्व · Adi Parva
अध्याय 206
Reach this point to mark the section finished.
Continue to अध्याय 207