[वै] कथयित्वा तु तत सर्वं बराह्मणेभ्यः स भारत परययौ हिमवत्पार्श्वं ततॊ वज्रधरात्मजः ॥ 1 ॥
अगस्त्यवटम आसाद्य वसिष्ठस्य च पर्वतम भृगुतुङ्गे च कौन्तेयः कृतवाञ शौचम आत्मनः ॥ 2 ॥
परददौ गॊसहस्राणि तीर्थेष्व आयतनेषु च निवेशांश च दविजातिभ्यः सॊ ऽददत कुरुसत्तमः ॥ 3 ॥
हिरण्यबिन्दॊस तीर्थे च सनात्वा पुरुषसत्तमः दृष्टवान पर्वतश्रेष्ठं पुण्यान्य आयतनानि च ॥ 4 ॥
अवतीर्य नरश्रेष्ठॊ बराह्मणैः सह भारत पराचीं दिशम अभिप्रेप्सुर जगाम भरतर्षभः ॥ 5 ॥
आनुपूर्व्येण तीर्थानि दृष्टवान कुरुसत्तमः नदीं चॊत्पलिनीं रम्याम अरण्यं नैमिषं परति ॥ 6 ॥
नन्दाम अपरनन्दां च कौशिकीं च यशस्विनीम महानदीं गयां चैव गङ्गाम अपि च भारत ॥ 7 ॥
एवं सर्वाणि तीर्थानि पश्यमानस तथाश्रमान आत्मनः पावनं कुर्वन बराह्मणेभ्यॊ ददौ वसु ॥ 8 ॥
अङ्गवङ्ग कलिङ्गेषु यानि पुण्यानि कानि चित जगाम तानि सर्वाणि तीर्थान्य आयतनानि च दृष्ट्वा च विधिवत तानि धनं चापि ददौ ततः ॥ 9 ॥
कलिङ्ग राष्ट्रद्वारेषु बराह्मणाः पाण्डवानुगाः अभ्यनुज्ञाय कौन्तेयम उपावर्तन्त भारत ॥ 10 ॥
स तु तैर अभ्यनुज्ञातः कुन्तीपुत्रॊ धनंजयः सहायैर अल्पकैः शूरः परययौ येन सागरम ॥ 11 ॥
स कलिङ्गान अतिक्रम्य देशान आयतनानि च धर्म्याणि रमणीयानि परेक्षमाणॊ ययौ परभुः ॥ 12 ॥
महेन्द्र पर्वतं दृष्ट्वा तापसैर उपशॊभितम समुद्रतीरेण शनैर मणलूरं जगाम ह ॥ 13 ॥
तत्र सर्वाणि तीर्थानि पुण्यान्य आयतनानि च अभिगम्य महाबाहुर अभ्यगच्छन महीपतिम मणलूरेश्वरं राजन धर्मज्ञं चित्रवाहनम ॥ 14 ॥
तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना तां ददर्श पुरे तस्मिन विचरन्तीं यदृच्छया ॥ 15 ॥
दृष्ट्वा च तां वरारॊहां चकमे चैत्रवाहिनीम अभिगम्य च राजानं जञापयत सवं परयॊजनम तम उवाचाथ राजा स सान्त्वपूर्वम इदं वचः ॥ 16 ॥
राजा परभंकरॊ नाम कुले अस्मिन बभूव ह अपुत्रः परसवेनार्थी तपस तेपे स उत्तमम ॥ 17 ॥
उग्रेण तपसा तेन परणिपातेन शंकरः ईश्वरस तॊषितस तेन महादेव उमापतिः ॥ 18 ॥
स तस्मै भगवान परादाद एकैकं परसवं कुले एकैकः परसवस तस्माद भवत्य अस्मिन कुले सदा ॥ 19 ॥
तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे कन्या तु मम जातेयं कुलस्यॊत्पादनी धरुवम ॥ 20 ॥
पुत्रॊ ममेयम इति मे भावना पुरुषॊत्तम पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ ॥ 21 ॥
एतच छुल्कं भवत्व अस्याः कुलकृज जायताम इह एतेन समयेनेमां परतिगृह्णीष्व पाण्डव ॥ 22 ॥
स तथेति परतिज्ञाय कन्यां तां परतिगृह्य च उवास नगरे तस्मिन कौन्तेयस तरिहिमाः समाः ॥ 23 ॥
आदिपर्व · Adi Parva
अध्याय 207
Reach this point to mark the section finished.
Continue to अध्याय 208