[नारद] जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ कृत्वा तरैलॊक्यम अव्यग्रं कृतकृत्यौ बभूवतुः ॥ 1 ॥
देवगन्धर्वयक्षाणां नागपार्थिव रक्षसाम आदाय सर्वरत्नानि परां तुष्टिम उपागतौ ॥ 2 ॥
यदा न परतिषेद्धारस तयॊः सन्तीह के चन निरुद्यॊगौ तदा भूत्वा विजह्राते ऽमराव इव ॥ 3 ॥
सत्रीभिर माल्यैश च गन्धैश च भक्षैर भॊज्यैश च पुष्कलैः पानैश च विविधैर हृद्यैः परां परीतिम अवापतुः ॥ 4 ॥
अन्तःपुरे वनॊद्याने पर्वतॊपवनेषु च यथेप्सितेषु देशेषु विजह्राते ऽमराव इव ॥ 5 ॥
ततः कदा चिद विन्ध्यस्य पृष्ठे समशिलातले पुष्पिताग्रेषु शालेषु विहारम अभिजग्मतुः ॥ 6 ॥
दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ वरासनेषु संहृष्टौ सह सत्रीभिर निषेदतुः ॥ 7 ॥
ततॊ वादित्रनृत्ताभ्याम उपातिष्ठन्त तौ सत्रियः गीतैश च सतुतिसंयुक्तैः परीत्यर्थम उपजग्मिरे ॥ 8 ॥
ततस तिलॊत्तमा तत्र वने पुष्पाणि चिन्वती वेषम आक्षिप्तम आधाय रक्तेनैकेन वाससा ॥ 9 ॥
नदीतीरेषु जातान सा कर्णिकारान विचिन्वती शनैर जगाम तं देशं यत्रास्तां तौ महासुरौ ॥ 10 ॥
तौ तु पीत्वा वरं पानं मदरक्तान्त लॊचनौ दृष्ट्वैव तां वरारॊहां वयथितौ संबहूवतुः ॥ 11 ॥
ताव उत्पत्यासनं हित्वा जग्मतुर यत्र सा सथिता उभौ च कामसंमत्ताव उभौ परार्थयतश च ताम ॥ 12 ॥
दक्षिणे तां करे सुभ्रूं सुन्दॊ जग्राह पाणिना उपसुन्दॊ ऽपि जग्राह वामे पाणौ तिलॊत्तमाम ॥ 13 ॥
वरप्रदान मत्तौ ताव औरसेन बलेन च धनरत्नमदाभ्यां च सुरा पानमदेन च ॥ 14 ॥
सर्वैर एतैर मदैर मत्ताव अन्यॊन्यं भरुकुटी कृतौ मदकामसमाविष्टौ परस्परम अथॊचतुः ॥ 15 ॥
मम भार्या तव गुरुर इति सुन्दॊ ऽभयभाषत मम भार्या तव वधूर उपसुन्दॊ ऽभयभाषत ॥ 16 ॥
नैषा तव ममैषेति तत्र तौ मन्युर आविशत तस्या हेतॊर गदे भीमे ताव उभाव अप्य अगृह्णताम ॥ 17 ॥
तौ परगृह्य गदे भीमे तस्याः कामेन मॊहितौ अहं पूर्वम अहं पूर्वम इत्य अन्यॊन्यं निजघ्नतुः ॥ 18 ॥
तौ गदाभिहतौ भीमौ पेततुर धरणीतले रुधिरेणावलिप्ताङ्गौ दवाव इवार्कौ नभश चयुतौ ॥ 19 ॥
ततस ता विद्रुता नार्यः स च दैत्य गणस तदा पातालम अगमत सर्वॊ विषादभयकम्पितः ॥ 20 ॥
ततः पितामहस तत्र सह देवैर महर्षिभिः आजगाम विशुद्धात्मा पूजयिष्यंस तिलॊत्तमाम ॥ 21 ॥
वरेण छन्दिता सा तु बरह्मणा परीतिम एव ह वरयाम आस तत्रैनां परीतः पराह पितामहः ॥ 22 ॥
आदित्यचरिताँल लॊकान विचरिष्यसि भामिनि तेजसा च सुदृष्टां तवां न करिष्यति कश चन ॥ 23 ॥
एवं तस्यै वरं दत्त्वा सर्वलॊकपितामहः इन्द्रे तरैलॊक्यम आधाय बरह्मलॊकं गतः परभुः ॥ 24 ॥
एवं तौ सहितौ भूत्वा सर्वार्थेष्व एकनिश्चयौ तिलॊत्तमार्थे संक्रुद्धाव अन्यॊन्यम अभिजघ्नतुः ॥ 25 ॥
तस्माद बरवीमि वः सनेहात सर्वान भरतसत्तमान यथा वॊ नात्र भेदः सयात सर्वेषां दरौपदी कृते तथा कुरुत भद्रं वॊ मम चेत परियम इच्छथ ॥ 26 ॥
[वै] एवम उक्ता महात्मानॊ नारदेन महर्षिणा समयं चक्रिरे राजंस ते ऽनयॊन्येन समागताः समक्षं तस्य देवर्षेर नारदस्यामितौजसः ॥ 27 ॥
दरौपद्या नः सहासीनम अन्यॊ ऽनयं यॊ ऽभिदर्शयेत स नॊ दवादश वर्षाणि बरह्म चारी वने वसेत ॥ 28 ॥
कृते तु समये तस्मिन पाण्डवैर धर्मचारिभिः नारदॊ ऽपय अगमत परीत इष्टं देशं महामुनिः ॥ 29 ॥
एवं तैः समयः पूर्वं कृतॊ नरद चॊदितैः न चाभिद्यन्त ते सार्वे तदान्यॊन्येन भारत ॥ 30 ॥
आदिपर्व · Adi Parva
अध्याय 204
Reach this point to mark the section finished.
Continue to अध्याय 205