धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 203

  1. [नारद] ततॊ देवर्षयः सर्वे सिद्धाश च परमर्षयः जग्मुस तदा पराम आर्तिं दृष्ट्वा कत कदनं महत ॥ 1 ॥

  2. ते ऽभिजग्मुर जितक्रॊधा जितात्मानॊ जितेन्द्रियाः पितामहस्य भवनं जगतः कृपया तदा ॥ 2 ॥

  3. ततॊ ददृशुर आसीनं सह देवैः पितामहम सिद्धैर बरह्मर्षिभिश चैव समन्तात परिवारितम ॥ 3 ॥

  4. तत्र देवॊ महादेवस तत्राग्निर वायुना सह चन्द्रादित्यौ च धर्मश च परमेष्ठी तथा बुधः ॥ 4 ॥

  5. वैखानसा वालखिल्या वानप्रस्था मरीचिपाः अजाश चैवाविमूढाश च तेजॊ गर्भास तपस्विनः ऋषयः सर्व एवैते पितामहम उपासते ॥ 5 ॥

  6. ततॊ ऽभिगम्य सहिताः सर्व एव महर्षयः सुन्दॊपसुन्दयॊः कर्म सर्वम एव शशंसिरे ॥ 6 ॥

  7. यथा कृतं यथा चैव कृतं येन करमेण च नयवेदयंस ततः सर्वम अखिलेन पितामहे ॥ 7 ॥

  8. ततॊ देवगणाः सर्वे ते चैव परमर्षयः तम एवार्थं पुरस्कृत्य पितामहम अचॊदयन ॥ 8 ॥

  9. ततः पितामहः शरुत्वा सर्वेषां तद वचस तदा मुहूर्तम इव संचिन्त्य कर्तव्यस्य विनिश्चयम ॥ 9 ॥

  10. तयॊर वधं समुद्दिश्य विश्वकर्माणम आह्वयत दृष्ट्वा च विश्वकर्माणं वयादिदेश पितामहः सृज्यतां पराथनीयेह परमदेति महातपाः ॥ 10 ॥

  11. पितामहं नमस्कृत्य तद वाक्यम अभिनन्द्य च निर्ममे यॊषितं दिव्यां चिन्तयित्वा परयत्नतः ॥ 11 ॥

  12. तरिषु लॊकेषु यत किं चिद भूतं सथावरजङ्गमम समानयद दर्शनीयं तत तद यत्नात ततस ततः ॥ 12 ॥

  13. कॊटिशश चापि रत्नानि तस्या गात्रे नयवेशयत तां रत्नसंघात मयीम असृजद देवरूपिणीम ॥ 13 ॥

  14. सा परयत्नेन महता निर्मिता विश्वकर्मणा तरिषु लॊकेषु नारीणां रूपेणाप्रतिमाभवत ॥ 14 ॥

  15. न तस्याः सूक्ष्मम अप्य अस्ति यद गात्रे रूपसंपदा न युक्तं यत्र वा दृष्टिर न सज्जति निरीक्षताम ॥ 15 ॥

  16. सा विग्रहवतीव शरीः कान्त रूपा वपुष्मती जहार सर्वभूतानां चक्षूंषि च मनांसि च ॥ 16 ॥

  17. तिलं तिलं समानीय रत्नानां यद विनिर्मिता तिलॊत्तमेत्य अतस तस्या नाम चक्रे पितामहः ॥ 17 ॥

  18. [पितामह] गच्छ सुन्दॊपसुन्दाभ्याम असुराभ्यां तिलॊत्तमे परार्थनीयेन रूपेण कुरु भद्रे परलॊभनम ॥ 18 ॥

  19. तवत्कृते दर्शनाद एव रूपसंपत कृतेन वै विरॊधः सयाद यथा ताभ्याम अन्यॊन्येन तथा कुरु ॥ 19 ॥

  20. [नारद] सा तथेति परतिज्ञाय नमस्कृत्य पितामहम चकार मण्डलं तत्र विबुधानां परदक्षिणम ॥ 20 ॥

  21. पराङ्मुखॊ भगवान आस्ते दक्षिणेन महेश्वरः ॥ 21 ॥

  22. देवाश चैवॊत्तरेणासन सर्वतस तव ऋषयॊ ऽभवन कुर्वन्त्या तु तया तत्र मण्डलं तत परदक्षिणम इन्द्रः सथाणुश च भगवान धैर्येण परत्यवस्थितौ ॥ 22 ॥

  23. दरष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस तदा अन्यद अञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम ॥ 23 ॥

  24. पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम गतायाश चॊत्तरं पार्श्वम उत्तरं निःसृतं मुखम ॥ 24 ॥

  25. महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतॊ ऽगरतः रक्तान्तानां विशालानां सहस्रं सर्वतॊ ऽभवत ॥ 25 ॥

  26. एवं चतुर्मुखः सथाणुर महादेवॊ ऽभवत पुरा तथा सहस्रनेत्रश च बभूव बलसूदनः ॥ 26 ॥

  27. तथा देव निकायानाम ऋषीणां चैव सर्वशः मुखान्य अभिप्रवर्तन्ते येन याति तिलॊत्तमा ॥ 27 ॥

  28. तस्या गात्रे निपतिता तेषां दृष्टिर महात्मनाम सर्वेषाम एव भूयिष्ठम ऋते देवं पितामहम ॥ 28 ॥

  29. गच्छन्त्यास तु तदा देवाः सर्वे च परमर्षयः कृतम इत्य एव तत कार्यं मेनिरे रूपसंपदा ॥ 29 ॥

  30. तिलॊत्तमायां तु तदा गतायां लॊकभावनः सर्वान विसर्जयाम आस देवान ऋषिगणांश च तान ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 204

Previous: अध्याय 202