[नारद] उत्सवे वृत्तमात्रे तु तरैलॊक्याकाङ्क्षिणाव उभौ मन्त्रयित्वा ततः सेनां ताव आज्ञापयतां तदा ॥ 1 ॥
सुहृद्भिर अभ्यनुज्ञातौ दैत्य वृद्धैश च मन्त्रिभिः कृत्वा परास्थानिकं रात्रौ मघासु ययतुस तदा ॥ 2 ॥
गदा पट्टिशधारिण्या शूलमुद्गर हस्तया परस्थितौ सहधर्मिण्या महत्या दैत्य सेनया ॥ 3 ॥
मङ्गलैः सतुतिभिश चापि विजयप्रतिसंहितैः चारणैः सतूयमानौ तु जग्मतुः परया मुदा ॥ 4 ॥
ताव अन्तरिक्षम उत्पत्य दैत्यौ कामगमाव उभौ देवानाम एव भवनं जग्मतुर युद्धदुर्मदौ ॥ 5 ॥
तयॊर आगमनं जञात्वा वरदानं च तत परभॊः हित्वा तरिविष्टपं जग्मुर बरह्मलॊकं ततः सुराः ॥ 6 ॥
तान इन्द्रलॊकं निर्जित्य यक्षरक्षॊगणांस तथा खेचराण्य अपि भूतानि जिग्यतुस तीव्रविक्रमौ ॥ 7 ॥
अन्तर भूमिगतान नागाञ जित्वा तौ च महासुरौ समुद्रवासिनः सर्वान मलेच्छ जातीन विजिग्यतुः ॥ 8 ॥
ततः सर्वां महीं जेतुम आरब्धाव उग्रशासनौ सैनिकांश च समाहूय सुतीक्ष्णां वाचम ऊचतुः ॥ 9 ॥
राजर्षयॊ महायज्ञैर हव्यकव्यैर दविजातयः तेजॊबलं च देवानां वर्धयन्ति शरियं तथा ॥ 10 ॥
तेषाम एवं परवृद्धानां सर्वेषाम असुरद्विषाम संभूय सर्वैर अस्माभिः कार्यः सर्वात्मना वधः ॥ 11 ॥
एवं सर्वान समादिश्य पूर्वतीरे महॊदधेः करूरां मतिं समास्थाय जग्मतुः सर्वतॊ मुखम ॥ 12 ॥
यज्ञैर यजन्ते ये के चिद याजनन्ति च ये दविजाः तान सर्वान परसभं दृष्ट्वा बलिनौ जघ्नतुस तदा ॥ 13 ॥
आश्रमेष्व अग्निहॊत्राणि ऋषीणां भावितात्मनाम गृहीत्वा परक्षिपन्त्य अप्सु विश्रब्धाः सैनिकास तयॊः ॥ 14 ॥
तपॊधनैश च ये शापाः करुद्धैर उक्ता महात्मभिः नाक्रामन्ति तयॊस ते ऽपि वरदानेन जृम्भतॊः ॥ 15 ॥
नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्व इव नियमांस तदा परित्यज्य वयद्रवन्त दविजातयः ॥ 16 ॥
पृथिव्यां ये तपःसिद्धा दान्ताः शम परायणाः तयॊर भयाद दुद्रुवुस ते वैनतेयाद इवॊरगाः ॥ 17 ॥
मथितैर आश्रमैर भग्नैर विकीर्णकलशस्रुवैः शून्यम आसीज जगत सर्वं कालेनेव हतं यथा ॥ 18 ॥
राजर्षिभिर अदृश्यद्भिर ऋषिभिश च महासुरौ उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ॥ 19 ॥
परभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ संलीनान अपि दुर्गेषु निन्यतुर यमसादनम ॥ 20 ॥
सिंहौ भूत्वा पुनर वयाघ्रौ पुनश चान्तर हिताव उभौ तैस तैर उपायैस तौ करूदाव ऋषीन दृष्ट्वा निजघ्नतुः ॥ 21 ॥
निवृत्तयज्ञस्वाध्याया परणष्टनृपतिद्विजा उत्सन्नॊत्सव यज्ञा च बभूव वसुधा तदा ॥ 22 ॥
हाहाभूता भयार्ता च निवृत्तविपणापणा निवृत्तदेवकार्या च पुण्यॊद्वाह विवर्जिता ॥ 23 ॥
निवृत्तकृषिगॊरक्षा विध्वस्तनगराश्रमा अस्थि कङ्काल संकीर्णा भूर बभूवॊग्र दर्शना ॥ 24 ॥
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम जगत परतिभयाकारं दुष्प्रेक्ष्यम अभवत तदा ॥ 25 ॥
चन्द्रादित्यौ गरहास तारा नक्षत्राणि दिवौकसः जग्मुर विषादं तत कर्म दृष्ट्वा सुन्दॊपसुन्दयॊः ॥ 26 ॥
एवं सर्वा दिशॊ दैत्यौ जित्वा करूरेण कर्मणा निःसपत्नौ कुरुक्षेत्रे निवेशम अभिचक्रमुः ॥ 27 ॥
आदिपर्व · Adi Parva
अध्याय 202
Reach this point to mark the section finished.
Continue to अध्याय 203