धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 201

  1. [नारद] शृणु मे विस्तरेणेमम इतिहासं पुरातनम भरातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर ॥ 1 ॥

  2. महासुरस्यान्ववाये हिरण्यकशिपॊः पुरा निकुम्भॊ नाम दैत्येन्द्रस तेजस्वी बलवान अभूत ॥ 2 ॥

  3. तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ सहान्यॊन्येन भुञ्जाते विनान्यॊन्यं न गच्छतः ॥ 3 ॥

  4. अन्यॊन्यस्य परियकराव अन्यॊन्यस्य परियंवदौ एकशीलसमाचारौ दविधैवैकं यथा कृतौ ॥ 4 ॥

  5. तौ विवृद्धौ महावीर्यौ कार्येष्व अप्य एकनिश्चयौ तरैलॊक्यविजयार्थाय समास्थायैक निश्चयम ॥ 5 ॥

  6. कृत्वा दीक्षां गतौ विन्ध्यं तत्रॊग्रं तेपतुस तपः तौ तु दीर्घेण कालेन तपॊ युक्तौ बभूवतुः ॥ 6 ॥

  7. कषुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ मलॊपचित सर्वाङ्गौ वायुभक्षौ बभूवतुः ॥ 7 ॥

  8. आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ॥ 8 ॥

  9. तयॊस तपः परभावेण दीर्घकालं परतापितः धूमं परमुमुचे विन्ध्यस तद अद्भुतम इवाभवत ॥ 9 ॥

  10. ततॊ देवाभवन भीता उग्रं दृष्ट्वा तयॊस तपः तपॊ विघातार्थम अथॊ देवा विघ्नानि चक्रिरे ॥ 10 ॥

  11. रत्नैः परलॊभयाम आसुः सत्रीभिश चॊभौ पुनः पुनः न च तौ चक्रतुर भङ्गं वरतस्य सुमहाव्रतौ ॥ 11 ॥

  12. अथ मायां पुनर देवास तयॊश चक्रुर महात्मनॊः भगिन्यॊ मातरॊ भार्यास तयॊः परिजनस तथा ॥ 12 ॥

  13. परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा सरस्ताभरण केशान्ता एकान्तभ्रष्टवाससः ॥ 13 ॥

  14. अभिधाव्य ततः सर्वास तौ तराहीति विचुक्रुशुः न च तौ चक्रतुर भङ्गं वरतस्य सुमहाव्रतौ ॥ 14 ॥

  15. यदा कषॊभं नॊपयाति नार्तिम अन्यतरस तयॊः ततः सत्रियस ता भूतं च सर्वम अन्तरधीयत ॥ 15 ॥

  16. ततः पिता महः साक्षाद अभिगम्य महासुरौ वरेण छन्दयाम आस सर्वलॊकपितामहः ॥ 16 ॥

  17. ततः सुन्दॊपसुन्दौ तौ भरातरौ दृढविक्रमौ दृष्ट्वा पितामहं देवं तस्थतुः पराञ्जलीतदा ॥ 17 ॥

  18. ऊचतुश च परभुं देवं ततस तौ सहितौ तदा आवयॊस तपसानेन यदि परीतः पितामहः ॥ 18 ॥

  19. मायाविदाव अस्त्रविदौ बलिनौ कामरूपिणौ उभाव अप्य अमरौ सयावः परसन्नॊ यदि नॊ परभुः ॥ 19 ॥

  20. [पितामह] ऋते ऽमरत्वम अन्यद वां सर्वम उक्तं भविष्यति अन्यद वृणीतां मृत्यॊश च विधानम अमरैः समम ॥ 20 ॥

  21. करिष्यावेदम इति यन महद अभ्युत्थितं तपः युवयॊर हेतुनानेन नामरत्वं विधीयते ॥ 21 ॥

  22. तरैलॊक्यविजयार्थाय भवद्भ्याम आस्थितं तपः हेतुनानेन दैत्येन्द्रौ न वां कामं करॊम्य अहम ॥ 22 ॥

  23. [सुन्दौपसुन्दाव] तरिषु लॊकेषु यद भूतं किं चित सथावरजङ्गमम सर्वस्मान नौ भयं न सयाद ऋते ऽनयॊन्यं पितामह ॥ 23 ॥

  24. [पितामह] यत परार्थितं यथॊक्तं च कामम एतद ददानि वाम मृत्यॊर विधानम एतच च यथावद वां भविष्यति ॥ 24 ॥

  25. [नारद] ततः पितामहॊ दात्त्वा वरम एतत तदा तयॊः निवर्त्य तपसस तौ च बरह्मलॊकं जगाम ह ॥ 25 ॥

  26. लब्ध्वा वराणि सर्वाणि दैत्येन्द्राव अपि ताव उभौ अवध्यौ सर्वलॊकस्य सवम एव भवनं गतौ ॥ 26 ॥

  27. तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ सर्वः सुहृज्जनस ताभ्यां परमॊदम उपजग्मिवान ॥ 27 ॥

  28. ततस तौ तु जटा हित्वा मौलिनौ संबभूवतुः महार्हाभरणॊपेतौ विरजॊऽमबरधारिणौ ॥ 28 ॥

  29. अकालकौमुदीं चैव चक्रतुः सार्वकामिकी दैत्येन्द्रौ परमप्रीतौ तयॊश चैव सुहृज्जनः ॥ 29 ॥

  30. भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयताम इति पीयतां दीयतां चेति वाच आसन गृहे गृहे ॥ 30 ॥

  31. तत्र तत्र महापानैर उत्कृष्टतलनादितैः हृष्टं परमुदितं सर्वं दैत्यानाम अभवत पुरम ॥ 31 ॥

  32. तैस तैर विहारैर बहुभिर दैत्यानां कामरूपिणाम समाः संक्रीडतां तेषाम अहर एकम इवाभवत ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 202

Previous: अध्याय 200