[ज] एवं संप्राप्य राज्यं तद इन्द्रप्रस्थे तपॊधन अत ऊर्ध्वं महात्मानः किम अकुर्वन्त पाण्डवाः ॥ 1 ॥
सर्व एव महात्मानः पूर्वे मम पितामहाः दरौपदी धर्मपत्नी च कथं तान अन्ववर्तत ॥ 2 ॥
कथं वा पञ्च कृष्णायाम एकस्यां ते नराधिपाः वर्तमाना महाभागा नाभिद्यन्त परस्परम ॥ 3 ॥
शरॊतुम इच्छाम्य अहं सर्वं विस्तरेण तपॊधन तेषां चेष्टितम अन्यॊन्यं युक्तानां कृष्णया तया ॥ 4 ॥
[वै] धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः रेमिरे पुरुषव्याघ्राः पराप्तराज्याः परंतपाः ॥ 5 ॥
पराप्य राज्यं महातेजाः सत्यसंधॊ युधिष्ठिरः पालयाम आस धर्मेण पृथिवीं भरातृभिः सह ॥ 6 ॥
जितारयॊ महाप्राज्ञाः सत्यधर्मपरायणाः मुदं परमिकां पराप्तास तत्रॊषुः पाण्डुनन्दनाः ॥ 7 ॥
कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः आसां चक्रुर महार्हेषु पार्थिवेष्व आसनेषु च ॥ 8 ॥
अथ तेषूपविष्टेषु सर्वेष्व एव महात्मसु नारदस तव अथ देवर्षिर आजगाम यदृच्छया आसनं रुचिरं तस्मै परददौ सवं युधिष्ठिरः ॥ 9 ॥
देवर्षेर उपविष्टस्य सवयम अर्घ्यं यथाविधि परादाद युधिष्ठिरॊ धीमान राज्यं चास्मै नयवेदयत ॥ 10 ॥
परतिगृह्य तु तां पूजाम ऋषिः परीतमनाभवत आशीर्भिर वर्धयित्वा तु तम उवाचास्यताम इति ॥ 11 ॥
निषसादाभ्यनुज्ञातस ततॊ राजा युधिष्ठिरः परेषयाम आस कृष्णायै भगवन्तम उपस्थितम ॥ 12 ॥
शरुत्वैव दरौपदी चापि शुचिर भूत्वा समाहिता जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ॥ 13 ॥
तस्याभिवाद्य चरणौ देवर्षेर धर्मचारिणी कृताञ्जलिः सुसंवीता सथिताथ दरुपदात्मजा ॥ 14 ॥
तस्याश चापि स धर्मात्मा सत्यवाग ऋषिसत्तमः आशिषॊ विविधाः परॊच्य राजपुत्र्यास तु नारदः गम्यताम इति हॊवाच भगवांस ताम अनिन्दिताम ॥ 15 ॥
गतायाम अथ कृष्णायां युधिष्ठिरपुरॊगमान विविक्ते पाण्डवान सर्वान उवाच भगवान ऋषिः ॥ 16 ॥
पाञ्चाली भवताम एका धर्मपत्नी यशस्विनी यथा वॊ नात्र भेदः सयात तथा नीतिर विधीयताम ॥ 17 ॥
सुन्दॊपसुन्दाव असुरौ भरातरौ सहिताव उभौ आस्ताम अवध्याव अन्येषां तरिषु लॊकेषु विश्रुतौ ॥ 18 ॥
एकराज्याव एकगृहाव एकशय्यासनाशनौ तिलॊत्तमायास तौ हेतॊर अन्यॊन्यम अभिजघ्नतुः ॥ 19 ॥
रक्ष्यतां सौह्रदं तस्माद अन्यॊन्यप्रतिभाविकम यथा वॊ नात्र भेदः सयात तत कुरुष्व युधिष्ठिर ॥ 20 ॥
[य] सुन्दॊपसुन्दाव असुरौ कस्य पुत्रौ महामुने उत्पन्नश च कथं भेदः कथं चान्यॊन्यम अघ्नताम ॥ 21 ॥
अप्सरा देवकन्या वा कस्य चैषा तिलॊत्तमा यस्याः कामेन संमत्तौ जघ्नतुस तौ परस्परम ॥ 22 ॥
एतत सर्वं यथावृत्तं विस्तरेण तपॊधन शरॊतुम इच्छामहे विप्र परं कौतूहलं हि नः ॥ 23 ॥
आदिपर्व · Adi Parva
अध्याय 200
Reach this point to mark the section finished.
Continue to अध्याय 201