धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 199

  1. [दरुपद] एवम एतन महाप्राज्ञ यथात्थ विदुराद्य माम ममापि परमॊ हर्षः संबन्धे ऽसमिन कृते विभॊ ॥ 1 ॥

  2. गमनं चापि युक्तं सयाद गृहम एषां महात्मनाम न तु तावन मया युक्तम एतद वक्तुं सवयं गिरा ॥ 2 ॥

  3. यदा तु मन्यते वीरः कुन्तीपुत्रॊ युधिष्ठिरः भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ॥ 3 ॥

  4. राम कृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः एतौ हि पुरुषव्याघाव एषां परियहिते रतौ ॥ 4 ॥

  5. [य] परवन्तॊ वयं राजंस तवयि सर्वे सहानुगाः यथा वक्ष्यसि नः परीत्या करिष्यामस तथा वयम ॥ 5 ॥

  6. [वै] ततॊ ऽबरवीद वासुदेवॊ गमनं मम रॊचते यथा वा मन्यते राजा दरुपदः सर्वधर्मवित ॥ 6 ॥

  7. [दरुपद] यथैव मन्यते वीरॊ दाशार्हः पुरुषॊत्तमः पराप्तकालं महाबाहुः सा बुद्धिर निश्चिता मम ॥ 7 ॥

  8. यथैव हि महाभागाः कौन्तेया मम सांप्रतम तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ॥ 8 ॥

  9. न तद धयायति कौन्तेयॊ धर्मपुत्रॊ युधिष्ठिरः यद एषां पुरुषव्याघ्रः शरेयॊ धयायति केशवः ॥ 9 ॥

  10. [वै] ततस ते समनुज्ञाता दरुपदेन महात्मना पाण्डवाश चैव कृष्णश च विदुरश च महामतिः ॥ 10 ॥

  11. आदाय दरौपदीं कृष्णां कुन्तीं चैव यशस्विनीम सविहारं सुखं जग्मुर नगरं नागसाह्वयम ॥ 11 ॥

  12. शरुत्वा चॊपस्थितान वीरान धृतराष्ट्रॊ ऽपि कौरवः परतिग्रहाय पाण्डूनां परेषयाम आस कौरवान ॥ 12 ॥

  13. विकर्णं च महेष्वासं चित्रसेनं च भारत दरॊणं च परमेष्वासं गौतमं कृपम एव च ॥ 13 ॥

  14. तैस ते परिवृता वीराः शॊभमाना महारथाः नगरं हास्तिनपुरं शनैः परविविशुस तदा ॥ 14 ॥

  15. कौतूहलेन नगरं दीर्यमाणम इवाभवत यत्र ते पुरुषव्याघ्राः शॊकदुःखविनाशनाः ॥ 15 ॥

  16. तत उच्चावचा वाचः परियाः परियचिकीर्षुभिः उदीरिता अशृण्वंस ते पाण्डवा हृदयंगमाः ॥ 16 ॥

  17. अयं स पुरुषव्याघ्रः पुनर आयाति धर्मवित यॊ नः सवान इव दायादान धर्मेण परिरक्षति ॥ 17 ॥

  18. अद्य पाण्डुर महाराजॊ वनाद इव वनप्रियः आगतः परियम अस्माकं चिकीर्षुर नात्र संशयः ॥ 18 ॥

  19. किं नु नाद्य कृतं तावत सर्वेषां नः परं परियम यन नः कुन्तीसुता वीरा भर्तारः पुनरागताः ॥ 19 ॥

  20. यदि दत्तं यदि हुतं विद्यते यदि नस तपः तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम ॥ 20 ॥

  21. ततस ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः अन्येषां च तद अर्हाणां चक्रुः पादाभिवन्दनम ॥ 21 ॥

  22. कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात ॥ 22 ॥

  23. विश्रान्तास ते महात्मानः कं चित कालं महाबलाः आहूता धृतराष्ट्रेण राज्ञा शांतनवेन च ॥ 23 ॥

  24. [धृ] भरातृभिः सह कौन्तेय निबॊधेदं वचॊ मम पुनर वॊ विग्रहॊ मा भूत खाण्डव परस्थम आविश ॥ 24 ॥

  25. न च वॊ वसतस तत्र कश चिच छक्तः परबाधितुम संरक्ष्यमाणान पार्थेन तरिदशान इव वज्रिणा अर्धं राज्यस्य संप्राप्य खाण्डव परस्थम आविश ॥ 25 ॥

  26. [वै] परतिगृह्य तु तद वाक्यं नृपं सर्वे परणम्य च परतस्थिरे ततॊ घॊरं वनं तन मनुजर्षभाः अर्धं राज्यस्य संप्राप्य खाण्डव परस्थम आविशन ॥ 26 ॥

  27. ततस ते पाण्डवास तत्र गत्वा कृष्ण पुरॊगमाः मण्डयां चक्रिरे तद वै पुरं सवर्गवद अच्युताः ॥ 27 ॥

  28. ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः नगरं मापयाम आसुर दवैपायन पुरॊगमाः ॥ 28 ॥

  29. सागरप्रतिरूपाभिः परिखाभिर अलंकृतम पराकरेण च संपन्नं दिवम आवृत्य तिष्ठता ॥ 29 ॥

  30. पाण्डुराभ्रप्रकाशेन हिमराशि निभेन च शुशुभे तत पुरश्रेष्ठं नागैर भॊगवती यथा ॥ 30 ॥

  31. दविपक्षगरुड परख्यैर दवारैर घॊरप्रदर्शनैः गुप्तम अभ्रचय परख्यैर गॊपुरैर मन्दरॊपमैः ॥ 31 ॥

  32. विविधैर अतिनिर्विद्धैः शस्त्रॊपेतैः सुसंवृतैः शक्तिभिश चावृतं तद धि दविजिह्वैर इव पन्नगैः तल्पैश चाभ्यासिकैर युक्तं शुशुभे यॊधरक्षितम ॥ 32 ॥

  33. तीक्ष्णाङ्कुश शतघ्नीभिर यन्त्रजालैश च शॊभितम आयसैश च महाचक्रैः शुशुभे तत पुरॊत्तमम ॥ 33 ॥

  34. सुविभक्तमहारथ्यं देवता बाध वर्जितम विरॊचमानं विविधैः पाण्डुरैर भवनॊत्तमैः ॥ 34 ॥

  35. तन्त्रिविष्टप संकाशम इन्द्रप्रस्थं वयरॊचत मेघविन्दम इवाकाशे वृद्धं विद्युत समावृतम ॥ 35 ॥

  36. तत्र रम्ये शुभे देशे कौरवस्य निवेशनम शुशुभे धनसंपूर्णं धनाध्यक्षक्षयॊपमम ॥ 36 ॥

  37. तत्रागच्छन दविजा राजन सर्ववेदविदां वराः निवासं रॊचयन्ति सम सर्वभाषाविदस तथा ॥ 37 ॥

  38. वणिजश चाभ्ययुस तत्र देशे दिग्भ्यॊ धनार्थिनः सर्वशिल्पविदश चैव वासायाभ्यागमंस तदा ॥ 38 ॥

  39. उद्यानानि च रम्याणि नगरस्य समन्ततः आम्रैर आम्रातकैर नीपैर अशॊकैश चम्पकैस तथा ॥ 39 ॥

  40. पुंनागैर नागपुष्पैश च लकुचैः पनसैस तथा शालतालकदम्बैश च बकुलैश च सकेतकैः ॥ 40 ॥

  41. मनॊहरैः पुष्पितैश च फलभारावनामितैः पराचीनामलकैर लॊध्रैर अङ्कॊलैश च सुपुष्पितैः ॥ 41 ॥

  42. जम्बूभिः पाटलाभिश च कुब्जकैर अतिमुक्तकैः करवीरैः पारिजातैर अन्यैश च विविधैर दरुमैः ॥ 42 ॥

  43. नित्यपुष्पफलॊपेतैर नानाद्विज गणायुतम मत्तबर्हिण संघुष्टं कॊकिलैश च सदा मदैः ॥ 43 ॥

  44. गृहैर आदर्शविमलैर विविधैश च लतागृहैः मनॊहरैश चित्रगृहैस तथा जगति पर्वतैः वापीभिर विविधाभिश च पूर्णाभिः परमाम्भसा ॥ 44 ॥

  45. सरॊभिर अतिरम्यैश च पद्मॊत्पलसुगन्धिभिः हंसकारण्डव युतैश चक्रवाकॊपशॊभितैः ॥ 45 ॥

  46. रम्याश च विविधास तत्र पुष्करिण्यॊ वनावृताः तडागानि च रम्याणि बृहन्ति च महान्ति च ॥ 46 ॥

  47. तेषां पुण्यजनॊपेतं राष्ट्रम आवसतां महत पाण्डवानां महाराज शश्वत परीतिर अवर्धत ॥ 47 ॥

  48. तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते पाण्डवाः समपद्यन्त खाण्डव परस्थवासिनः ॥ 48 ॥

  49. पञ्चभिस तैर महेष्वासैर इन्द्रकल्पैः समन्वितम शुशुभे तत पुरश्रेष्ठं नागैर भॊगवती यथा ॥ 49 ॥

  50. तान निवेश्य ततॊ वीरॊ रामेण सह केशवः ययौ दवारवतीं राजन पाण्डवानुमते तदा ॥ 50 ॥

Reach this point to mark the section finished.

Continue to अध्याय 200

Previous: अध्याय 198