[सू] तं समुद्रम अतिक्रम्य कद्रूर विनतया सह नयपतत तुरगाभ्याशे नचिराद इव शीघ्रगा ॥ 1 ॥
निशाम्य च बहून वालान कृष्णान पुच्छं समाश्रितान विनतां विषण्णवदनां कद्रूर दास्ये नययॊजयत ॥ 2 ॥
ततः सा विनता तस्मिन पणितेन पराजिता अभवद दुःखसंतप्ता दासी भावं समास्थिता ॥ 3 ॥
एतस्मिन्न अन्तरे चैव गरुडः काल आगते विना मात्रा महातेजा विदार्याण्डम अजायत ॥ 4 ॥
अग्निराशिर इवॊद्भासन समिद्धॊ ऽति भयंकरः परवृद्धः सहसा पक्षी महाकायॊ नभॊगतः ॥ 5 ॥
तं दृष्ट्वा शरणं जग्मुः परजाः सर्वा विभावसुम परणिपत्याब्रुवंश चैनम आसीनं विश्वरूपिणम ॥ 6 ॥
अग्ने मा तवं परवर्धिष्ठाः कच चिन नॊ न दिधक्षसि असौ हि राशिः सुमहान समिद्धस तव सर्पति ॥ 7 ॥
[आ] नैतद एवं यथा यूयं मन्यध्वम असुरार्दनाः गरुडॊ बलवान एष मम तुल्यः सवतेजसा ॥ 8 ॥
[सू] एवम उक्तास तगॊ गत्वा गरुडं वाग्भिर अस्तुवन अदूराद अभ्युपेत्यैनं देवाः सर्षिगणास तदा ॥ 9 ॥
तवम ऋषिस तवं महाभागस तवं देवः पतगेश्वरः तवं परभुस तपन परख्यस तवं नस तराणम अनुत्तमम ॥ 10 ॥
बलॊर्मिमान साधुर अदीनसत्त्वः; समृद्धिमान दुष्प्रसहस तवम एव तपः शरुतं सर्वम अहीन कीर्ते; अनागतं चॊपगतं च सर्वम ॥ 11 ॥
तवम उत्तमः सर्वम इदं चराचरं; गभस्तिभिर भानुर इवावभाससे समाक्षिपन भानुमतः परभां मुहुस; तवम अन्तकः सर्वम इदं धरुवाध्रुवम ॥ 12 ॥
दिवाकरः परिकुपितॊ यथा दहेत; परजास तथा दहसि हुताशनप्रभ भयंकरः परलय इवाग्निर उत्थितॊ; विनाशयन युगपरिवर्तनान्त कृत ॥ 13 ॥
सवगेश्वरं शरणम उपस्थिता वयं; महौजसं वितिमिरम अभ्रगॊचरम महाबलं गरुडम उपेत्य खेचरं; परावरं वरदम अजय्य विक्रमम ॥ 14 ॥
एवं सतुतः सुपर्णस तु देवैः सर्षिगणैस तदा तेजसः परतिसंहारम आत्मनः स चकार ह ॥ 15 ॥
आदिपर्व · Adi Parva
अध्याय 20
Reach this point to mark the section finished.
Continue to अध्याय 21