[सू] ततॊ रजन्यां वयुष्टायां परभात उदिते रवौ कद्रूश च विनता चैव भगिन्यौ ते तपॊधन ॥ 1 ॥
अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा जग्मतुस तुरगं दरष्टुम उच्छैः शरवसम अन्तिकात ॥ 2 ॥
ददृशाते तदा तत्र समुद्रं निधिम अम्भसाम तिमिंगिलझषाकीर्णं मकरैर आवृतं तथा ॥ 3 ॥
सत्त्वैश च बहुसाहस्रैर नानारूपैः समावृतम उग्रैर नित्यम अनाधृष्यं कूर्मग्राहसमाकुलम ॥ 4 ॥
आकरं सर्वरत्नानाम आलयं वरुणस्य च नागानाम आलयं रम्यम उत्तमं सरितां पतिम ॥ 5 ॥
पातालज्वलनावासम असुराणां च बन्धनम भयंकरं च सत्त्वानां पयसां निधिम अर्णवम ॥ 6 ॥
शुभं दिव्यम अमर्त्यानाम अमृतस्याकरं परम अप्रमेयम अचिन्त्यं च सुपुण्य जलम अद्भुतम ॥ 7 ॥
घॊरं जलचराराव रौद्रं भैरवनिस्वनम गम्भीरावर्त कलिलं सर्वभूतभयंकरम ॥ 8 ॥
वेलादॊलानिल चलं कषॊभॊद्वेग समुत्थितम वीचीहस्तैः परचलितैर नृत्यन्तम इव सर्वशः ॥ 9 ॥
चन्द्र वृद्धिक्षयवशाद उद्वृत्तॊर्मि दुरासदम पाञ्चजन्यस्य जननं रत्नाकरम अनुत्तमम ॥ 10 ॥
गां विन्दता भगवता गॊविन्देनामितौजसा वराहरूपिणा चान्तर विक्षॊभित जलाविलम ॥ 11 ॥
बरह्मर्षिणा च तपता वर्षाणां शतम अत्रिणा अनासादित गाधं च पातालतलम अव्ययम ॥ 12 ॥
अध्यात्मयॊगनिद्रां च पद्मनाभस्य सेवतः युगादि कालशयनं विष्णॊर अमिततेजसः ॥ 13 ॥
वडवामुखदीप्ताग्नेस तॊयहव्यप्रदं शुभम अगाध पारं विस्तीर्णम अप्रमेयं सरित्पतिम ॥ 14 ॥
महानदीभिर बह्वीभिः सपर्धयेव सहस्रशः अभिसार्यमाणम अनिशं ददृशाते महार्णवम ॥ 15 ॥
गम्भीरं तिमिमकरॊग्र संकुलं तं; गर्जन्तं जलचर राव रौद्रनादैः विस्तीर्णं ददृशतुर अम्बरप्रकाशं; ते ऽगाधं निधिम उरुम अम्भसाम अनन्तम ॥ 16 ॥
इत्य एवं झषमकरॊर्मि संकुलं तं; गम्भीरं विकसितम अम्बरप्रकाशम पातालज्वलनशिखा विदीपितं तं; पश्यन्त्यौ दरुतम अभिपेततुस तदानीम ॥ 17 ॥
आदिपर्व · Adi Parva
अध्याय 19
Reach this point to mark the section finished.
Continue to अध्याय 20