[सू] ततः कामगमः पक्षी महावीर्यॊ महाबलः मातुर अन्तिकम आगच्छत परं तीरं महॊदधेः ॥ 1 ॥
यत्र सा विनता तस्मिन पणितेन पराजिता अतीव दुःखसंतप्ता दासी भावम उपागता ॥ 2 ॥
ततः कदा चिद विनतां परवणां पुत्र संनिधौ काल आहूय वचनं कद्रूर इदम अभाषत ॥ 3 ॥
नागानाम आलयं भद्रे सुरम्यं रमणीयकम समुद्रकुक्षाव एकान्ते तत्र मां विनते वह ॥ 4 ॥
ततः सुपर्णमाता ताम अवहत सर्पमातरम पन्नगान गरुडश चापि मातुर वचनचॊदितः ॥ 5 ॥
स सूर्यस्याभितॊ याति वैनतेयॊ विहंगमः सूर्यरश्मि परीताश च मूर्च्छिताः पन्नगाभवन तदवस्थान सुतान दृष्ट्वा कद्रूः शक्रम अथास्तुवत ॥ 6 ॥
नमस ते देवदेवेश नमस ते बलसूदन नमुचिघ्न नमस ते ऽसतु सहस्राक्ष शचीपते ॥ 7 ॥
सर्पाणां सूर्यतप्तानां वारिणा तवं पलवॊ भव तवम एव परमं तराणम अस्माकम अमरॊत्तम ॥ 8 ॥
ईशॊ हय असि पयः सरष्टुं तवम अनल्पं पुरंदर तवम एव मेघस तवं वायुस तवम अग्निर वैद्युतॊ ऽमबरे ॥ 9 ॥
तवम अभ्रघनविक्षेप्ता तवाम एवाहुर पुनर घनम तवं वज्रम अतुलं घॊरं घॊषवांस तवं बलाहकः ॥ 10 ॥
सरष्टा तवम एव लॊकानां संहर्ता चापराजितः तवं जयॊतिः सर्वभूतानां तवम आदित्यॊ विभावसुः ॥ 11 ॥
तवं महद भूतम आश्चर्यं तवं राजा तवं सुरॊत्तमः तवं विष्णुस तवं सहस्राक्षस तवं देवस तवं परायणम ॥ 12 ॥
तवं सर्वम अमृतं देव तवं सॊमः परमार्चितः तवं मुहूर्तस तिथिश च तवं लवस तवं वै पुनः कषण ॥ 13 ॥
शुक्लस तवं बहुलश चैव कला काष्ठा तरुटिस तथा संवत्सरर्षवॊ मासा रजन्यश च दिनानि च ॥ 14 ॥
तवम उत्तमा सगिरि वना वसुंधरा; सभास्करं वितिमिरम अम्बरं तथा महॊदधिः सतिमि तिमिंगिलस तथा; महॊर्मिमान बहु मकरॊ झषालयः ॥ 15 ॥
महद यशस तवम इति सदाभिपूज्यसे; मनीषिभिर मुदितमना महर्षिभिः अभिष्टुतः पिबसि च सॊमम अध्वरे; वषट कृतान्य अपि च हवींषि भूतये ॥ 16 ॥
तवं विप्रैः सततम इहेज्यसे फलार्थं; वेदाङ्गेष्व अतुलबलौघ गीयसे च तवद धेतॊर यजन परायणा दविजेन्द्रा; वेदाङ्गान्य अभिगमयन्ति सर्ववेदैः ॥ 17 ॥
आदिपर्व · Adi Parva
अध्याय 21
Reach this point to mark the section finished.
Continue to अध्याय 22