धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 198

  1. [धृ] भीष्मः शांतनवॊ विद्वान दरॊणश च भगवान ऋषिः हितं परमकं वाक्यं तवं च सत्यं बरवीषि माम ॥ 1 ॥

  2. यथैव पाण्डॊस ते वीराः कुन्तीपुत्रा महारथाः तथैव धर्मतः सर्वे मम पुत्रा न संशयः ॥ 2 ॥

  3. यथैव मम पुत्राणाम इदं राज्यं विधीयते तथैव पाण्डुपुत्राणाम इदं राज्यं न संशयः ॥ 3 ॥

  4. कषत्तर आनय गच्छैतान सह मात्रा सुसत्कृतान तया च देवरूपिण्या कृष्णया सह भारत ॥ 4 ॥

  5. दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा दिष्ट्या दरुपद कन्यां च लब्धवन्तॊ महारथाः ॥ 5 ॥

  6. दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरॊचनः दिष्ट्या मम परं दुःखम अपनीतं महाद्युते ॥ 6 ॥

  7. [वै] ततॊ जगाम विदुरॊ धृतराष्ट्रस्य शासनात सकाशं यज्ञसेनस्य पाण्डवानां च भारत ॥ 7 ॥

  8. तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः दरुपदं नयायतॊ राजन संयुक्तम उपतस्थिवान ॥ 8 ॥

  9. स चापि परतिजग्राह धर्मेण विदुरं ततः चक्रतुश च यथान्यायं कुशलप्रश्न संविदम ॥ 9 ॥

  10. ददर्श पाण्डवांस तत्र वासुदेवं च भारत सनेहात परिष्वज्य स तान पप्रच्छानामयं ततः ॥ 10 ॥

  11. तैश चाप्य अमितबुद्धिः स पूजितॊ ऽथ यथाक्रमम वचनाद धृतराष्ट्रस्य सनेहयुक्तं पुनः पुनः ॥ 11 ॥

  12. पप्रच्छानामयं राजंस ततस तान पाण्डुनन्दनान परददौ चापि रत्नानि विविधानि वसूनि च ॥ 12 ॥

  13. पाण्डवानां च कुन्त्याश च दरौपद्याश च विशां पते दरुपदस्य च पुत्राणां यथादत्तानि कौरवैः ॥ 13 ॥

  14. परॊवाच चामितमतिः परश्रितं विनयान्वितः दरुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च ॥ 14 ॥

  15. राजञ शृणु सहामात्यः सपुत्रश च वचॊ मम धृतराष्ट्रः सपुत्रस तवां सहामात्यः सबान्धवः ॥ 15 ॥

  16. अब्रवीत कुशलं राजन परीयमाणः पुनः पुनः परीतिमांस ते दृढं चापि संबन्धेन नराधिप ॥ 16 ॥

  17. तथा भीष्मः शांतनवः कौरवैः सह सर्वशः कुशलं तवां महाप्राज्ञः सर्वतः परिपृच्छति ॥ 17 ॥

  18. भारद्वाजॊ महेष्वासॊ दरॊणः परियसखस तव समाश्लेषम उपेत्य तवां कुशलं परिपृच्छति ॥ 18 ॥

  19. धृतराष्ट्रश च पाञ्चाल्य तवया संबन्धम ईयिवान कृतार्थं मन्यत आत्मानं तथा सर्वे ऽपि कौरवाः ॥ 19 ॥

  20. न तथा राज्यसंप्राप्तिस तेषां परीतिकरी मता यथा संबन्धकं पराप्य यज्ञसेन तवया सह ॥ 20 ॥

  21. एतद विदित्वा तु भवान परस्थापयतु पाण्डवान दरष्टुं हि पाण्डुदायादांस तवरन्ते कुरवॊ भृशम ॥ 21 ॥

  22. विप्रॊषिता दीर्घकालम इमे चापि नरर्षभाः उत्सुका नगरं दरष्टुं भविष्यन्ति पृथा तथा ॥ 22 ॥

  23. कृष्णाम अपि च पाञ्चालीं सर्वाः कुरु वरस्त्रियः दरष्टुकामाः परतीक्षन्ते पुरं च विषयं च नः ॥ 23 ॥

  24. स भवान पाण्डुपुत्राणाम आज्ञापयतु माचिरम गमनं सहदाराणाम एतद आगमनं मम ॥ 24 ॥

  25. विसृष्टेषु तवया राजन पाण्डवेषु महात्मसु ततॊ ऽहं परेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 199

Previous: अध्याय 197