धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 197

  1. [विदुर] राजन निःसंशयं शरेयॊ वाच्यस तवम असि बान्धवैः न तव अशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति ॥ 1 ॥

  2. हितं हि तव तद वाक्यम उक्तवान कुरुसत्तमः भीष्मः शांतनवॊ राजन परतिगृह्णासि तन न च ॥ 2 ॥

  3. तथा दरॊणेन बहुधा भाषितं हितम उत्तमम तच च राधा सुतः कर्णॊ मन्यते न हितं तव ॥ 3 ॥

  4. चिन्तयंश च न पश्यामि राजंस तव सुहृत्तमम आभ्यां पुरुषसिंहाभ्यां यॊ वा सयात परज्ञयाधिकः ॥ 4 ॥

  5. इमौ हि वृद्धौ वयसा परज्ञया च शरुतेन च समौ च तवयि राजेन्द्र तेषु पाण्डुसुतेषु च ॥ 5 ॥

  6. धर्मे चानवमौ राजन सत्यतायां च भारत रामाद दाशरथेश चैव गयाच चैव न संशयः ॥ 6 ॥

  7. न चॊक्तवन्ताव अश्रेयः पुरस्ताद अपि किं चन न चाप्य अपकृतं किं चिद अनयॊर लक्ष्यते तवयि ॥ 7 ॥

  8. ताव इमौ पुरुषव्याघ्राव अनागसि नृप तवयि न मन्त्रयेतां तवच छरेयः कथं सत्यपराक्रमौ ॥ 8 ॥

  9. परज्ञावन्तौ नरश्रेष्ठाव अस्मिँल लॊके नराधिप तवन्निमित्तम अतॊ नेमौ किं चिज जिह्मं वदिष्यतः इति मे नैष्ठिकी बुद्धिर वर्तते कुरुनन्दन ॥ 9 ॥

  10. न चार्थहेतॊर धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम एतद धि परमं शरेयॊ मेनाते तव भारत ॥ 10 ॥

  11. दुर्यॊधनप्रभृतयः पुत्रा राजन यथा तव तथैव पाण्डवेयास ते पुत्रा राजन न संशयः ॥ 11 ॥

  12. तेषु चेद अहितं किं चिन मन्त्रयेयुर अबुद्धितः मन्त्रिणस ते न ते शरेयः परपश्यन्ति विशेषतः ॥ 12 ॥

  13. अथ ते हृदयं राजन विशेषस तेषु वर्तते अन्तरस्थं विवृण्वानाः शरेयः कुर्युर न ते धरुवम ॥ 13 ॥

  14. एतदर्थम इमौ राजन महात्मानौ महाद्युती नॊचतुर विवृतं किं चिन न हय एष तव निश्चयः ॥ 14 ॥

  15. यच चाप्य अशक्यतां तेषाम आहतुः पुरुषर्षभौ तत तथा पुरुषव्याघ्र तव तद भद्रम अस्तु ते ॥ 15 ॥

  16. कथं हि पाण्डवः शरीमान सव्यसाची परंतपः शक्यॊ विजेतुं संग्रामे राजन मघवता अपि ॥ 16 ॥

  17. भीमसेनॊ महाबाहुर नागायुत बलॊ महान कथं हि युधि शक्येत विजेतुम अमरैर अपि ॥ 17 ॥

  18. तथैव कृतिनौ युद्धे यमौ यम सुताव इव कथं विषहितुं शक्यौ रणे जीवितुम इच्छता ॥ 18 ॥

  19. यस्मिन धृतिर अनुक्रॊशः कषमा सत्यं पराक्रमः नित्यानि पाण्डवश्रेष्ठे स जीयेत कथं रणे ॥ 19 ॥

  20. येषां पक्षधरॊ रामॊ येषां मन्त्री जनार्दनः किं नु तैर अजितं संख्ये येषां पक्षे च सात्यकिः ॥ 20 ॥

  21. दरुपदः शवशुरॊ येषां येषां शयालाश च पार्षताः धृष्टद्युम्नमुखा वीरा भरातरॊ दरुपदात्मजाः ॥ 21 ॥

  22. सॊ ऽशक्यतां च विज्ञाय तेषाम अग्रेण भारत दायाद्यतां च धर्मेण सम्यक तेषु समाचर ॥ 22 ॥

  23. इदं निर्दग्धम अयशः पुरॊचन कृतं महत तेषाम अनुग्रहेणाद्य राजन परक्षालयात्मनः ॥ 23 ॥

  24. दरुपदॊ ऽपि महान राजा कृतवैरश च नः पुरा तस्य संग्रहणं राजन सवपक्षस्य विवर्धनम ॥ 24 ॥

  25. बलवन्तश च दाशार्हा बहवश च विशां पते यतः कृष्णस ततस ते सयुर यतः कृष्णस ततॊ जयः ॥ 25 ॥

  26. यच च साम्नैव शक्येत कार्यं साधयितुं नृप कॊ दैवशप्तस तत कार्तुं विग्रहेण समाचरेत ॥ 26 ॥

  27. शरुत्वा च जीवतः पार्थान पौरजानपदॊ जनः बलवद दर्शने गृध्नुस तेषां राजन कुरु परियम ॥ 27 ॥

  28. दुर्यॊधनश च कर्णश च शकुनिश चापि सौबलः अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः ॥ 28 ॥

  29. उक्तम एतन मया राजन पुरा गुणवतस तव दुर्यॊधनापराधेन परजेयं विनशिष्यति ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 198

Previous: अध्याय 196