धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 196

  1. [दरॊण] मन्त्राय समुपानीतैर धृतराष्ट्र हितैर नृप धर्म्यं पथ्यं यशस्यं च वाच्यम इत्य अनुशुश्रुमः ॥ 1 ॥

  2. ममाप्य एषा मतिस तात या भीष्मस्य महात्मनः संविभज्यास तु कौन्तेया धर्म एष सनातनः ॥ 2 ॥

  3. परेष्यतां दरुपदायाशु नरः कश चित परियंवदः बहुलं रत्नम आदाय तेषाम अर्थाय भारत ॥ 3 ॥

  4. मिथः कृत्यं च तस्मै स आदाय बहु गच्छतु वृद्धिं च परमां बरूयात तत संयॊगॊद्भवां तथा ॥ 4 ॥

  5. संप्रीयमाणं तवां बरूयाद राजन दूर्यॊधनं तथा असकृद दरुपदे चैव धृष्टद्युम्ने च भारत ॥ 5 ॥

  6. उचितत्वं परियत्वं च यॊगस्यापि च वर्णयेत पुनः पुनश च कौन्तेयान माद्रीपुत्रौ च सान्त्वयन ॥ 6 ॥

  7. हिरण्मयानि शुभ्राणि बहून्य आभरणानि च वचनात तव राजेन्द्र दरौपद्याः संप्रयच्छतु ॥ 7 ॥

  8. तथा दरुपदपुत्राणां सर्वेषां भरतर्षभ पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च ॥ 8 ॥

  9. एवं सान्त्वसमायुक्तं दरुपदं पाण्डवैः सह उक्त्वाथानन्तरं बरूयात तेषाम आगमनं परति ॥ 9 ॥

  10. अनुज्ञातेषु वीरेषु बलं गच्छतु शॊभनम दुःशासनॊ विकर्णश च पाण्डवान आनयन्त्व इह ॥ 10 ॥

  11. ततस ते पार्थिवश्रेष्ठ पूज्यमानाः सदा तवया परकृतीनाम अनुमते पदे सथास्यन्ति पैतृके ॥ 11 ॥

  12. एवं तव महाराज तेषु पुत्रेषु चैव ह वृत्तम औपयिकं मन्ये भीष्मेण सह भारत ॥ 12 ॥

  13. [कर्ण] यॊजिताव अर्थमानाभ्यां सर्वकार्येष्व अनन्तरौ न मन्त्रयेतां तवच छरेयः किम अद्भुततरं ततः ॥ 13 ॥

  14. दुष्टेन मनसा यॊ वै परच्छन्नेनान्तर आत्मना बरूयान निःश्रेयसं नाम कथं कुर्यात सतां मतम ॥ 14 ॥

  15. न मित्राण्य अर्थकृच्छ्रेषु शरेयसे वेतराय वा विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम ॥ 15 ॥

  16. कृतप्रज्ञॊ ऽकृतप्रज्ञॊ बालॊ वृद्धश च मानवः ससहायॊ ऽसहायश च सर्वं सर्वत्र विन्दति ॥ 16 ॥

  17. शरूयते हि पुरा कश चिद अम्बुवीच इति शरुतः आसीद राजगृहे राजा मागधानां महीक्षिताम ॥ 17 ॥

  18. स हीनः करणैः सर्वैर उच्छ्वासपरमॊ नृपः अमात्यसंस्थः कार्येषु सर्वेष्व एवाभवत तदा ॥ 18 ॥

  19. तस्यामात्यॊ महाकर्णिर बभूवैकेश्वरः पुरा स लब्धबलम आत्मानं मन्यमानॊ ऽवमन्यते ॥ 19 ॥

  20. स राज्ञ उपभॊग्यानि सत्रियॊ रत्नधनानि च आददे सर्वशॊ मूढ ऐश्वर्यं च सवयं तदा ॥ 20 ॥

  21. तद आदाय च लुब्धस्य लाभाल लॊभॊ वयवर्धत तथा हि सर्वम आदाय राज्यम अस्य जिहीर्षति ॥ 21 ॥

  22. हीनस्य करणैः सर्वैर उच्छ्वासपरमस्य च यतमानॊ ऽपि तद राज्यं न शशाकेति नः शरुतम ॥ 22 ॥

  23. किम अन्यद विहितान नूनं तस्य सा पुरुषेन्द्रता यदि ते विहितं राज्यं भविष्यति विशां पते ॥ 23 ॥

  24. मिषतः सर्वलॊकस्य सथास्यते तवयि तद धरुवम अतॊ ऽनयथा चेद विहितं यतमानॊ न लप्स्यसे ॥ 24 ॥

  25. एवं विद्वन्न उपादत्स्व मन्त्रिणां साध्व असाधुताम दुष्टानां चैव बॊद्धव्यम अदुष्टानां च भाषितम ॥ 25 ॥

  26. [दरॊण] विद्म ते भावदॊषेण यदर्थम इदम उच्यते दुष्टः पाण्डव हेतॊस तवं दॊषं खयापयसे हि नः ॥ 26 ॥

  27. हितं तु परमं कर्ण बरवीमि कुरुवर्धनम अथ तवं मन्यसे दुष्टं बरूहि यत परमं हितम ॥ 27 ॥

  28. अतॊ ऽनयथा चेत करियते यद बरवीमि परं हितम कुरवॊ विनशिष्यन्ति नचिरेणेति मे मतिः ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 197

Previous: अध्याय 195