[भस] न रॊचते विग्रहॊ मे पाण्डुपुत्रैः कथं चन यथैव धृतराष्ट्रॊ मे तथा पाण्डुर असंशयम ॥ 1 ॥
गान्धार्याश च यथा पुत्रास तथा कुन्तीसुता मताः यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव ॥ 2 ॥
यथा च मम राज्ञश च तथा दुर्यॊधनस्य ते तथा कुरूणां सर्वेषाम अन्येषाम अपि भारत ॥ 3 ॥
एवंगते विग्रहं तैर न रॊचये; संधाय वीरैर दीयताम अद्य भूमिः तेषाम अपीदं परपितामहानां; राज्यं पितुश चैव कुरूत्तमानाम ॥ 4 ॥
दुर्यॊधन यथा राज्यं तवम इदं तात पश्यसि मम पैतृकम इत्य एवं ते ऽपि पश्यन्ति पाण्डवाः ॥ 5 ॥
यदि राज्यं न ते पराप्ताः पाण्डवेयास तपस्विनः कुत एव तवापीदं भारतस्य च कस्य चित ॥ 6 ॥
अथ धर्मेण राज्यं तवं पराप्तवान भरतर्षभ ते ऽपि राज्यम अनुप्राप्ताः पूर्वम एवेति मे मतिः ॥ 7 ॥
मधुरेणैव राज्यस्य तेषाम अर्धं परदीयताम एतद धि पुरुषव्याघ्र हितं सर्वजनस्य च ॥ 8 ॥
अतॊ ऽनयथा चेत करियते न हितं नॊ भविष्यति तवाप्य अकीर्तिः सकला भविष्यति न संशयः ॥ 9 ॥
कीर्तिरक्षणम आतिष्ठ कीर्तिर हि परमं बलम नष्टकीर्तेर मनुष्यस्य जीवितं हय अफलं समृतम ॥ 10 ॥
यावत कीर्तिर मनुष्यस्य न परणश्यति कौरव तावज जीवति गान्धारे नष्टकीर्तिस तु नश्यति ॥ 11 ॥
तम इमं समुपातिष्ठ धर्मं कुरु कुलॊचितम अनुरूपं महाबाहॊ पूर्वेषाम आत्मनः कुरु ॥ 12 ॥
दिष्ट्या धरन्ति ते वीरा दिष्ट्या जीवति सा पृथा दिष्ट्या पुरॊचनः पापॊ नसकामॊ ऽतययं गतः ॥ 13 ॥
तदा परभृति गान्धारे न शक्नॊम्य अभिवीक्षितुम लॊके पराणभृतां कं चिच छरुत्वा कुन्तीं तथागताम ॥ 14 ॥
न चापि दॊषेण तथा लॊकॊ वैति पुरॊचनम यथा तवां पुरुषव्याघ्र लॊकॊ दॊषेण गच्छति ॥ 15 ॥
तद इदं जीवितं तेषां तव कल्मष नाशनम संमन्तव्यं महाराज पाण्डवानां च दर्शनम ॥ 16 ॥
न चापि तेषां वीराणां जीवतां कुरुनन्दन पित्र्यॊ ऽंशः शक्य आदातुम अपि वज्रभृता सवयम ॥ 17 ॥
ते हि सर्वे सथिता धर्मे सर्वे चैवैक चेतसः अधर्मेण निरस्ताश च तुल्ये राज्ये विशेषतः ॥ 18 ॥
यदि धर्मस तवया कार्यॊ यदि कार्यं परियं च मे कषेमं च यदि कर्तव्यं तेषाम अर्धं परदीयताम ॥ 19 ॥
आदिपर्व · Adi Parva
अध्याय 195
Reach this point to mark the section finished.
Continue to अध्याय 196