[कर्ण] दुर्यॊधन तव परज्ञा न सम्यग इति मे मतिः न हय उपायेन ते शक्याः पाण्डवाः कुरुनन्दन ॥ 1 ॥
पूर्वम एव हिते सूक्ष्मैर उपायैर यतितास तवया निग्रहीतुं यदा वीर शकिता न तदा तवया ॥ 2 ॥
इहैव वर्तमानास ते समीपे तव पार्थिव अजातपक्षाः शिशवः शकिता नैव बाधितुम ॥ 3 ॥
जातपक्षा विदेशस्था विवृद्धाः सर्वशॊ ऽदय ते नॊपाय साध्याः कौन्तेया ममैषा मतिर अच्युत ॥ 4 ॥
न च ते वयसनैर यॊक्तुं शक्या दिष्ट कृता हि ते शङ्किताश चेप्सवश चैव पितृपैतामहं पदम ॥ 5 ॥
परस्परेण भेदश च नाधातुं तेषु शक्यते एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम ॥ 6 ॥
न चापि कृष्णा शक्येत तेभ्यॊ भेदयितुं परैः परिद्यूनान वृतवती किम उताद्य मृजावतः ॥ 7 ॥
ईप्सितश च गुणः सत्रीणाम एकस्या बहु भर्तृता तं च पराप्तवती कृष्णा न सा भेदयितुं सुखम ॥ 8 ॥
आर्य वृत्तश च पाञ्चाल्यॊ न स राजा धनप्रियः न संत्यक्ष्यति कौन्तेयान राज्यदानैर अपि धरुवम ॥ 9 ॥
तथास्य पुत्रॊ गुणवान अनुरक्तश च पाण्डवान तस्मान नॊपाय साध्यांस तान अहं मन्ये कथं चन ॥ 10 ॥
इदं तव अद्य कषमं कर्तुम अस्माकं पुरुषर्षभ यावन न कृतमूलास ते पाण्डवेया विशां पते तवत परहरणीयास ते रॊचतां तव विक्रमः ॥ 11 ॥
अस्मत पक्षॊ महान यावद यावत पाञ्चालकॊ लघुः तावत परहरणं तेषां करियतां मा विचारय ॥ 12 ॥
वाहनानि परभूतानि मित्राणि बहुलानि च याचन न तेषां गान्धारे तावद एवाशु विक्रम ॥ 13 ॥
यावच च राजा पाञ्चाल्यॊ नॊद्यमे कुरुते मनः सह पुत्रैर महावीर्यैस तावद एवाशु विक्रम ॥ 14 ॥
यावन्न आयाति वार्ष्णेयः कर्षन यावद अवाहिनीम राज्यार्थे पाण्डवेयानां तावद एवाशु विक्रम ॥ 15 ॥
वसूनि विविधान भॊगान राज्यम एव च केवलम नात्याज्यम अस्ति कृष्णस्य पाण्डवार्थे महीपते ॥ 16 ॥
विक्रमेण मही पराप्ता भरतेन महात्मना विक्रमेण च लॊकांस तरीञ जितवान पाकशासनः ॥ 17 ॥
विक्रमं च परशंसन्ति कषत्रियस्य विशां पते सवकॊ हि धर्मः शूराणां विक्रमः पार्थिवर्षभ ॥ 18 ॥
ते बलेन वयं राजन महता चतुरङ्गिणा परमथ्य दरुपदं शीघ्रम आनयामेह पाण्डवान ॥ 19 ॥
न हि साम्ना न दानेन न भेदेन च पाण्डवाः शक्याः साधयितुं तस्माद विक्रमेणैव ताञ जहि ॥ 20 ॥
तान विक्रमेण जित्वेमाम अखिलां भुङ्क्ष्व मेदिनीम नान्यम अत्र परपश्यामि कार्यॊपायं जनाधिप ॥ 21 ॥
[वै] शरुत्वा तु राधेय वचॊ धृतराष्ट्रः परतापवान अभिपूज्य ततः पश्चाद इदं वचनम अब्रवीत ॥ 22 ॥
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने तवयि विक्रमसंपन्नम इदं वचनम ईदृशम ॥ 23 ॥
भूय एव तु भीष्मश च दरॊणॊ विदुर एव च युवां च कुरुतां बुद्धिं भवेद या नः सुखॊदया ॥ 24 ॥
तत आनाय्य तान सर्वान मन्त्रिणः सुमहायशाः धृतराष्ट्रॊ महाराज मन्त्रयाम आस वै तदा ॥ 25 ॥
आदिपर्व · Adi Parva
अध्याय 194
Reach this point to mark the section finished.
Continue to अध्याय 195