[धृ] अहम अप्य एवम एवैतच चिन्तयामि यथा युवाम विवेक्तुं नाहम इच्छामि तव आकरं विदुरं परति ॥ 1 ॥
अतस तेषां गुणान एव कीर्तयामि विशेषतः नावबुध्येत विदुरॊ ममाभिप्रायम इङ्गितैः ॥ 2 ॥
यच च तवं मन्यसे पराप्तं तद बरूहि तवं सुयॊधन राधेय मन्यसे तवं च यत पराप्तं तद बरवीहि मे ॥ 3 ॥
[दुर] अद्य तान कुशलैर विप्रैः सुकृतैर आप्तकारिभिः कुन्तीपुत्रान भेदयामॊ माद्रीपुत्रौ च पाण्डवौ ॥ 4 ॥
अथ वा दरुपदॊ राजा महद्भिर वित्तसंचयैः पुत्राश चास्य परलॊभ्यन्ताम अमात्याश चैव सर्वशः ॥ 5 ॥
परित्यजध्वं राजानं कुन्तीपुत्रं युधिष्ठिरम अथ तत्रैव वा तेषां निवासं रॊचयन्तु ते ॥ 6 ॥
इहैषां दॊषवद वासं वर्णयन्तु पृथक पृथक ते भिद्यमानास तत्रैव मनः कुर्वन्तु पाण्डवाः ॥ 7 ॥
अथ वा कुशलाः के चिद उपायनिपुणा नराः इतरेतरतः पार्थान भेदयन्त्व अनुरागतः ॥ 8 ॥
वयुत्थापयन्तु वा कृष्णां बहुत्वात सुकरं हि तत अथ वा पाण्डवांस तस्यां भेदयन्तु ततश च ताम ॥ 9 ॥
भीमसेनस्य वा राजन्न उपायकुशलैर नरैः मृत्युर विधीयतां छन्नैः स हि तेषां बलाधिकः ॥ 10 ॥
तस्मिंस तु निहते राजन हतॊत्साहा हतौजसः यतिष्यन्ते न राज्याय स हि तेषां वयपाश्रयः ॥ 11 ॥
अजेयॊ हय अर्जुनः संख्ये पृष्ठगॊपे वृकॊदरे तम ऋते फल्गुनॊ युद्धे राधेयस्य न पादभाक ॥ 12 ॥
ते जानमाना दौर्बल्यं भीमसेनम ऋते महत अस्मान बलवतॊ जञात्वा नशिष्यन्त्य अबलीयसः ॥ 13 ॥
इहागतेषु पार्थेषु निदेशवशवर्तिषु परवर्तिष्यामहे राजन यथाश्रद्धं निबर्हणे ॥ 14 ॥
अथ वा दर्शनीयाभिः परमदाभिर विलॊभ्यताम एकैकस तत्र कौन्तेयस ततः कृष्णा विरज्यताम ॥ 15 ॥
परेष्यतां वापि राधेयस तेषाम आगमनाय वै ते लॊप्त्र हारैः संधाय वध्यन्ताम आप्तकारिभिः ॥ 16 ॥
एतेषाम अभ्युपायानां यस ते निर्दॊषवान मतः तस्य परयॊगम आतिष्ठ पुरा कालॊ ऽतिवर्तते ॥ 17 ॥
यावच चाकृत विश्वासा दरुपदे पार्थिवर्षभे तावद एवाद्य ते शक्या न शक्यास तु ततः परम ॥ 18 ॥
एषा मम मतिस तात निग्रहाय परवर्तते साधु वा यदि वासाधु किं वा राधेय मन्यसे ॥ 19 ॥
आदिपर्व · Adi Parva
अध्याय 193
Reach this point to mark the section finished.
Continue to अध्याय 194