[वै] ततॊ राज्ञां चरैर आप्तैश चारः समुपनीयत पाण्डवैर उपसंपन्ना दरौपदी पतिभिः शुभा ॥ 1 ॥
येन तद धनुर आयम्य लक्ष्यं विद्धं महात्मना सॊ ऽरजुनॊ जयतां शरेष्ठॊ महाबाणधनुर्धरः ॥ 2 ॥
यः शल्यं मद्रराजानम उत्क्षिप्याभ्रामयद बली तरासयंश चापि संक्रुद्धॊ वृक्षेण पुरुषान रणे ॥ 3 ॥
न चापि संभ्रमः कश चिद आसीत तत्र महात्मनः स भीमॊ भीम संस्पर्शः शत्रुसेनाङ्गपातनः ॥ 4 ॥
बरह्मरूपधराञ शरुत्वा पाण्डुराज सुतांस तदा कौन्तेयान मनुजेन्द्राणां विस्मयः समजायत ॥ 5 ॥
सपुत्रा हि पुरा कुन्ती दग्धा जतु गृहे शरुता पुनर्जातान इति समैतान मन्यन्ते सर्वपार्थिवाः ॥ 6 ॥
धिक कुर्वन्तस तदा भीष्मं धृतराष्ट्रं च कौरवम कर्मणा सुनृशंसेन पुरॊचन कृतेन वै ॥ 7 ॥
वृत्ते सवयंवरे चैव राजानः सर्व एव ते यथागतं विप्रजग्मुर विदित्वा पाण्डवान वृतान ॥ 8 ॥
अथ दुर्यॊधनॊ राजा विमना भरातृभिः सह अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च ॥ 9 ॥
विनिवृत्तॊ वृतं दृष्ट्वा दरौपद्या शवेतवाहनम तं तु दुःशासनॊ वरीडन मन्दं मन्दम इवाब्रवीत ॥ 10 ॥
यद्य असौ बराह्मणॊ न सयाद विन्देत दरौपदीं न सः न हि तं तत्त्वतॊ राजन वेद कश चिद धनंजयम ॥ 11 ॥
दैवं तु परमं मन्ये पौरुषं तु निरर्थकम धिग अस्मत पौरुषं तात यद धरन्तीह पाण्डवाः ॥ 12 ॥
एवं संभाषमाणास ते निन्दन्तश च पुरॊचनम विविशुर हास्तिनपुरं दीना विगतचेतसः ॥ 13 ॥
तरस्ता विगतसंकल्पा दृष्ट्वा पार्थान महौजसः मुक्तान हव्यवहाच चैनान संयुक्तान दरुपदेन च ॥ 14 ॥
धृष्टद्युम्नं च संचिन्त्य तथैव च शिखण्डिनम दरुपदस्यात्मजांश चान्यान सर्वयुद्धविशारदान ॥ 15 ॥
विदुरस तव अथ ताञ शरुत्वा दरौपद्या पाण्डवान वृतान वरीडितान धार्तराष्ट्रांश च भग्नदर्पान उपागतान ॥ 16 ॥
ततः परीतमनाः कषत्ता धृतराष्ट्रं विशां पते उवाच दिष्ट्या कुरवॊ वर्धन्त इति विस्मितः ॥ 17 ॥
वैचित्र वीर्यस तु नृपॊ निशम्य विदुरस्य तत अब्रवीत परमप्रीतॊ दिष्ट्या दिष्ट्येति भारत ॥ 18 ॥
मन्यते हि वृतं पुत्रं जयेष्ठं दरुपद कन्यया दुर्यॊधनम अविज्ञानात परज्ञा चक्षुर नरेश्वरः ॥ 19 ॥
अथ तव आज्ञापयाम आस दरौपद्या भूषणं बहु आनीयतां वै कृष्णेति पुत्रं दुर्यॊधनं तदा ॥ 20 ॥
अथास्य पश्चाद विदुर आचख्यौ पाण्डवान वृतान सर्वान कुशलिनॊ वीरान पूजितान दरुपदेन च तेषां संबन्धिनश चान्यान बहून बलसमन्वितान ॥ 21 ॥
[धृ] यथैव पाण्डॊः पुत्रास ते तथैवाभ्यधिका मम सेयम अभ्यधिका परीतिर वृद्धिर विदुर मे मता यत ते कुशलिनॊ वीरा मित्रवन्तश च पाण्डवाः ॥ 22 ॥
कॊ हि दरुपदम आसाद्य मित्रं कषत्तः सबान्धवम न बुभूषेद भवेनार्थी गतश्रीर अपि पार्थिवः ॥ 23 ॥
[वै] तं तथा भाषमाणं तु विदुरः परत्यभाषत नित्यं भवतु ते बुद्धिर एषा राजञ शतं समाः ॥ 24 ॥
ततॊ दुर्यॊधनश चैव राधेयश च विशां पते धृतराष्ट्रम उपागम्य वचॊ ऽबरूताम इदं तदा ॥ 25 ॥
संनिधौ विदुरस्य तवां वक्तुं नृप न शक्नुवः विविक्तम इति वक्ष्यावः किं तवेदं चिकीर्षितम ॥ 26 ॥
सपत्नवृद्धिं यत तात मन्यसे वृद्धिम आत्मनः अभिष्टौषि च यत कषत्तुः समीपे दविपदां वर ॥ 27 ॥
अन्यस्मिन नृप कर्तव्ये तवम अन्यत कुरुषे ऽनघ तेषां बलविघातॊ हि कर्तव्यस तात नित्यशः ॥ 28 ॥
ते वयं पराप्तकालस्य चिकीर्षां मन्त्रयामहे यथा नॊ न गरसेयुस ते सपुत्रबलबान्धवान ॥ 29 ॥
आदिपर्व · Adi Parva
अध्याय 192
Reach this point to mark the section finished.
Continue to अध्याय 193