धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 18

  1. [सू] एतत ते सर्वम आख्यातम अमृतं मथितं यथा यत्र सॊ ऽशवः समुत्पन्नः शरीमान अतुलविक्रमः ॥ 1 ॥

  2. यं निशाम्य तदा कद्रूर विनताम इदम अब्रवीत उच्चैःश्रवा नु किं वर्णॊ भद्रे जानीहि माचिरम ॥ 2 ॥

  3. [वि] शवेत एवाश्वराजॊ ऽयं किं वा तवं मन्यसे शुभे बरूहि वर्णं तवम अप्य अस्य ततॊ ऽतर विपणावहे ॥ 3 ॥

  4. [क] कृष्ण वालम अहं मन्ये हयम एनं शुचिस्मिते एहि सार्धं मया दीव्य दासी भावाय भामिनि ॥ 4 ॥

  5. [सू] एवं ते समयं कृत्वा दासी भावाय वै मिथः जग्मतुः सवगृहान एव शवॊ दरक्ष्याव इति सम ह ॥ 5 ॥

  6. ततः पुत्रसहस्रं तु कद्रूर जिह्मं चिकीर्षती आज्ञापयाम आस तदा वाला भूत्वाञ्जन परभाः ॥ 6 ॥

  7. आविशध्वं हयं कषिप्रं दासी न सयाम अहं यथा तद वाक्यं नान्वपद्यन्त ताञ शशाप भुजंगमान ॥ 7 ॥

  8. सर्पसत्रे वर्तमाने पावकॊ वः परधक्ष्यति जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ॥ 8 ॥

  9. शापम एनं तु शुश्राव सवयम एव पितामहः अतिक्रूरं समुद्दिष्टं कद्र्वा दैवाद अतीव हि ॥ 9 ॥

  10. सार्धं देवगणैः सर्वैर वाचं ताम अन्वमॊदत बहुत्वं परेक्ष्य सर्पाणां परजानां हितकाम्यया ॥ 10 ॥

  11. तिग्मवीर्यविषा हय एते दन्द शूका महाबलाः तेषां तीक्ष्णविषत्वाद धि परजानां च हिताय वै परादाद विषहणीं विद्यां काश्यपाय महात्मने ॥ 11 ॥

Reach this point to mark the section finished.

Continue to अध्याय 19

Previous: अध्याय 17