धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 186

  1. [दूत] जन्यार्थम अन्नं दरुपदेन राज्ञा; विवाह हेतॊर उपसंस्कृतं च तद आप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम ॥ 1 ॥

  2. इमे रथाः काञ्चनपद्मचित्राः; सदश्वयुक्ता वसुधाधिपार्हाः एतान समारुह्य परैत सर्वे; पाञ्चालराजस्य निवेशनं तत ॥ 2 ॥

  3. [वै] ततः परयाताः कुरुपुंगवास ते; पुरॊहितं तं परथमं परयाप्य आस्थाय यानानि महान्ति तानि; कुन्ती च कृष्णा च सहैव याते ॥ 3 ॥

  4. शरुत्वा तु वाक्यानि पुरॊहितस्य; यान्य उक्तवान भारत धर्मराजः जिज्ञासयैवाथ कुरूत्तमानां; दरव्याण्य अनेकान्य उपसंजहार ॥ 4 ॥

  5. फलानि माल्यानि सुसंस्कृतानि; चर्माणि वर्माणि तथासनानि गाश चैव राजन्न अथ चैव रज्जूर; दरव्याणि चान्यानि कृषी निमित्तम ॥ 5 ॥

  6. अन्येषु शिल्पेषु च यान्य अपि सयुः; सर्वाणि कृल्प्तान्य अखिलेन तत्र करीडा निमित्तानि च यानि तानि; सर्वाणि तत्रॊपजहार राजा ॥ 6 ॥

  7. रथाश्ववर्माणि च भानुमन्ति; खड्गा महान्तॊ ऽशवरथाश च चित्राः धनूंषि चाग्र्याणि शराश च मुख्याः; शक्त्यृषयः काञ्चनभूषिताश च ॥ 7 ॥

  8. परासा भुशुण्ड्यश च परश्वधाश च; सांग्रामिकं चैव तथैव सर्वम शय्यासनान्य उत्तमसंस्कृतानि; तथैव चासन विविधानि तत्र ॥ 8 ॥

  9. कुन्ती तु कृष्णां परिगृह्य साध्वीम; अन्तःपुरं दरुपदस्याविवेष सत्रियश च तां कौरवराजपत्नीं; परत्यर्चयां चक्रुर अदीनसत्त्वाः ॥ 9 ॥

  10. तान सिंहविक्रान्त गतीन अवेक्ष्य; महर्षभाक्षान अजिनॊत्तरीयान गूढॊत्तरांसान भुजगेन्द्र; भॊगप्रलम्बबाहून पुरुषप्रवीरान ॥ 10 ॥

  11. राजा च राज्ञः सचिवाश च सर्वे; पुत्राश च राज्ञः सुहृदस तथैव परेष्याश च सर्वे निखिलेन राजन; हर्षं समापेतुर अतीव तत्र ॥ 11 ॥

  12. ते तत्र वीराः परमासनेषु; सपाद पीठेष्व अविशङ्कमानाः यथानुपूर्व्या विविशुर नराग्र्यास; तदा महार्हेषु न विस्मयन्तः ॥ 12 ॥

  13. उच्चावचं पार्थिव भॊजनीयं; पात्रीषु जाम्बूनदराजतीषु दासाश च दास्यश च सुमृष्टवेषा; भॊजापकाश चाप्य उपजह्रुर अन्नम ॥ 13 ॥

  14. ते तत्र भुक्त्वा पुरुषप्रवीरा; यथानुकामं सुभृशं परतीताः उत्क्रम्य सर्वाणि वसूनि तत्र; सांग्रामिकान्य आविविशुर नृवीराः ॥ 14 ॥

  15. तल लक्षयित्वा दरुपदस्य पुत्रॊ; राजा च सर्वैः सह मन्त्रिमुख्यैः समर्चयाम आसुर उपेत्य हृष्टाः; कुन्तीसुतान पार्थिव पुत्रपौत्रान ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 187

Previous: अध्याय 185