[वै] तत आहूय पाञ्चाल्यॊ राजपुत्रं युधिष्ठिरम परिग्रहेण बराह्मेण परिगृह्य महाद्युतिः ॥ 1 ॥
पर्यपृच्छद अदीनात्मा कुन्तीपुत्रं सुवर्चसम कथं जानीम भवतः कषत्रियान बराह्मणान उत ॥ 2 ॥
वैश्यान वा गुणसंपन्नान उत वा शूद्रयॊनिजान मायाम आस्थाय वा सिद्धांश चरतः सर्वतॊदिशम ॥ 3 ॥
कृष्णा हेतॊर अनुप्राप्तान दिवः संदर्शनार्थिनः बरवीतु नॊ भवान सत्यं संदेहॊ हय अत्र नॊ महान ॥ 4 ॥
अपि नः संशयस्यान्ते मनस्तुष्टिर इहाविशेत अपि नॊ भागधेयानि शुभानि सयुः परंतप ॥ 5 ॥
कामया बरूहि सत्यं तवं सत्यं राजसु शॊभते इष्टापूर्तेन च तथा वक्तव्यम अनृतं न तु ॥ 6 ॥
शरुत्वा हय अमरसंकाश तव वाक्यम अरिंदम धरुवं विवाह करणम आस्थास्यामि विधानतः ॥ 7 ॥
[य] मा राजन विमना भूस तवं पाञ्चाल्य परीतिर अस्तु ते ईप्सितस ते धरुवः कामः संवृत्तॊ ऽयम असंशयम ॥ 8 ॥
वयं हि कषत्रिया राजन पाण्डॊः पुत्रा महात्मनः जयेष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाव इमौ याभ्यां तव सुता राजन निर्जिता राजसंसदि ॥ 9 ॥
यमौ तु तत्र राजेन्द्र यत्र कृष्णा परतिष्ठिता वयेतु ते मानसं दुःखं कषत्रियाः समॊ नरर्षभ पद्मिनीव सुतेयं ते हरदाद अन्यं हरदं गता ॥ 10 ॥
इति तथ्यं महाराज सर्वम एतद बरवीमि ते भवान हि गुरुर अस्माकं परमं च परायणम ॥ 11 ॥
[वै] ततः स दरुपदॊ राजा हर्षव्याकुल लॊचनः परतिवक्तुं तदा युक्तं नाशकत तं युधिष्ठिरम ॥ 12 ॥
यत्नेन तु स तं हर्षं संनिगृह्य परंतपः अनुरूपं ततॊ राजा परत्युवाच युधिष्ठिरम ॥ 13 ॥
पप्रच्छ चैनं धर्मात्मा यथा ते परद्रुताः पुरा स तस्मै सर्वम आचख्याव आनुपूर्व्येण पाण्डवः ॥ 14 ॥
तच छरुत्वा दरुपदॊ राजा कुन्तीपुत्रस्य भाषितम विगर्हयाम आस तदा धृतराष्ट्रं जनेश्वरम ॥ 15 ॥
आश्वासयाम आस तदा धृतराष्ट्रं युधिष्ठिरम परतिजज्ञे च राज्याय दरुपदॊ वदतां वरः ॥ 16 ॥
ततः कुन्ती च कृष्णा च भीमसेनार्जुनाव अपि यमौ च राज्ञा संदिष्टौ विविशुर भवनं महत ॥ 17 ॥
तत्र ते नयवसन राजन यज्ञसेनेन पूजिताः परत्याश्वस्तांस ततॊ राजा सह पुत्रैर उवाच तान ॥ 18 ॥
गृह्णातु विधिवत पाणिम अद्यैव कुरुनन्दनः पुण्ये ऽहनि महाबाहुर अर्जुनः कुरुतां कषणम ॥ 19 ॥
ततस तम अब्रवीद राजा धर्मपुत्रॊ युधिष्ठिरः ममापि दारसंबन्धः कार्यस तावद विशां पते ॥ 20 ॥
[दरुपद] भवान वा विधिवत पाणिं गृह्णातु दुहितुर मम यस्य वा मन्यसे वीर तस्य कृष्णाम उपादिश ॥ 21 ॥
[य] सर्वेषां दरौपदी राजन महिषी नॊ भविष्यति एवं हि वयाहृतं पूर्वं मम मात्रा विशां पते ॥ 22 ॥
अहं चाप्य अनिविष्टॊ वै भीमसेनश च पाण्डवः पार्थेन विजिता चैषा रत्नभूता च ते सुता ॥ 23 ॥
एष नः समयॊ राजन रत्नस्य सहभॊजनम न च तं हातुम इच्छामः समयं राजसत्तम ॥ 24 ॥
सर्वेषां धर्मतः कृष्णा महिषी नॊ भविष्यति आनुपूर्व्येण सर्वेषां गृह्णातु जवलने करम ॥ 25 ॥
[दरुपद] एकस्य बह्व्यॊ विहिता महिष्यः कुरुनन्दन नैकस्या बहवः पुंसॊ विधीयन्ते कदा चन ॥ 26 ॥
लॊकवेद विरुद्धं तवं नाधर्मं धार्मिकः शुचिः कर्तुम अर्हसि कौन्तेय कस्मात ते बुद्धिर ईदृशी ॥ 27 ॥
[य] सूक्ष्मॊ धर्मॊ महाराज नास्य विद्मॊ वयं गतिम पूर्वेषाम आनुपूर्व्येण यातुं वर्त्मानुयामहे ॥ 28 ॥
न मे वाग अनृतं पराह नाधर्मे धीयते मतिः एवं चैव वदत्य अम्बा मम चैव मनॊगतम ॥ 29 ॥
एष धर्मॊ धरुवॊ राजंश चरैनम अविचारयन मा च ते ऽतर विशङ्का भूत कथं चिद अपि पार्थिव ॥ 30 ॥
[दरुपद] तवं च कुन्ती च कौन्तेय धृष्टद्युम्नश च मे सुतः कथयन्त्व इतिकर्तव्यं शवःकाले करवामहे ॥ 31 ॥
[वै] ते समेत्य ततः सर्वे कथयन्ति सम भारत अथ दवैपायनॊ राजन्न अभ्यागच्छद यदृच्छया ॥ 32 ॥
आदिपर्व · Adi Parva
अध्याय 187
Reach this point to mark the section finished.
Continue to अध्याय 188