[वै] अजिनानि विधुन्वन्तः करकांश च दविजर्षभाः ऊचुस तं भीर न कर्तव्या वयं यॊत्स्यामहे परान ॥ 1 ॥
तान एवं वदतॊ विप्रान अर्जुनः परहसन्न इव उवाच परेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः ॥ 2 ॥
अहम एनान अजिह्माग्रैः शतशॊ विकिरञ शरैः वारयिष्यामि संक्रुद्धान मन्त्रैर आशीविषान इव ॥ 3 ॥
इति तद धनुर आदाय शुल्कावाप्तं महारथः भरात्रा भीमेन सहितस तस्थौ गिरिर इवाचलः ॥ 4 ॥
ततः कर्ण मुखान करुद्धान कषत्रियांस तान रुषॊत्थितान संपेततुर अभीतौ तौ गजौ परतिगजान इव ॥ 5 ॥
ऊचुश च वाचः परुषास ते राजानॊ जिघांसवः आहवे हि दविजस्यापि वधॊ हृष्टॊ युयुत्सतः ॥ 6 ॥
ततॊ वैकर्तनः कर्णॊ जगामार्जुनम ओजसा युद्धार्थी वाशिता हेतॊर गजः परतिगजं यथा ॥ 7 ॥
भीमसेनं ययौ शल्यॊ मद्राणाम ईश्वरॊ बली दुर्यॊधनादयस तव अन्ये बराह्मणैः सह संगताः मृदुपूर्वम अयत्नेन परतयुध्यंस तदाहवे ॥ 8 ॥
ततॊ ऽरजुनः परत्यविध्यद आपतन्तं तरिभिः शरैः कर्णं वैकर्तनं धीमान विकृष्य बलवद धनुः ॥ 9 ॥
तेषां शराणां वेगेन शितानां तिग्मतेजसाम विमुह्यमानॊ राधेयॊ यत्नात तम अनुधावति ॥ 10 ॥
ताव उभाव अप्य अनिर्देश्यौ लाघवाज जयतां वरौ अयुध्येतां सुसंरब्धाव अन्यॊन्यविजयैषिणौ ॥ 11 ॥
कृते परतिकृतं पश्य पश्य बाहुबलं च मे इति शूरार्थ वचनैर आभाषेतां परस्परम ॥ 12 ॥
ततॊ ऽरजुनस्य भुजयॊर वीर्यम अप्रतिमं भुवि जञात्वा वैकर्तनः कर्णः संरब्धः समयॊधयत ॥ 13 ॥
अर्जुनेन परयुक्तांस तान बाणान वेगवतस तदा परतिहत्य ननादॊच्चैः सैन्यास तम अभिपूजयन ॥ 14 ॥
[कर्ण] तुष्यामि ते विप्रमुख्यभुजवीर्यस्य संयुगे अविषादस्य चैवास्य शस्त्रास्त्रविनयस्य च ॥ 15 ॥
किं तवं साक्षाद धनुर्वेदॊ रामॊ वा विप्र सत्तम अथ साक्षाद धरि हयः साक्षाद वा विष्णुर अच्युतः ॥ 16 ॥
आत्मप्रच्छादनार्थं वै बाहुवीर्यम उपाश्रितः विप्र रूपं विधायेदं ततॊ मां परतियुध्यसे ॥ 17 ॥
न हि माम आहवे करुद्धम अन्यः साक्षाच छची पतेः पुमान यॊधयितुं शक्तः पाण्डवाद वा किरीटिनः ॥ 18 ॥
[वै] तम एवं वादिनं तत्र फल्गुनः परत्यभाषत नास्मि कर्ण धनुर्वेदॊ नास्मि रामः परतापवान बराह्मणॊ ऽसमि युधां शरेष्ठः सर्वशस्त्रभृतां वरः ॥ 19 ॥
बराह्मे पौरंदरे चास्त्रे निष्ठितॊ गुरु शासनात सथितॊ ऽसम्य अद्य रणे जेतुं तवां वीराविचलॊ भव ॥ 20 ॥
एवम उक्तस तु राधेयॊ युद्धात कर्णॊ नयवर्तत बरह्मं तेजस तदाजय्यं मन्यमानॊ महारथः ॥ 21 ॥
युद्धं तूपेयतुस तत्र राजञ शल्य वृकॊदरौ बलिनौ युगपन मत्तौ सपर्धया च बलेन च ॥ 22 ॥
अन्यॊन्यम आह्वयन्तौ तौ मत्ताव इव महागजौ मुष्टिभिर जानुभिश चैव निघ्नन्ताव इतरेतरम मुहूर्तं तौ तथान्यॊन्यं समरे पर्यकर्षताम ॥ 23 ॥
ततॊ भीमः समुत्क्षिप्य बाहुभ्यां शल्यम आहवे नयवधीद बलिनां शरेष्ठॊ जहसुर बराह्मणास ततः ॥ 24 ॥
तत्राश्चर्यं भीमसेनश चकार पुरुषर्षभः यच छल्यं पतितं भूमौ नाहनद बलिनं बली ॥ 25 ॥
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते शङ्किताः सर्वराजानः परिवव्रुर वृकॊदरम ॥ 26 ॥
ऊचुश च सहितास तत्र साध्व इमे बराह्मणर्षभाः विज्ञायन्तां कव जन्मानः कव निवासास तथैव च ॥ 27 ॥
कॊ हि राधा सुतं कर्मं शक्तॊ यॊधयितुं रणे अन्यत्र रामाद दरॊणाद वा कृपाद वापि शरद्वतः ॥ 28 ॥
कृष्णाद वा देवकीपुत्रात फल्गुनाद वा परंतपात कॊ वा दुर्यॊधनं शक्तः परतियॊधयितुं रणे ॥ 29 ॥
तथैव मद्रराजानं शल्यं बलवतां वरम बलदेवाद ऋते वीरात पाण्डवाद वा वृकॊदरात ॥ 30 ॥
करियताम अवहारॊ ऽसमाद युद्धाद बराह्मण संयुतात अथैनान उपलभ्येह पुनर यॊत्स्यामहे वयम ॥ 31 ॥
तत कर्म भीमस्य समीक्ष्य कृष्णः; कुन्तीसुतौ तौ परिशङ्कमानः निवारयाम आस महीपतींस तान; धर्मेण लब्धेत्य अनुनीय सर्वान ॥ 32 ॥
त एवं संनिवृत्तास तु युद्धाद युद्धविशारदाः यथावासं ययुः सर्वे विस्मिता राजसत्तमाः ॥ 33 ॥
वृत्तॊ बरह्मॊत्तरॊ रङ्गः पाञ्चाली बराह्मणैर वृता इति बरुवन्तः परययुर ये तत्रासन समागताः ॥ 34 ॥
बराह्मणैस तु परतिच्छन्नौ रौरवाजिनवासिभिः कृच्छ्रेण जग्मतुस तत्र भीमसेनधनंजयौ ॥ 35 ॥
विमुक्तौ जनसंबाधाच छत्रुभिः परिविक्षितौ कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः ॥ 36 ॥
तेषां माता बहुविधं विनाशं पर्यचिन्तयत अनागच्छत्सु पुत्रेषु भैक्ष काले ऽतिगच्छति ॥ 37 ॥
धार्तराष्ट्रैर हता न सयुर विज्ञाय कुरुपुंगवाः मायान्वितैर वा रक्षॊभिः सुघॊरैर दृढवैरिभिः ॥ 38 ॥
विपरीतं मतं जातं वयासस्यापि महात्मनः इत्य एवं चिन्तयाम आस सुतस्नेहान्विता पृथा ॥ 39 ॥
महत्य अथापराह्णे तु घनैः सूर्य इवावृतः बराह्मणैः परविशत तत्र जिष्णुर बरह्म पुरस्कृतः ॥ 40 ॥
आदिपर्व · Adi Parva
अध्याय 181
Reach this point to mark the section finished.
Continue to अध्याय 182