[वै] तस्मै दित्सति कन्यां तु बराह्मणाय महात्मने कॊप आसीन महीपानाम आलॊक्यान्यॊन्यम अन्तिकात ॥ 1 ॥
अस्मान अयम अतिक्रम्य तृणी कृत्यच संगतान दातुम इच्छति विप्राय दरौपदीं यॊषितां वराम ॥ 2 ॥
निहन्मैनं दुरात्मानं यॊ ऽयम अस्मान न मन्यते न हय अर्हत्य एष सत्कारं नापि वृद्धक्रमं गुणैः ॥ 3 ॥
हन्मैनं सह पुत्रेण दुराचारं नृप दविषम अयं हि सर्वान आहूय सत्कृत्य च नराधिपान गुणवद भॊजयित्वा च ततः पश्चाद विनिन्दति ॥ 4 ॥
अस्मिन राजसमावाये देवानाम इव संनये किम अयं सदृशं कं चिन नृपतिं नैव दृष्टवान ॥ 5 ॥
न च विप्रेष्व अधीकारॊ विद्यते वरणं परति सवयंवरः कषत्रियाणाम इतीयं परथिवा शरुतिः ॥ 6 ॥
अथ वा यदि कन्येयं नेह कं चिद बुभूषति अग्नाव एनां परिक्षिप्य यामराष्ट्राणि पार्थिवाः ॥ 7 ॥
बराह्मणॊ यदि वा बाल्याल लॊभाद वा कृतवान इदम विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथं चन ॥ 8 ॥
बराह्मणार्थं हि नॊ राज्यं जीवितं च वसूनि च पुत्रपौत्रं च यच चान्यद अस्माकं विद्यते धनम ॥ 9 ॥
अवमानभयाद एतत सवधर्मस्य च रक्षणात सवयंवराणां चान्येषां मा भूद एवंविधा गतिः ॥ 10 ॥
इत्य उक्त्वा राजशार्दूला हृष्टाः परिघबाहवः दरुपदं संजिघृक्षन्तः सायुधाः समुपाद्रवन ॥ 11 ॥
तान गृहीतशरावापान करुद्धान आपततॊ नृपान दरुपदॊ वीक्ष्य संत्रासाद बराह्मणाञ शरणं गतः ॥ 12 ॥
वेगेनापततस तांस तु परभिन्नान इव वारणान पाण्डुपुत्रौ महावीर्यौ परतीयतुर अरिंदमौ ॥ 13 ॥
ततः समुत्पेतुर उदायुधास ते; महीक्षितॊ बद्धतलाङ्गुलित्राः जिघांसमानाः कुरुराजपुत्राव; अमर्षयन्तॊ ऽरजुन भीमसेनौ ॥ 14 ॥
ततस तु भीमॊ ऽदभुतवीर्यकर्मा; महाबलॊ वज्रसमानवीर्यः उत्पाट्य दॊर्भ्यां दरुमम एकवीरॊ; निष्पत्रयाम आस यथा गजेन्द्रः ॥ 15 ॥
तं वृक्षम आदाय रिपुप्रमाथी; दण्डीव दण्डं पितृराज उग्रम तस्थौ समीपे पुरुषर्षभस्य; पार्थस्य पार्थः पृथु दीर्घबाहुः ॥ 16 ॥
तत परेक्ष्य कर्मातिमनुष्य बुद्धेर; जिष्णॊः सहभ्रातुर अचिन्त्यकर्मा दामॊदरॊ भरातरम उग्रवीर्यं; हलायुधं वाक्यम इदं बभाषे ॥ 17 ॥
य एष मत्तर्षभ तुल्यगामी; महद धनुः कर्षति तालमात्रम एषॊ ऽरजुनॊ नात्र विचार्यम अस्ति; यद्य अस्मि संकर्षण वासुदेवः ॥ 18 ॥
य एष वृक्षं तरसावरुज्य; राज्ञां विकारे सहसा निवृत्तः वृकॊदरॊ नान्य इहैतद अद्य कर्तुं; समर्थॊ भुवि मर्त्यधर्मा ॥ 19 ॥
यॊ ऽसौ पुरस्तात कमलायताक्षस; तनुर महासिंहगतिर विनीतः गौरः परलम्बॊज्ज्वल चारु घॊणॊ; विनिःसृतः सॊ ऽचयुत धर्मराजः ॥ 20 ॥
यौ तौ कुमाराव इव कार्तिकेयौ; दवाव अश्विनेयाव इति मे परतर्कः मुक्ता हि तस्माज जतु वेश्म दाहान; मया शरुताः पाण्डुसुताः पृथा च ॥ 21 ॥
तम अब्रवीन निर्मलतॊयदाभॊ; हलायुधॊ ऽनन्तरजं परतीतः परीतॊ ऽसमि दिष्ट्या हि पितृष्वसा नः; पृथा विमुक्ता सह कौरवाग्र्यैः ॥ 22 ॥
आदिपर्व · Adi Parva
अध्याय 180
Reach this point to mark the section finished.
Continue to अध्याय 181