धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 182

  1. [वै] गत्वा तु तां भार्गव कर्मशालां; पार्थौ पृथां पराप्य महानुभावौ तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्य अथावेदयतां नराग्र्यौ ॥ 1 ॥

  2. कुटी गता सा तव अनवेक्ष्य पुत्रान; उवाच भुङ्क्तेति समेत्य सर्वे पश्चात तु कुन्ती परसमीक्ष्य कन्यां; कष्टं मया भाषितम इत्य उवाच ॥ 2 ॥

  3. साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रप्रीताम पाणौ गृहीत्वॊपजगाम कुन्ती; युधिष्ठिरं वाक्यम उवाच चेदम ॥ 3 ॥

  4. इयं हि कन्या दरुपदस्य राज्ञस; तवानुजाभ्यां मयि संनिसृष्टा यथॊचितं पुत्र मयापि चॊक्तं; समेत्य भुङ्क्तेति नृप परमादात ॥ 4 ॥

  5. कथं मया नानृतम उक्तम अद्य; भवेत कुरूणाम ऋषभब्रवीहि पाञ्चालराजस्य सुताम अधर्मॊ; न चॊपवर्तेत नभूत पूर्वः ॥ 5 ॥

  6. मुहूर्तमात्रं तव अनुचिन्त्य राजा; युधिष्ठिरॊ मातरम उत्तमौजा कुन्तीं समाश्वास्य कुरुप्रवीरॊ; धनंजयं वाक्यम इदं बभाषे ॥ 6 ॥

  7. तवया जिता पाण्डव याज्ञसेनी; तवया च तॊषिष्यति राजपुत्री परज्वाल्यतां हूयतां चापि वह्निर; गृहाण पाणिं विधिवत तवम अस्याः ॥ 7 ॥

  8. [आर्ज] मा मां नरेन्द्र तवम अधर्मभाजं; कृथा न धर्मॊ हय अयम ईप्सितॊ ऽनयैः भवान निवेश्यः परथमं ततॊ ऽयं; भीमॊ महाबाहुर अचिन्त्यकर्मा ॥ 8 ॥

  9. अहं ततॊ नकुलॊ ऽनन्तरं मे; माद्री सुतः सहदेवॊ जघन्यः वृकॊदरॊ ऽहं च यमौ च राजन्न; इयं च कन्या भवतः सम सर्वे ॥ 9 ॥

  10. एवंगते यत करणीयम अत्र; धर्म्यं यशस्यं कुरु तत परचिन्त्य पाञ्चालराजस्य च यत परियं सयात; तद बरूहि सर्वे सम वशे सथितास ते ॥ 10 ॥

  11. [वै] ते दृष्ट्वा तत्र तिष्ठन्तीं सर्वे कृष्णां यशस्विनीम संप्रेक्ष्यान्यॊन्यम आसीना हृदयैस ताम अधारयन ॥ 11 ॥

  12. तेषां हि दरौपदीं दृष्ट्वा सर्वेषाम अमितौजसाम संप्रमथ्येन्द्रिय गरामं परादुरासीन मनॊ भवः ॥ 12 ॥

  13. काम्यं रूपं हि पाञ्चाल्या विधात्रा विहितं सवयम बभूवाधिकम अन्याभिः सर्वभूतमनॊहरम ॥ 13 ॥

  14. तेषाम आकार भावज्ञः कुन्तीपुत्रॊ युधिष्ठिरः दवैपायन वचः कृत्स्नं संस्मरन वै नरर्षभ ॥ 14 ॥

  15. अब्रवीत स हि तान भरातॄन मिथॊ भेदभयान नृपः सर्वेषां दरौपदी भार्या भविष्यति हि नः शुभा ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 183

Previous: अध्याय 181