धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 179

  1. [वै] यदा निवृत्ता राजानॊ धनुषः सज्य कर्मणि अथॊदतिष्ठद विप्राणां मध्याज जिष्णुर उदारधीः ॥ 1 ॥

  2. उदक्रॊशन विप्रमुख्या विधुन्वन्तॊ ऽजिनानि च दृष्ट्वा संप्रस्थितं पार्थम इन्द्रकेतुसमप्रभम ॥ 2 ॥

  3. के चिद आसन विमनसः के चिद आसन मुदा युताः आहुः परस्परं के चिन निपुणा बुद्धिजीविनः ॥ 3 ॥

  4. यत कर्ण शल्य परमुखैः पार्थिवैर लॊकविश्रुतैः नानृतं बलवद्भिर हि धनुर्वेदा परायणैः ॥ 4 ॥

  5. तत कथं तव अकृतास्त्रेण पराणतॊ दुर्बलीयसा बटु मात्रेण शक्यं हि सज्यं कर्तुं धनुर दविजाः ॥ 5 ॥

  6. अवहास्या भविष्यन्ति बराह्मणाः सर्वराजसु कर्मण्य अस्मिन्न असंसिद्धे चापलाद अपरीक्षिते ॥ 6 ॥

  7. यद्य एष दर्पाद धर्षाद वा यदि वा बरह्म चापलात परस्थितॊ धनुर आयन्तुं वार्यतां साधु मा गमत ॥ 7 ॥

  8. नावहास्या भविष्यामॊ न च लाघवम आस्थिताः न च विद्विष्टतां लॊके गमिष्यामॊ महीक्षिताम ॥ 8 ॥

  9. के चिद आहुर युवा शरीमान नागराजकरॊपमः पीनस्कन्धॊरु बाहुश च धैर्येण हिमवान इव ॥ 9 ॥

  10. संभाव्यम अस्मिन कर्मेदम उत्साहाच चानुमीयते शक्तिर अस्य महॊत्साहा न हय अशक्तः सवयं वरजेत ॥ 10 ॥

  11. न च तद्विद्यते किं चित कर्म लॊकेषु यद भवेत बराह्मणानाम असाध्यं च तरिषु संस्थान चारिषु ॥ 11 ॥

  12. अब्भक्षा वायुभक्षाश च फलाहारा दृढव्रताः दुर्बला हि बलीयांसॊ विप्रा हि बरह्मतेजसाः ॥ 12 ॥

  13. बराह्मणॊ नावमन्तव्यः सद वासद वा समाचरन सुखं दुःखं महद धरस्वं कर्म यत समुपागतम ॥ 13 ॥

  14. एवं तेषां विलपतां विप्राणां विविधा गिरः अर्जुनॊ धनुषॊ ऽभयाशे तस्थौ गिरिर इवाचलः ॥ 14 ॥

  15. स तद धनुः परिक्रम्य परदक्षिणम अथाकरॊत परणम्य शिरसा हृष्टॊ जगृहे च परंतपः ॥ 15 ॥

  16. सज्यं च चक्रे निमिषान्तरेण; शरांश च जग्राह दशार्ध संख्यान विव्याध लक्ष्यं निपपात तच च; छिद्रेण भूमौ सहसातिविद्धम ॥ 16 ॥

  17. ततॊ ऽनतरिक्षे च बभूव नादः; समाजमध्ये च महान निनादः पुष्पाणि दिव्यानि ववर्ष देवः; पार्थस्य मूर्ध्नि दविषतां निहन्तुः ॥ 17 ॥

  18. चेला वेधांस ततश चक्रुर हाहाकारांश च सर्वशः नयपतंश चात्र नभसः समन्तात पुष्पवृष्टयः ॥ 18 ॥

  19. शताङ्गानि च तूर्याणि वादकाश चाप्य अवादयन सूतमागध संघाश च अस्तुवंस तत्र सुस्वनाः ॥ 19 ॥

  20. तं दृष्ट्वा दरुपदः परीतॊ बभूवारि निषूदनः सहसैन्यश च पार्थस्य साहाय्यार्थम इयेष सः ॥ 20 ॥

  21. तस्मिंस तु शब्दे महति परवृत्ते; युधिष्ठिरॊ धर्मभृतां वरिष्ठः आवासम एवॊपजगाम शीघ्रं; सार्धं यमाभ्यां पुरुषॊत्तमाभ्याम ॥ 21 ॥

  22. विद्धं तु लक्ष्यं परसमीक्ष्य; कृष्णा पार्थं च शक्र परतिमं निरीक्ष्य आदाय शुक्लं वरमाल्यदाम; जगाम कुन्तीसुतम उत्स्मयन्ती ॥ 22 ॥

  23. स ताम उपादाय विजित्य रङ्गे; दविजातिभिस तैर अभिपूज्यमानः रङ्गान निरक्रामद अचिन्त्यकर्मा; पत्न्या तया चाप्य अनुगम्यमानः ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 180

Previous: अध्याय 178