[स] अथावरण मुख्यानि नानाप्रहरणानि च परगृह्याभ्यद्रवन देवान सहिता दैत्यदानवाः ॥ 1 ॥
ततस तद अमृतं देवॊ विष्णुर आदाय वीर्यवान जहार दानवेन्द्रेभ्यॊ नरेण सहितः परभुः ॥ 2 ॥
ततॊ देवगणाः सर्वे पपुस तद अमृतं तदा विष्णॊः सकाशात संप्राप्य संभ्रमे तुमुले सति ॥ 3 ॥
ततः पिबत्सु तत कालं देवेष्व अमृतम ईप्सितम राहुर विबुधरूपेण दानवः परापिबत तदा ॥ 4 ॥
तस्य कण्ठम अनुप्राप्ते दानवस्यामृते तदा आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ॥ 5 ॥
ततॊ भगवता तस्य शिरश छिन्नम अलंकृतम चक्रायुधेन चक्रेण पिबतॊ ऽमृतम ओजसा ॥ 6 ॥
तच छैलशृङ्गप्रतिमं दानवस्य शिरॊमहत चक्रेणॊत्कृत्तम अपतच चालयद वसुधातलम ॥ 7 ॥
ततॊ वैरविनिर्बन्धः कृतॊ राहुमुखेन वै शाश्वतश चन्द्रसूर्याभ्यां गरसत्य अद्यापि चैव तौ ॥ 8 ॥
विहाय भगवांश चापि सत्री रूपम अतुलं हरिः नानाप्रहरणैर भीमैर दानवान समकम्पयत ॥ 9 ॥
ततः परवृत्तः संग्रामः समीपे लवणाम्भसः सुराणाम असुराणां च सर्वघॊरतरॊ महान ॥ 10 ॥
परासाः सुविपुलास तीक्ष्णा नयपतन्त सहस्रशः तॊमराश च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥ 11 ॥
ततॊ ऽसुराश चक्रभिन्ना वमन्तॊ रुधिरं बहु असि शक्तिगदा रुग्णा निपेतुर धरणीतले ॥ 12 ॥
छिन्नानि पट्टिशैश चापि शिरांसि युधि दारुणे तप्तकाञ्चनजालानि निपेतुर अनिशं तदा ॥ 13 ॥
रुधिरेणावलिप्ताङ्गा निहताश च महासुराः अद्रीणाम इव कूटानि धातुरक्तानि शेरते ॥ 14 ॥
हाहाकारः समभवत तत्र तत्र सहस्रशः अन्यॊन्यं छिन्दतां शस्त्रैर आदित्ये लॊहितायति ॥ 15 ॥
परिघैश चायसैः पीतैः संनिकर्षे च मुष्टिभिः निघ्नतां समरे ऽनयॊन्यं शब्दॊ दिवम इवास्पृशत ॥ 16 ॥
छिन्धि भिन्धि परधावध्वं पातयाभिसरेति च वयश्रूयन्त महाघॊराः शब्दास तत्र समन्ततः ॥ 17 ॥
एवं सुतुमुले युद्धे वर्तमाने भयावहे नरनारायणौ देवौ समाजग्मतुर आहवम ॥ 18 ॥
तत्र दिव्यं धनुर दृष्ट्वा नरस्य भगवान अपि चिन्तयाम आस वै चक्रं विष्णुर दानव सूदनम ॥ 19 ॥
ततॊ ऽमबराच चिन्तित मात्रम आगतं; महाप्रभं चक्रम अमित्रतापनम विभावसॊस तुल्यम अकुण्ठमण्डलं; सुदर्शनं भीमम अजय्यम उत्तमम ॥ 20 ॥
तद आगतं जवलितहुताशनप्रभं; भयंकरं करिकरबाहुर अच्युतः मुमॊच वै चपलम उदग्रवेगवन; महाप्रभं परनगरावदारणम ॥ 21 ॥
तद अन्तकज्वलनसमानवर्चसं; पुनः पुनर नयपतत वेगवत तदा विदारयद दितिदनुजान सहस्रशः; करेरितं पुरुषवरेण संयुगे ॥ 22 ॥
दहत कव चिज जवलन इवावलेलिहत; परसह्य तान असुरगणान नयकृन्तत परवेरितं वियति मुहुः कषितौ तदा; पपौ रणे रुधिरम अथॊ पिशाचवत ॥ 23 ॥
अथासुरा गिरिभिर अदीनचेतसॊ; मुहुर मुहुः सुरगणम अर्दयंस तदा महाबला विगलितमेघवर्चसः; सहस्रशॊ गगनम अभिप्रपद्य ह ॥ 24 ॥
अथाम्बराद भयजननाः परपेदिरे; सपादपा बहुविध मेघरूपिणः महाद्रयः परविगलिताग्र सानवः; परस्परं दरुतम अभिहत्य सस्वनाः ॥ 25 ॥
ततॊ मही परविचलिता सकानना; महाद्रिपाताभिहता समन्ततः परस्परं भृशम अभिगर्जतां मुहू; रणाजिरे भृशम अभिसंप्रवर्तिते ॥ 26 ॥
नरस ततॊ वरकनकाग्र भूषणैर; महेषुभिर गगनपथं समावृणॊत विदारयन गिरिशिखराणि पत्रिभिर; महाभये ऽसुर गणविग्रहे तदा ॥ 27 ॥
ततॊ महीं लवणजलं च सागरं; महासुराः परविविशुर अर्दिताः सुरैः वियद गतं जवलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च ॥ 28 ॥
ततः सुरैर विजयम अवाप्य मन्दरः; सवम एव देशं गमितः सुपूजितः विनाद्य खं दिवम अपि चैव सर्वशस; ततॊ गताः सलिलधरा यथागतम ॥ 29 ॥
ततॊ ऽमृतं सुनिहितम एव चक्रिरे; सुराः परां मुदम अभिगम्य पुष्कलाम ददौ च तं निधिम अमृतस्य रक्षितुं; किरीटिने बलभिद अथामरैः सह ॥ 30 ॥
आदिपर्व · Adi Parva
अध्याय 17
Reach this point to mark the section finished.
Continue to अध्याय 18