[वै] ते ऽलंकृताः कुण्डलिनॊ युवानः; परस्परं सपर्धमानाः समेताः अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुर अहं कृतेन ॥ 1 ॥
रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः ॥ 2 ॥
परस्परं सपर्धया परेक्षमाणाः; संकल्पजेनापि परिप्लुताङ्गाः कृष्णा ममैषेत्य अभिभाषमाणा; नृपासनेभ्यः सहसॊपतस्थुः ॥ 3 ॥
ते कषत्रिया रङ्ग गताः समेता; जिगीषमाणा दरुपदात्मजां ताम चकाशिरे पर्वतराजकन्याम; उमां यथा देवगणाः समेताः ॥ 4 ॥
कन्दर्प बाणाभिनिपीडिताङ्गाः; कृष्णागतैस ते हृदयैर नरेन्द्राः रङ्गावतीर्णा दरुपदात्मजार्थं; दवेष्यान हि चक्रुः सुहृदॊ ऽपि तत्र ॥ 5 ॥
अथाययुर देवगणा विमानै; रुद्रादित्या वसवॊ ऽथाश्विनौ च साध्याश च सर्वे मरुतस तथैव; यमं पुरस्कृत्य धनेश्वरं च ॥ 6 ॥
दैत्याः सुपर्णाश च महॊरगश च; देवर्षयॊ गुह्यकाश चारणाश च विश्वावसुर नारद पर्वतौ च; गन्धर्वमुख्याश च सहाप्सरॊभिः ॥ 7 ॥
हलायुधस तत्र च केशवश च; वृष्ण्यन्धकाश चैव यथा परधानाः परेक्षां सम चक्रुर यदुपुंगवास ते; सथिताश च कृष्णस्य मते बभूवुः ॥ 8 ॥
दृष्ट्वा हि तान मत्तगजेन्द्र रूपान; पञ्चाभिपद्मान इव वारणेन्द्रान भस्मावृताङ्गान इव हव्यवाहान; पार्थान परदध्यौ स यदुप्रवीरः ॥ 9 ॥
शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ शनैः शनैस तांश च निरीक्ष्य रामॊ; जनार्दनं परीतमना ददर्श ॥ 10 ॥
अन्ये तु नाना नृपपुत्रपौत्राः; कृष्णा गतैर नेत्रमनः सवभावैः वयायच्छमाना ददृशुर भरमन्तीं; संदष्ट दन्तच छदताम्रवक्त्राः ॥ 11 ॥
तथैव पार्थाः पृथु बाहवस ते; वीरौ यमौ चैव महानुभावौ तां दरौपदीं परेक्ष्य तदा सम सर्वे; कन्दर्प बाणाभिहता बभूवुः ॥ 12 ॥
देवर्षिगन्धर्वसमाकुलं तत; सुपर्णनागासुरसिद्धजुष्टम दिव्येन गन्धेन समाकुलं च; दिव्यैश च माल्यैर अवकीर्यमाणम ॥ 13 ॥
महास्वनैर दुन्दुभिनादितैश च; बभूव तत संकुलम अन्तरिक्षम विमानसंबाधम अभूत समन्तात; सवेणु वीणा पणवानुनादम ॥ 14 ॥
ततस तु ते राजगणाः करमेण; कृष्णा निमित्तं नृप विक्रमन्तः तत कारुमुकं संहननॊपपन्नं; सज्यं न शेकुस तरसापि कर्तुम ॥ 15 ॥
ते विक्रमन्तः सफुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्न चित्ताः ॥ 16 ॥
हाहाकृतं तद धनुषा दृढेन; निष्पिष्टभग्नाङ्गद कुण्डलं च कृष्णा निमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलम आर्तम आसीत ॥ 17 ॥
तस्मिंस तु संभ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु कुन्तीसुतॊ जिष्णुर इयेष कर्तुं; सज्यं धनुस तत सशरं स वीरः ॥ 18 ॥
आदिपर्व · Adi Parva
अध्याय 178
Reach this point to mark the section finished.
Continue to अध्याय 179