धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 177

  1. [धृ] दुर्यॊधनॊ दुर्विषहॊ दुर्मुखॊ दुष्प्रधर्षणः विविंशतिर विकर्णश च सहॊ दुःशासनः समः ॥ 1 ॥

  2. युयुत्सुर वातवेगश च भीमवेगधरस तथा उग्रायुधॊ बलाकी च कनकायुर विरॊचनः ॥ 2 ॥

  3. सुकुण्डलश चित्रसेनः सुवर्चाः कनकध्वजः नन्दकॊ बाहुशाली च कुण्डजॊ विकटस तथा ॥ 3 ॥

  4. एते चान्ये च बहवॊ धार्तराट्रा महाबलाः कर्णेन सहिता वीरास तवदर्थं समुपागताः शतसंख्या महात्मानः परथिताः कषत्रियर्षभाः ॥ 4 ॥

  5. शकुनिश च बलश चैव वृषकॊ ऽथ बृहद्बलः एते गान्धर राजस्य सुताः सर्वे समागताः ॥ 5 ॥

  6. अश्वत्थामा च भॊजश च सर्वशस्त्रभृतां वरौ समवेतौ महात्मानौ तवदर्थे समलंकृतौ ॥ 6 ॥

  7. बृहन्तॊ मणिमांश चैव दण्डधारश च वीर्यवान सहदेवॊ जयत्सेनॊ मेघसंधिश च मागधः ॥ 7 ॥

  8. विराटः सह पुत्राभ्यां शङ्खेनैवॊत्तरेण च वार्धक्षेमिः सुवर्चाश च सेना बिन्दुश च पार्थिवः ॥ 8 ॥

  9. अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा सुमित्रः सुकुमारश च वृकः सत्यधृतिस तथा ॥ 9 ॥

  10. सूर्यध्वजॊ रॊचमानॊ नीलश चित्रायुधस तथा अंशुमांश चेकितानश च शरेणिमांश च महाबलः ॥ 10 ॥

  11. समुद्रसेनपुत्रश च चन्द्र सेनः परतापवान जलसंधः पिता पुत्रौ सुदण्डॊ दण्ड एव च ॥ 11 ॥

  12. पौण्ड्रकॊ वासुदेवश च भगदत्तश च वीर्यवान कलिङ्गस ताम्रलिप्तश च पत्तनाधिपतिस तथा ॥ 12 ॥

  13. मद्रराजस तथा शल्यः सहपुत्रॊ महारथः रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ॥ 13 ॥

  14. कौरव्यः सॊमदत्तश च पुत्राश चास्य महारथाः समवेतास तरयः शूरा भूरिर भूरिश्रवाः शलः ॥ 14 ॥

  15. सुदक्षिणश च काम्बॊजॊ दृढधन्वा च कौरवः बृहद्बलः सुषेणश च शिबिर औशीनरस तथा ॥ 15 ॥

  16. संकर्षणॊ वासुदेवॊ रौक्मिणेयश च वीर्यवान साम्बश च चारु देष्णश च सारणॊ ऽथ गदस तथा ॥ 16 ॥

  17. अक्रूरः सात्यकिश चैव उद्धवश च महाबलः कृतवर्मा च हार्दिक्यः पृथुर विपृथुर एव च ॥ 17 ॥

  18. विडूरथश च कङ्कश च समीकः सारमेजयः वीरॊ वातपतिश चैव झिल्ली पिण्डारकस तथा उशीनरश च विक्रान्तॊ वृष्णयस ते परकीर्तिताः ॥ 18 ॥

  19. भगीरथॊ बृहत कषत्रः सैन्धवश च जयद्रथः बृहद्रथॊ बाह्लिकश च शरुतायुश च महारथः ॥ 19 ॥

  20. उलूकः कैतवॊ राजा चित्राङ्गद शुभाङ्गदौ वत्स राजश च धृतिमान कॊसलाधिपतिस तथा ॥ 20 ॥

  21. एते चान्ये च बहवॊ नानाजनपदेश्वराः तवदर्थम आगता भद्रे कषत्रियाः परथिता भुवि ॥ 21 ॥

  22. एते वेत्स्यन्न्ति विक्रान्तास तवदर्थं लक्ष्यम उत्तमम विध्येत य इमं लक्ष्यं वरयेथाः शुभे ऽदय तम ॥ 22 ॥

Reach this point to mark the section finished.

Continue to अध्याय 178

Previous: अध्याय 176