धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 176

  1. [वै] एवम उक्ताः परयातास ते पाण्डवा जनमेजय राज्ञा दक्षिणपाञ्चालान दरुपदेनाभिरक्षितान ॥ 1 ॥

  2. ततस ते तं महात्मानं शुद्धात्मानम अकल्मषम ददृशुः पाण्डवा राजन पथि दवैपायनं तदा ॥ 2 ॥

  3. तस्मै यथावत सत्कारं कृत्वा तेन च सान्त्विताः कथान्ते चाभ्यनुज्ञाताः परययुर दरुपद कषयम ॥ 3 ॥

  4. पश्यन्तॊ रमणीयानि वनानि च सरांसि च तत्र तत्र वसन्तश च शनैर जग्मुर महारथाः ॥ 4 ॥

  5. सवाध्यायवन्तः शुचयॊ मधुराः परियवादिनः आनुपूर्व्येण संप्राप्ताः पाञ्चालान कुरुनन्दनाः ॥ 5 ॥

  6. ते तु दृष्ट्वा पुरं तच च सकन्धावारं च पाण्डवाः कुम्भकारस्य शालायां निवेशं चक्रिरे तदा ॥ 6 ॥

  7. तत्र भैक्षं समाजह्रुर बराह्मीं वृत्तिं समाश्रिताः तांश च पराप्तांस तदा वीराञ जज्ञिरे न नराः कव चित ॥ 7 ॥

  8. यज्ञसेनस्य कामस तु पाण्डवाय किरीटिने कृष्णां दद्याम इति सदा न चैतद विवृणॊति सः ॥ 8 ॥

  9. सॊ ऽनवेषमाणः कौन्तेयान पाञ्चाल्यॊ जनमेजय दृढं धनुर अनायम्यं कारयाम आस भारत ॥ 9 ॥

  10. यन्त्रं वैहायसं चापि कारयाम आस कृत्रिमम तेन यन्त्रेण सहितं राजा लक्ष्यं च काञ्चनम ॥ 10 ॥

  11. [दरुपद] इदं सज्यं धनुः कृत्वा सज्येनानेन सायकैः अतीत्य लक्ष्यं यॊ वेद्धा स लब्धा मत सुताम इति ॥ 11 ॥

  12. [वै] इति स दरुपदॊ राजा सर्वतः समघॊषयत तच छरुत्वा पार्थिवाः सर्वे समीयुस तत्र भारत ॥ 12 ॥

  13. ऋषयश च महात्मानः सवयंवरदिदृक्षया दुर्यॊधन पुरॊगाश च सकर्णाः कुरवॊ नृप ॥ 13 ॥

  14. बराह्मणाश च महाभागा देशेभ्यः समुपागमन ते ऽभयर्चिता राजगणा दरुपदेन महात्मना ॥ 14 ॥

  15. ततः पौरजनाः सर्वे सागरॊद्धूत निःस्वनाः शिशुमार पुरं पराप्य नयविशंस ते च पार्थिवाः ॥ 15 ॥

  16. परागुत्तरेण नगराद भूमिभागे समे शुभे समाजवाटः शुशुभे भवनैः सर्वतॊवृतः ॥ 16 ॥

  17. पराकारपरिखॊपेतॊ दवारतॊरण मण्डितः वितानेन विचित्रेण सर्वतः समवस्तृतः ॥ 17 ॥

  18. तूर्यौघशतसंकीर्णः परार्ध्यागुरु धूपितः चन्दनॊदकसिक्तश च माल्यदामैश च शॊभितः ॥ 18 ॥

  19. कैलासशिखरप्रख्यैर नभस्तलविलेखिभिः सर्वतः संवृतैर नद्धः परासादैः सुकृतॊच्छ्रितैः ॥ 19 ॥

  20. सुवर्णजालसंवीतैर मणिकुट्टिम भूषितैः सुखारॊहण सॊपानैर महासनपरिच्छदैः ॥ 20 ॥

  21. अग्राम्यसमवच्छन्नैर अगुरूत्तमवासितैः हंसाच्छ वर्णैर बहुभिर आयॊजनसुगन्धिभिः ॥ 21 ॥

  22. असंबाध शतद्वारैः शयनासनशॊभितैः बहुधातुपिनद्धाङ्गैर हिमवच्छिखरैर इव ॥ 22 ॥

  23. तत्र नानाप्रकारेषु विमानेषु सवलंकृताः सपर्धमानास तदान्यॊन्यं निषेदुः सर्वपार्थिवाः ॥ 23 ॥

  24. तत्रॊपविष्टान ददृशुर महासत्त्वपराक्रमान राजसिंहान महाभागान कृष्णागुरु विभूषितान ॥ 24 ॥

  25. महाप्रसादान बरह्मण्यान सवराष्ट्र परिरक्षिणः परियान सर्वस्य लॊकस्य सुकृतैः कर्मभिः शुभैः ॥ 25 ॥

  26. मञ्चेषु च परार्ध्येषु पौरजानपदा जनाः कृष्णा दर्शनतुष्ट्य अर्थं सर्वतः समुपाविशन ॥ 26 ॥

  27. बराह्मणैस ते च सहिताः पाण्डवाः समुपाविशन ऋद्धिं पाञ्चालराजस्य पश्यन्तस ताम अनुत्तमाम ॥ 27 ॥

  28. ततः समाजॊ ववृधे स राजन दिवसान बहून रत्नप्रदान बहुलः शॊभितॊ नटनर्तकैः ॥ 28 ॥

  29. वर्तमाने समाजे तु रमणीये ऽहनि षॊडशे आप्लुताङ्गी सुवसना सर्वाभरणभूषिता ॥ 29 ॥

  30. वीर कांस्यम उपादाय काञ्चनं समलंकृतम अवतीर्णा ततॊ रङ्गं दरौपदी भरतर्षभ ॥ 30 ॥

  31. पुरॊहितः सॊमकानां मन्त्रविद बराह्मणः शुचिः परिस्तीर्य जुहावाग्निम आज्येन विधिना तदा ॥ 31 ॥

  32. स तर्पयित्वा जवलनं बराह्मणान सवस्ति वाच्य च वारयाम आस सर्वाणि वादित्राणि समन्ततः ॥ 32 ॥

  33. निःशब्दे तु कृते तस्मिन धृष्टद्युम्नॊ विशां पते रङ्गमध्यगतस तत्र मेघगम्भीरया गिरा वाक्यम उच्चैर जगादेदं शलक्ष्णम अर्थवद उत्तमम ॥ 33 ॥

  34. इदं धनुर लक्ष्यम इमे च बाणाः; शृण्वन्तु मे पार्थिवाः सर्व एव यन्त्रच छिद्रेणाभ्यतिक्रम्य लक्ष्यं; समर्पयध्वं खगमैर दशार्धैः ॥ 34 ॥

  35. एतत कर्ता कर्म सुदुष्करं; यः कुलेन रूपेण बलेन युक्तः तस्याद्य भार्या भगिनी ममेयं; कृष्णा भवित्री न मृषा बरवीमि ॥ 35 ॥

  36. तान एवम उक्त्वा दरुपदस्य पुत्रः; पश्चाद इदं दरौपदीम अभ्युवाच नाम्ना च गॊत्रेण च कर्मणा च; संकीर्तयंस तान नृपतीन समेतान ॥ 36 ॥

Reach this point to mark the section finished.

Continue to अध्याय 177

Previous: अध्याय 175