[ग] एवम उक्तः स विप्रर्षिर वसिष्ठेन महात्मना नययच्छद आत्मनः कॊपं सर्वलॊकपराभवात ॥ 1 ॥
ईजे च स महातेजाः सर्ववेदविदां वरः ऋषी राक्षस सत्रेण शाक्तेयॊ ऽथ पराशरः ॥ 2 ॥
ततॊ वृद्धांश च बालांश च राक्षसान स महामुनिः ददाह वितते यज्ञे शक्तेर वधम अनुस्मरन ॥ 3 ॥
न हि तं वारयाम आस वसिष्ठॊ रक्षसां वधात दवितीयाम अस्य मा भाङ्क्षं परतिजाम इति निश्चयात ॥ 4 ॥
तरयाणां पावकानां स सत्रे तस्मिन महामुनिः आसीत पुरस्ताद दीप्तानां चतुर्थ इव पावकः ॥ 5 ॥
तेन यज्ञेन शुभ्रेण हूयमानेन युक्तितः तद विदीपितम आकाशं सूर्येणेव घनात्यये ॥ 6 ॥
तं वसिष्ठादयः सर्वे मुनयस तत्र मेनिरे तेजसा दिवि दीप्यन्तं दवितीयम इव भास्करम ॥ 7 ॥
ततः परमदुष्प्रापम अन्यैर ऋषिर उदारधीः समापिपयिषुः सत्रं तम अत्रिः समुपागमत ॥ 8 ॥
तथा पुलस्त्यः पुलहः करतुश चैव महाक्रतुम उपाजग्मुर अमित्रघ्न रक्षसां जीवितेप्सया ॥ 9 ॥
पुलस्त्यस तु वधात तेषां रक्षसां भरतर्षभ उवाचेदं वचः पार्थ पराशरम अरिंदमम ॥ 10 ॥
कच चित तातापविघ्नं ते कच चिन नन्दसि पुत्रक अजानताम अदॊषाणां सर्वेषां रक्षसां वधात ॥ 11 ॥
परजॊच्छेदम इमं मह्यं सर्वं सॊमप सत्तम अधर्मिष्ठं वरिष्ठः सन कुरुषे तवं पराशर राजा कल्माषपादश च दिवम आरॊढुम इच्छति ॥ 12 ॥
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुनेः ते च सर्वे मुदा युक्ता मॊदन्ते सहिताः सुरैः सर्वम एतद वसिष्ठस्य विदितं वै महामुने ॥ 13 ॥
रक्षसां च समुच्छेद एष तात तपस्विनाम निमित्तभूतस तवं चात्र करतौ वासिष्ठनन्दन स सत्रं मुञ्च भद्रं ते समाप्तम इदम अस्तु ते ॥ 14 ॥
एवम उक्तः पुलस्त्येन वसिष्ठेन च धीमता तदा समापयाम आस सत्रं शाक्तिः पराशरः ॥ 15 ॥
सर्वराक्षस सत्राय संभृतं पावकं मुनिः उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने ॥ 16 ॥
स तत्राद्यापि रक्षांसि वृक्षान अश्मान एव च भक्षयन दृश्यते वह्निः सदा पर्वणि पर्वणि ॥ 17 ॥
आदिपर्व · Adi Parva
अध्याय 172
Reach this point to mark the section finished.
Continue to अध्याय 173