[आर्ज] राज्ञा कल्माषपादेन गुरौ बरह्मविदां वरे कारणं किं पुरस्कृत्य भार्या वै संनियॊजिता ॥ 1 ॥
जानता च परं धर्मं लॊक्यं तेन महात्मना अगम्यागमनं कस्माद वसिष्ठेन महात्मना कृतं तेन पुरा सर्वं वक्तुम अर्हसि पृच्छतः ॥ 2 ॥
[ग] धनंजय निबॊधेदं यन मां तवं परिपृच्छसि वसिष्ठं परति दुर्धर्षं तथामित्र सहं नृपम ॥ 3 ॥
कथितं ते मया पूर्वं यथा शप्तः स पार्थिवः शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना ॥ 4 ॥
स तु शापवशं पराप्तः करॊधपर्याकुलेक्षणः निर्जगाम पुराद राजा सह दारः परंतपः ॥ 5 ॥
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे नानामृगगणाकीर्णं नाना सत्त्वसमाकुलम ॥ 6 ॥
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम अरण्यं घॊरसंनादं शापग्रस्तः परिभ्रमन ॥ 7 ॥
स कदा चित कषुधाविष्टॊ मृगयन भक्षम आत्मनः ददर्श सुपरिक्लिष्टः कस्मिंश चिद वननिर्झरे बराह्मणीं बराह्मणं चैव मैथुनायॊपसंगतौ ॥ 8 ॥
तौ समीक्ष्य तु वित्रस्ताव अकृतार्थौ परधावितौ तयॊश च दरवतॊर विप्रं जगृहे नृपतिर बलात ॥ 9 ॥
दृष्ट्वा गृहीतं भर्तारम अथ बराह्मण्य अभाषत शृणु राजन वचॊ मह्यं यत तवां वक्ष्यामि सुव्रत ॥ 10 ॥
आदित्यवंशप्रभवस तवं हि लॊकपरिश्रुतः अप्रमत्तः सथितॊ धर्मे गुरुशुश्रूषणे रतः ॥ 11 ॥
शापं पराप्तॊ ऽसि दुर्धर्षे न पापं कर्तुम अर्हसि ऋतुकाले तु संप्राप्ते भर्त्रास्म्य अद्य समागता ॥ 12 ॥
अकृतार्था हय अहं भर्त्रा परसवार्थश च मे महान परसीद नृपतिश्रेष्ठ भर्ता मे ऽयं विसृज्यताम ॥ 13 ॥
एवं विक्रॊशमानायास तस्याः स सुनृशंसकृत भर्तारं भक्षयाम आस वयाघॊर मृगम इवेप्सितम ॥ 14 ॥
तस्याः करॊधाभिभूताया यद अश्रुन्यपतद भुवि सॊ ऽगनिः समभवद दीप्तस तं च देशं वयदीपयत ॥ 15 ॥
ततः सा शॊकसंतप्ता भर्तृव्यसनदुःखिता कल्माषपादं राजर्षिम अशपद बराह्मणी रुषा ॥ 16 ॥
यस्मान ममाकृतार्थायास तवया कषुद्रनृशंसवत परेक्षन्त्या भक्षितॊ मे ऽदय परभुर भर्ता महायशाः ॥ 17 ॥
तस्मात तवम अपि दुर्बुद्धे मच छापपरिविक्षतः पत्नीम ऋताव अनुप्राप्य सद्यस तयक्ष्यसि जीवितम ॥ 18 ॥
यस्य चर्षेर वसिष्ठस्य तवया पुत्रा विनाशिताः तेन संगम्य ते भार्या तनयं जनयिष्यति स ते वंशकरः पुत्रॊ भविष्यति नृपाधम ॥ 19 ॥
एवं शप्त्वा तु राजानं सा तम आङ्गिरसी शुभा तस्यैव संनिधौ दीप्तं परविवेश हुताशनम ॥ 20 ॥
वसिष्ठश च महाभागः सर्वम एतद अपश्यत जञानयॊगेन महता तपसा च परंतप ॥ 21 ॥
मुक्तशापश च राजर्षिः कालेन महता ततः ऋतुकाले ऽभिपतितॊ मदयन्त्या निवारितः ॥ 22 ॥
न हि सस्मार नृपतिस तं शापं शापमॊहितः देव्याः सॊ ऽथ वचः शरुत्वा स तस्या नृपसत्तमः तं च शापम अनुस्मृत्य पर्यतप्यद भृशं तदा ॥ 23 ॥
एतस्मात कारणाद राजा वसिष्ठं संन्ययॊजयत सवदारे भरतश्रेष्ठ शापदॊषसमन्वितः ॥ 24 ॥
आदिपर्व · Adi Parva
अध्याय 173
Reach this point to mark the section finished.
Continue to अध्याय 174