धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 170

  1. [बराह्मणी] नाहं गृह्णामि वस तात दृष्टीर नास्ति रुषान्विता अयं तु भर्गवॊ नूनम ऊरुजः कुपितॊ ऽदय वः ॥ 1 ॥

  2. तेन चक्षूंषि वस तात नूनं कॊपान महात्मना समरता निहतान बन्धून आदत्तानि न संशयः ॥ 2 ॥

  3. गर्भान अपि यदा यूयं भृगूणां घनत पुत्रकाः तदायम ऊरुणा गर्भॊ मया वर्षशतं धृतः ॥ 3 ॥

  4. षडङ्गश चाखिलॊ वेद इमं गर्भस्थम एव हि विवेश भृगुवंशस्य भूयः परियचिकीर्षया ॥ 4 ॥

  5. सॊ ऽयं पितृवधान नूनं करॊधाद वॊ हन्तुम इच्छति तेजसा यस्य दिव्येन चक्षूंषि मुषितानि वः ॥ 5 ॥

  6. तम इमं तात याचध्वम और्वं मम सुतॊत्तमम अयं वः परणिपातेन तुष्टॊ दृष्टीर विमॊक्ष्यति ॥ 6 ॥

  7. [ग] एवम उक्तास ततः सर्वे राजानस ते तम ऊरुजम ऊचुः परसीदेति तदा परसादं च चकार सः ॥ 7 ॥

  8. अनेनैव च विख्यातॊ नाम्ना लॊकेषु सत्तमः स और्व इति विप्रर्षिर ऊरुं भित्त्वा वयजायत ॥ 8 ॥

  9. चक्षूंषि परतिलभ्याथ परतिज्जग्मुस ततॊ नृपाः भार्गवस तु मुनिर मेने सर्वलॊकपराभवम ॥ 9 ॥

  10. सचक्रे तात लॊकानां विनाशाय महामनाः सर्वेषाम एव कार्त्स्न्येन मनः परवणम आत्मनः ॥ 10 ॥

  11. इच्छन्न अपचितिं कर्तुं भृगूणां भृगुसत्तमः सर्वलॊकविनाशाय तपसा महतैधितः ॥ 11 ॥

  12. तापयाम आस लॊकान स सदेवासुरमानुषान तपसॊग्रेण महता नन्दयिष्यन पितामहान ॥ 12 ॥

  13. ततस तं पितरस तात विज्ञाय भृगुसत्तमम पितृलॊकाद उपागम्य सर्व ऊचुर इदं वचः ॥ 13 ॥

  14. और्व दृष्टः परभावस ते तपसॊग्रस्य पुत्रक परसादं कुरु लॊकानां नियच्छ करॊधम आत्मनः ॥ 14 ॥

  15. नानीशैर हि तदा तात भृगुभिर भावितात्मभिः वधॊ ऽभयुपेक्षितः सर्वैः कषत्रियाणां विहिंसताम ॥ 15 ॥

  16. आयुषा हि परकृष्टेन यदा नः खेद आविशत तदास्माभिर वधस तात कषत्रियैर ईप्सितः सवयम ॥ 16 ॥

  17. निखातं तद धि वै वित्तं केन चिद भृगुवेश्मनि वैरायैव तदा नयस्तं कषत्रियान कॊपयिष्णुभिः किं हि वित्तेन नः कार्यं सवर्गेप्सूनां दविजर्षभ ॥ 17 ॥

  18. यदा तु मृत्युर आदातुं न नः शक्नॊति सर्वशः तदास्माभिर अयं दृष्ट उपायस तात संमतः ॥ 18 ॥

  19. आत्महा च पुमांस तात न लॊकाँल लभते शुभान ततॊ ऽसमाभिः समीक्ष्यैवं नात्मनात्मा विनाशितः ॥ 19 ॥

  20. न चैतन नः परियं तात यद इदं कर्तुम इच्छसि नियच्छेदं मनः पापात सर्वलॊकपराभवात ॥ 20 ॥

  21. न हि नः कषत्रियाः के चिन न लॊकाः सप्त पुत्रक दूषयन्ति तपस तेजः करॊधम उत्पतितं जहि ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 171

Previous: अध्याय 169