धर्मDharmic Data

आदिपर्व · Adi Parva

अध्याय 16

  1. [स] ततॊ ऽभरशिखराकारैर गिरिशृङ्गैर अलंकृतम मन्दरं पर्वत वरं लता जालसमावृतम ॥ 1 ॥

  2. नानाविहगसंघुष्टं नाना दंष्ट्रि समाकुलम किंनरैर अप्सरॊभिश च देवैर अपि च सेवितम ॥ 2 ॥

  3. एकादश सहस्राणि यॊजनानां समुच्छ्रितम अधॊ भूमेः सहस्रेषु तावत्स्व एव परतिष्ठितम ॥ 3 ॥

  4. तम उद्धर्तुं न शक्ता वै सर्वे देवगणास तदा विष्णुम आसीनम अभ्येत्य बरह्माणं चेदम अब्रुवन ॥ 4 ॥

  5. भवन्ताव अत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम मन्दरॊद्धरणे यत्नः करियतां च हिताय नः ॥ 5 ॥

  6. तथेति चाब्रवीद विष्णुर बरह्मणा सह भार्गव ततॊ ऽनन्तः समुत्थाय बरह्मणा परिचॊदितः नारायणेन चाप्य उक्तस तस्मिन कर्मणि वीर्यवान ॥ 6 ॥

  7. अथ पर्वतराजानं तम अनन्तॊ महाबलः उज्जहार बलाद बरह्मन सवनं सवनौकसम ॥ 7 ॥

  8. ततस तेन सुराः सार्धं समुद्रम उपतस्थिरे तम ऊचुर अमृतार्थाय निर्मथिष्यामहे जलम ॥ 8 ॥

  9. अपां पतिर अथॊवाच ममाप्य अंशॊ भवेत ततः सॊढास्मि विपुलं मर्दं मन्दरभ्रमणाद इति ॥ 9 ॥

  10. ऊचुश च कूर्मराजानम अकूपारं सुरासुराः गिरेर अधिष्ठानम अस्य भवान भवितुम अर्हति ॥ 10 ॥

  11. कूर्मेण तु तथेत्य उक्त्वा पृष्ठम अस्य समर्पितम तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रॊ ऽभयपीडयत ॥ 11 ॥

  12. मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम देवा मथितुम आरब्धाः समुद्रं निधिम अम्भसाम अमृतार्थिनस ततॊ बरह्मन सहिता दैत्यदानवाः ॥ 12 ॥

  13. एकम अन्तम उपाश्लिष्टा नागराज्ञॊ महासुराः विबुधाः सहिताः सर्वे यतः पुच्छं ततः सथिताः ॥ 13 ॥

  14. अनन्तॊ भगवान देवॊ यतॊ नारायणस ततः शिर उद्यम्य नागस्य पुनः पुनर अवाक्षिपत ॥ 14 ॥

  15. वासुकेर अथ नागस्य सहसाक्षिप्यतः सुरैः सधूमाः सार्चिषॊ वाता निष्पेतुर असकृन मुखात ॥ 15 ॥

  16. ते धूमसंघाः संभूता मेघसंघाः सविद्युतः अभ्यवर्षन सुरगणाञ शरमसंताप कर्शितान ॥ 16 ॥

  17. तस्माच च गिरिकूटाग्रात परच्युताः पुष्पवृष्टयः सुरासुरगणान माल्यैः सर्वतः समवाकिरन ॥ 17 ॥

  18. बभूवात्र महाघॊषॊ महामेघरवॊपमः उदधेर मथ्यमानस्य मन्दरेण सुरासुरैः ॥ 18 ॥

  19. तत्र नाना जलचरा विनिष्पिष्टा महाद्रिणा विलयं समुपाजग्मुः शतशॊ लवणाम्भसि ॥ 19 ॥

  20. वारुणानि च भूतानि विविधानि महीधरः पातालतलवासीनि विलयं समुपानयत ॥ 20 ॥

  21. तस्मिंश च भराम्यमाणे ऽदरौ संघृष्यन्तः परस्परम नयपतन पतगॊपेताः पर्वताग्रान महाद्रुमाः ॥ 21 ॥

  22. तेषां संघर्षजश चाग्निर अर्चिर्भिः परज्वलन मुहुः विद्युद्भिर इव नीलाभ्रम आवृणॊन मन्दरं गिरिम ॥ 22 ॥

  23. ददाह कुञ्जरांश चैव सिंहांश चैव विनिःसृतान विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥ 23 ॥

  24. तम अग्निम अमर शरेष्ठः परदहन्तं ततस ततः वारिणा मेघजेनेन्द्रः शमयाम आस सर्वतः ॥ 24 ॥

  25. ततॊ नानाविधास तत्र सुस्रुवुः सागराम्भसि महाद्रुमाणां निर्यासा बहवश चौषधी रसाः ॥ 25 ॥

  26. तेषाम अमृतवीर्याणां रसानां पयसैव च अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात ॥ 26 ॥

  27. अथ तस्य समुद्रस्य तज जातम उदकं पयः रसॊत्तमैर विमिश्रं च ततः कषीराद अभूद घृतम ॥ 27 ॥

  28. ततॊ बरह्माणम आसीनं देवा वरदम अब्रुवन शरान्ताः सम सुभृशं बरह्मन नॊद्भवत्य अमृतं च तत ॥ 28 ॥

  29. ऋते नारायणं देवं दैत्या नागॊत्तमास तथा चिरारब्धम इदं चापि सागरस्यापि मन्थनम ॥ 29 ॥

  30. ततॊ नारायणं देवं बरह्मा वचनम अब्रवीत विधत्स्वैषां बलं विष्णॊ भवान अत्र परायणम ॥ 30 ॥

  31. [विस्णु] बलं ददामि सर्वेषां कर्मैतद ये समास्थिताः कषॊभ्यतां कलशः सर्वैर मन्दरः परिवर्त्यताम ॥ 31 ॥

  32. [सूत] नारायण वचः शरुत्वा बलिनस ते महॊदधेः तत पयः सहिता भूयश चक्रिरे भृशम आकुलम ॥ 32 ॥

  33. ततः शतसहस्रांशुः समान इव सागरात परसन्नभाः समुत्पन्नः सॊमः शीतांशुर उज्ज्वलः ॥ 33 ॥

  34. शरीर अनन्तरम उत्पन्ना घृतात पाण्डुरवासिनी सुरा देवी समुत्पन्ना तुरगः पाण्डुरस तथा ॥ 34 ॥

  35. कौस्तुभश च मणिर दिव्य उत्पन्नॊ ऽमृतसंभवः मरीचिविकचः शरीमान नारायण उरॊगतः ॥ 35 ॥

  36. शरीः सुरा चैव सॊमश च तुरगश च मनॊजवः यतॊ देवास ततॊ जग्मुर आदित्यपथम आश्रिताः ॥ 36 ॥

  37. धन्वन्तरिस ततॊ देवॊ वपुष्मान उदतिष्ठत शवेतं कमण्डलुं बिभ्रद अमृतं यत्र तिष्ठति ॥ 37 ॥

  38. एतद अत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः अमृतार्थे महान नादॊ ममेदम इति जल्पताम ॥ 38 ॥

  39. ततॊ नारायणॊ मायाम आस्थितॊ मॊहिनीं परभुः सत्री रूपम अद्भुतं कृत्वा दानवान अभिसंश्रितः ॥ 39 ॥

  40. ततस तद अमृतं तस्यै ददुस ते मूढचेतसः सत्रियै दानव दैतेयाः सर्वे तद्गतमानसाः ॥ 40 ॥

Reach this point to mark the section finished.

Continue to अध्याय 17

Previous: अध्याय 15