[वस] मा भैः पुत्रि न भेतव्यं रक्षसस ते कथं चन नैतद रक्षॊभयं यस्मात पश्यसि तवम उपस्थितम ॥ 1 ॥
राजा कल्माषपादॊ ऽयं वीर्यवान परथितॊ भुवि स एषॊ ऽसमिन वनॊद्देशे निवसत्य अतिभीषणः ॥ 2 ॥
[ग] तम आपतन्तं संप्रेक्ष्य वसिष्ठॊ भगवान ऋषिः वारयाम आस तेजस्वी हुंकरेणैव भारत ॥ 3 ॥
मन्त्रपूतेन च पुनः स तम अभ्युक्ष्य वारिणा मॊक्षयाम आस वै घॊराद राक्षसाद राजसत्तमम ॥ 4 ॥
स हि दवादश वर्षाणि वसिष्ठस्यैव तेजसा गरस्त आसीद गृहेणेव पर्वकाले दिवाकरः ॥ 5 ॥
रक्षसा विप्रमुक्तॊ ऽथ स नृपस तद वनं महत तेजसा रञ्जयाम आस संध्याभ्रम इव भास्करः ॥ 6 ॥
परतिलभ्य ततः संज्ञाम अभिवाद्य कृताञ्जलिः उवाच नृपतिः काले वसिष्ठम ऋषिसत्तमम ॥ 7 ॥
सौदामॊ ऽहं महाभाग याज्यस ते दविजसत्तम अस्मिन काले यद इष्टं ते बरूहि किं करवाणि ते ॥ 8 ॥
[वस] वृत्तम एतद यथाकालं गच्छ राज्यं परशाधि तत बराह्मणांश च मनुष्येन्द्र मावमंस्थाः कदा चन ॥ 9 ॥
[राजा] नावमंस्याम्य अहं बरह्मन कदा चिद बराह्मणर्षभान तवन निदेशे सथितः शश्वत पुजयिष्याम्य अहं दविजान ॥ 10 ॥
इक्ष्वाकूणां तु येनाहम अनृणः सयां दविजॊत्तम तत तवत्तः पराप्तुम इच्छामि वरं वेदविदां वर ॥ 11 ॥
अपत्यायेप्सितां मह्यं महिषीं गन्तुम अर्हसि शीलरूपगुणॊपेताम इक्ष्वाकुकुलवृद्धये ॥ 12 ॥
[ग] ददानीत्य एव तं तत्र राजानं परत्युवाच ह वसिष्ठः परमेष्वासं सत्यसंधॊ दविजॊत्तमः ॥ 13 ॥
ततः परतिययौ काले वसिष्ठः सहितॊ ऽनघ खयातं पुरवरं लॊकेष्व अयॊध्यां मनुजेश्वरः ॥ 14 ॥
तं परजाः परतिमॊदन्त्यः सर्वाः परत्युद्ययुस तदा विपाप्मानं महात्मानं दिवौकस इवेश्वरम ॥ 15 ॥
अचिरात स मनुष्येन्द्रॊ नगरीं पुण्यकर्मणाम विवेश सहितस तेन वसिष्ठेन महात्मना ॥ 16 ॥
ददृशुस तं ततॊ राजन्न अयॊध्यावासिनॊ जनाः पुष्येण सहितं काले दिवाकरम इवॊदितम ॥ 17 ॥
स हि तां पूरयाम आस लक्ष्म्या लक्ष्मीवतां वरः अयॊध्यां वयॊम शीतांशुः शरत्काल इवॊदितः ॥ 18 ॥
संसिक्त मृष्टपन्थानं पताकॊच्छ्रय भूषितम मनः परह्लादयाम आसा तस्य तत पुरम उत्तमम ॥ 19 ॥
तुष्टपुष्टजनाकीर्णा सा पुरी कुरुनन्दन अशॊभत तदा तेन शक्रेणेवामरावती ॥ 20 ॥
ततः परविष्टे राजेन्द्रे तस्मिन राजनि तां पुरीम तस्य राज्ञ आज्ञया देवी वसिष्ठम उपचक्रमे ॥ 21 ॥
ऋताव अथ महर्षिः स संबभूव तया सह देव्या दिव्येन विधिना वसिष्ठः शरेष्ठ भाग ऋषिः ॥ 22 ॥
अथ तस्यां समुत्पन्ने गर्भे स मुनिसत्तमः राज्ञाभिवादितस तेन जगाम पुनर आश्रमम ॥ 23 ॥
दीर्घकालधृतं गर्भं सुषाव न तु तं यदा साथ देव्य अश्मना कुक्षिं निर्बिभेद तदा सवकम ॥ 24 ॥
दवादशे ऽथ ततॊ वर्षे स जज्ञे मनुजर्षभ अश्मकॊ नाम राजर्षिः पॊतनं यॊ नयवेशयत ॥ 25 ॥
आदिपर्व · Adi Parva
अध्याय 168
Reach this point to mark the section finished.
Continue to अध्याय 169