[ग] ततॊ दृष्ट्वाश्रमपदं रहितं तैः सुतैर मुनिः निर्जगाम सुदुःखार्तः पुनर एवाश्रमात ततः ॥ 1 ॥
सॊ ऽपश्यत सरितं पूर्णां परावृट्काले नवाम्भसा वृक्षान बहुविधान पार्थ वहन्तीं तीरजान बहून ॥ 2 ॥
अथ चिन्तां समापेदे पुनः पौरवनन्दन अम्भस्य अस्या निमज्जेयम इति दुःखसमन्वितः ॥ 3 ॥
ततः पाशैस तदात्मानं गाढं बद्ध्वा महामुनिः तस्या जले महानद्या निममज्ज सुदुःखितः ॥ 4 ॥
अथ छित्त्वा नदी पाशांस तस्यारि बलमर्दन समस्थं तम ऋषिं कृत्वा विपाशं समवासृजत ॥ 5 ॥
उत्ततार ततः पाशैर विमुक्तः स महान ऋषिः विपाशेति च नामास्या नद्याश चक्रे महान ऋषिः ॥ 6 ॥
शॊके बुद्धिं ततश चक्रे न चैकत्र वयतिष्ठित सॊ ऽगच्छत पर्वतांश चैव सरितश च सरांसि च ॥ 7 ॥
ततः स पुनर एवर्षिर नदीं हैमवतीं तदा चण्डग्राहवतीं दृष्ट्वा तस्याः सरॊतस्य अवापतत ॥ 8 ॥
सा तम अग्निसमं विप्रम अनुचिन्त्य सरिद वरा शतधा विद्रुता यस्माच छतद्रुर इति विश्रुता ॥ 9 ॥
ततः सथलगतं दृष्ट्वा तत्राप्य आत्मानम आत्मना मर्तुं न शक्यम इत्य उक्त्वा पुनर एवाश्रमं ययौ ॥ 10 ॥
वध्वादृश्यन्त्यानुगत आश्रमाभिमुखॊ वरजन अथ शुश्राव संगत्या वेदाध्ययननिःस्वनम पृष्ठतः परिपूर्णार्थैः षड्भिर अङ्गैर अलंकृतम ॥ 11 ॥
अनुव्रजति कॊ नव एष माम इत्य एव च सॊ ऽबरवीत अहं तव अदृश्यती नाम्ना तं सनुषा परत्यभाषत शक्तेर भार्या महाभाग तपॊ युक्ता तपस्विनी ॥ 12 ॥
[वस] पुत्रि कस्यैष साङ्गस्य वेदस्याध्ययन सवनः पुरा साङ्गस्य वेदस्य शक्तेर इव मया शरुतः ॥ 13 ॥
[आदृष्यन्ती] अयं कुक्षौ समुत्पन्नः शक्तेर गर्भः सुतस्य ते समा दवादाश तस्येह वेदान अभ्यसतॊ मुने ॥ 14 ॥
[ग] एवम उक्तस ततॊ हृष्टॊ वसिष्ठः शरेष्ठ भाग ऋषिः अस्ति संतानम इत्य उक्त्वा मृत्यॊः पार्थ नयवर्तत ॥ 15 ॥
ततः परतिनिवृत्तः स तया वध्वा सहानघ कल्माषपादम आसीनं ददर्श विजने वने ॥ 16 ॥
स तु दृष्ट्वैव तं राजा करुद्ध उत्थाय भारत आविष्टॊ रक्षसॊग्रेण इयेषात्तुं ततः सम तम ॥ 17 ॥
अदृश्यन्ती तु तं दृष्ट्वा करूरकर्माणम अग्रतः भयसंविग्नया वाचा वसिष्ठम इदम अब्रवीत ॥ 18 ॥
असौ मृत्युर इवॊग्रेण दण्डेन भगवन्न इतः परगृहीतेन काष्ठेन राक्षसॊ ऽभयेति भीषणः ॥ 19 ॥
तं निवारयितुं शक्तॊ नान्यॊ ऽसति भुवि कश चन तवदृते ऽदय महाभाग सर्ववेदविदां वर ॥ 20 ॥
तराहि मां भगवान पापाद अस्माद दारुणदर्शनात रक्षॊ अत्तुम इह हय आवां नूनम एतच चिकीर्षति ॥ 21 ॥
आदिपर्व · Adi Parva
अध्याय 167
Reach this point to mark the section finished.
Continue to अध्याय 168