[ग] कल्माषपाद इत्य अस्मिँल लॊके राजा बभूव ह इक्ष्वाकुवंशजः पार्थ तेजसासदृशॊ भुवि ॥ 1 ॥
स कदा चिद वनं राजा मृगयां निर्ययौ पुरात मृगान विध्यन वराहांश च चचार रिपुमर्दनः ॥ 2 ॥
स तु राजा महात्मानं वासिष्ठम ऋषिसात्तमम तृषार्तश च कषुधार्तश च एकायनगतः पथि ॥ 3 ॥
अपश्यद अजितः संख्ये मुनिं परतिमुखागतम शक्तिं नाम महाभागं वसिष्ठ कुलनन्दनम जयेष्ठं पुत्रशतात पुत्रं वसिष्ठस्य महात्मनः ॥ 4 ॥
अपगच्छ पथॊ ऽसमाकम इत्य एवं पार्थिवॊ ऽबरवीत तथा ऋषिर उवाचैनं सान्त्वयञ शलक्ष्णया गिरा ॥ 5 ॥
ऋषिस तु नापचक्राम तस्मिन दर्म पथे सथितः नापि राजा मुनेर मानात करॊधाच्च चापि जगाम ह ॥ 6 ॥
अमुञ्चन्तं तु पन्थानं तम ऋषिं नृपसत्तमः जघान कशया मॊहात तदा राक्षसवन मुनिम ॥ 7 ॥
कशा परहाराभिहतस ततः स मुनिसत्तमः तं शशाप नृपश्रेष्ठं वासिष्ठः करॊधमूर्च्छितः ॥ 8 ॥
हंसि राक्षसवद यस्माद राजापसद तापसम तस्मात तवम अद्य परभृति पुरुषादॊ भविष्यसि ॥ 9 ॥
मनुष्यपिशिते सक्तश चरिष्यसि महीम इमाम गच्छ राजाधमेत्य उक्तः शक्तिना वीर्यशक्तिना ॥ 10 ॥
ततॊ याज्य निमित्तं तु विश्वामित्र वसिष्ठयॊः वैरम आसीत तदा तं तु विश्वामित्रॊ ऽनवपद्यत ॥ 11 ॥
तयॊर विवदतॊर एवं समीपम उपचक्रमे ऋषिर उग्रतपाः पार्थ विश्वामित्रः परतापवान ॥ 12 ॥
ततः स बुबुधे पश्चात तम ऋषिं नृपसत्तमः ऋषेः पुत्रं वसिष्ठस्य वसिष्ठम इव तेजसा ॥ 13 ॥
अन्तर्धाय तदात्मानं विश्वामित्रॊ ऽपि भारत ताव उभाव उपचक्राम चिकीर्षन्न आत्मनः परियम ॥ 14 ॥
स तु शप्तस तदा तेन शक्तिना वै नृपॊत्तमः जगाम शरणं शक्तिं परसादयितुम अर्हयन ॥ 15 ॥
तस्य भावं विदित्वा स नृपतेः कुरुनन्दन विश्वामित्रस ततॊ रक्ष आदिदेश नृपं परति ॥ 16 ॥
स शापात तस्य विप्रर्षेर विश्वामित्रस्य चाज्ञया राक्षसाः किंकरॊ नाम विवेश नृपतिं तदा ॥ 17 ॥
रक्षसा तु गृहीतं तं विदित्वा सा मुनिस तदा विश्वामित्रॊ ऽपय अपक्रामत तस्माद देशाद अरिंदम ॥ 18 ॥
ततः स नृपतिर विद्वान रक्षन्न आत्मानम आत्मना बलवत पीड्यमानॊ ऽपि रक्षसान्तर गतेन ह ॥ 19 ॥
ददर्श तं दविजः कश चिद राजानं परथितं पुनः ययाचे कषुधितश चैनं समांसां भॊजनं तदा ॥ 20 ॥
तम उवाचाथ राजर्षिर दविजं मित्रसहस तदा आस्स्व बरह्मंस तवम अत्रैव मुहूर्तम इति सान्त्वयन ॥ 21 ॥
निवृत्तः परतिदास्यामि भॊजनं ते यथेप्सितम इत्य उक्त्वा परययौ राजा तस्थौ च दविजसत्तमः ॥ 22 ॥
अन्तर्गतं तु तद राज्ञस तदा बराह्मण भाषितम सॊ ऽनतःपुरं परविश्याथ संविवेश नराधिपः ॥ 23 ॥
ततॊ ऽरधरात्र उत्थाय सूदम आनाय्य सत्वरम उवाच राजा संस्मृत्य बराह्मणस्य परतिश्रुतम ॥ 24 ॥
गच्छामुष्मिन्न असौ देशे बराह्मणॊ मां परतीक्षते अन्नार्थी तवं तन अन्नेन समांसेनॊपपादय ॥ 25 ॥
एवम उक्तस तदा सूदः सॊ ऽनासाद्यामिषं कव चित निवेदयाम आस तदा तस्मै राज्ञे वयथान्वितः ॥ 26 ॥
राजा तु रक्षसाविष्टः सूदम आह गतव्यथः अप्य एनं नरमांसेन भॊजयेति पुनः पुनः ॥ 27 ॥
तथेत्य उक्त्वा ततः सूदः संस्थानं वध्य घातिनाम गत्वा जहार तवरितॊ नरमांसम अपेतभीः ॥ 28 ॥
स तत संस्कृत्य विधिवद अन्नॊपहितम आशु वै तस्मै परादाद बराह्मणाय कषुधिताय तपस्विने ॥ 29 ॥
स सिद्धचक्षुषा दृष्ट्वा तदन्नं दविजसत्तमः अभॊज्यम इदम इत्य आह करॊधपर्याकुलेक्षणः ॥ 30 ॥
यस्माद अभॊज्यम अन्नं मे ददाति स नराधिपः तस्मात तस्यैव मूढस्य भविष्यत्य अत्र लॊलुपा ॥ 31 ॥
सक्तॊ मानुषमांसेषु यथॊक्तः शक्तिना पुरा उद्वेजनीयॊ भूतानां चरिष्यति महीम इमाम ॥ 32 ॥
दविर अनुव्याहृते राज्ञः स शापॊ बलवान अभूत रक्षॊबलसमाविष्टॊ विसंज्ञश चाभवत तदा ॥ 33 ॥
ततः स नृपतिश्रेष्ठॊ राक्षसॊपहतेन्द्रियः उवाच शक्तिं तं दृष्ट्वा नचिराद इव भारत ॥ 34 ॥
यस्माद असदृशः शापः परयुक्तॊ ऽयं तवया मयि तस्मात तवत्तः परवर्तिष्ये खादितुं मानुषान अहम ॥ 35 ॥
एवम उक्त्वा ततः सद्यस तं पराणैर विप्रयुज्य सः शक्तिनं भक्षयाम आस वयाघ्रः पशुम इवेप्सितम ॥ 36 ॥
शक्तिनं तु हतं दृष्ट्वा विश्वामित्रस ततः पुनः वसिष्ठस्यैव पुत्रेषु तद रक्षः संदिदेश ह ॥ 37 ॥
स ताञ शतावरान पुत्रान वसिष्ठस्य महात्मनः भक्षयाम आस संक्रुद्धः सिंहः कषुद्रमृगान इव ॥ 38 ॥
वसिष्ठॊ घातिताञ शरुत्वा विश्वामित्रेण तान सुतान धारयाम आस तं शॊकं महाद्रिर इव मेदिनीम ॥ 39 ॥
चक्रे चात्मविनाशाय बुद्धिं स मुनिसत्तमः न तव एव कुशिकॊच्छेदं मेने मतिमतां वरः ॥ 40 ॥
स मेरुकूटाद आत्मानं मुमॊच भगवान ऋषिः शिरस तस्य शिलायां च तूलराशाव इवापतत ॥ 41 ॥
न ममार च पातेन स यदा तेन पाण्डव तदाग्निम इद्ध्वा भगवान संविवेश महावने ॥ 42 ॥
तं तदा सुसमिद्धॊ ऽपि न ददाह हुताशनः दीप्यमानॊ ऽपय अमित्रघ्न शीतॊ ऽगनिर अभवत ततः ॥ 43 ॥
स समुद्रम अभिप्रेत्य शॊकाविष्टॊ महामुनिः बद्ध्वा कण्ठे शिलां गुर्वीं निपपात तद अम्भसि ॥ 44 ॥
स समुद्रॊर्मि वेगेन सथले नयस्तॊ महामुनिः जगाम स ततः खिन्नः पुनर एवाश्रमं परति ॥ 45 ॥
आदिपर्व · Adi Parva
अध्याय 166
Reach this point to mark the section finished.
Continue to अध्याय 167